Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 276
________________ ६२२ न्यायागमानुसारिणीवृत्त्यलङ्कृतं [अष्टम उभयनियमारे क्षिप्तत्वाद् भेदानाम् , शुक्लाभिधानानाक्षिप्तमधुरादिवत् । सच्छब्दो भेदैः सहासमानाधिकरणः, सामान्यानभिधायित्वात् , शुक्लशब्द इव मधुरादिभिः सहासामान्यवाची। द्रव्यादिशब्दो वा सच्छब्देन सहासमानाधिकरणः, अतद्विशेषसम्बन्धित्वात् , मधुरशब्द इव शुक्लशब्देन । सच्छब्दो वा असद्व्यावृत्तिमन्तं नाभिधत्ते, घटादिशब्दैः सहासमानाधिकरणत्वात् , अनित्यशब्दवत् । यथा चाह विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः । विशेषशब्दैरुच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥ [वाक्यप० ३।५४ ] इति वचनात् । भेदानाक्षेपश्चान्यापोहे चरितार्थत्वादिष्टः । अतः सिद्धो हेतुः-तदभिधानेऽनाक्षिप्तत्वाद् भेदानाम् , तेषामेव च पक्षीकृतत्वात् । शुक्लाभिधानानाक्षिप्तमधुरादिवदिति दृष्टान्तोऽपि भावितार्थः । 10. द्वितीयेऽपि साधने सच्छब्दे पक्षीकृते भेदानाक्षेपात् कस्य तत् सामान्यमपोहवद्वस्तु ? इति सामान्यानभिधायित्वं सिद्धं तस्य । दृष्टान्तः-शुक्लशब्दो मधुरादिभिः संहासामान्यवाचीति । पूर्वत्र शुक्लशब्दसहयोगावधिका भेदशब्दा एव साध्याः दृष्टान्ताश्च, इह तु भेदशब्दावधिकाः सामान्यशब्दा इति विशेषः । __ तृतीये द्रव्यादिशब्दो वेति साक्षाद् विशेषशब्द एव तद्वारेण विशेषार्थ एव वा साक्षात् 15 पक्षः । अतद्विशेषत्वम् , असदसतः सामान्यस्य न विशेषा द्रव्यादयः, अनाक्षिप्तत्वादुक्तन्यायेन । न चें तत् सामान्यं तेषां सम्बन्धि ते वा तस्येति सिद्धमतद्विशेषसम्बन्धित्वम् । 'तद्विशेषासम्बन्धित्वात् , अतद्विशेषसम्बन्धित्वात्' इति वा पाठान्तरे। मधुरशब्द इव शुक्लशब्देनेति गतार्थो दृष्टान्तः । ४१३-२ सच्छब्दो वाऽसद्व्यावृत्तिमन्तं नाभिधत्ते, अपोहवतः स्वार्थाभिमतस्याभिधानमेव वा निराकुर्महे । घटादिशब्दैः सहासमानाधिकरणत्वात् , सच्छब्दस्य घटादिशब्दैः सहासमानाधिकरणत्वं भेदाना20 क्षेपात् सिद्धम् । अनित्यशब्दवत् , 'अनित्यः शब्दः' इत्युक्ते 'नित्यो न भवति' इति नित्यत्वव्यावृत्तिमन्तं ब्रूते नासद्व्यावृत्तिमन्तम् , 'शब्द'शब्देनैव च समानाधिकरणोऽनित्यशब्दो न घटादिशब्दैः । अतः साध्यसाधनधर्मद्वयं दृष्टान्ते दार्टान्तिके च सिद्धमिति । यथा चाहेति ज्ञापकं सम्प्रतिपन्नवाद्यन्तरंमतप्रदर्शनं तस्यार्थस्य दृढीकरणार्थम् । प्रधानेषु विशेष्येषु विद्यमाना अपि भेदहेतवो धर्माः सर्वे नोच्यन्ते, कश्चिदेव विशिष्टो विवक्षितः केनचिद् ‘विशेषणेन 25 तद्वाचिना विशेषशब्देनोच्यतेऽर्थो विशेषान्तराव्यापारेण, तत्रैव चरितार्थत्वात् तस्य गुणभूतत्वात् । अत एव च ते 'विशेषशब्दाः' इत्युच्यन्ते व्यावृत्तार्थाभिधायित्वादिति । एतेनैव यत्नेन त्वदीयेन च विधिप्रधानसत्वदभिधानपक्षदोषोक्तियत्नेन कृतप्रयोजनत्वान्न पृथग् दूष्यते । १°वदि दृष्टाप्र०॥ २ सह सामान्य प्र०॥ ३ च सामान्यं य० ॥ ४ नामवधा निरा प्र०॥ ५त्वात् च्छब्दस्य भा०। स्वात् शब्दस्य य० ॥ ६ यथा वाह प्र०॥ ७रतमप्र य० । रमप्र भा० ॥ ८ विशेषेणन य० ॥ ९°न्तरव्यापाप्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403