Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 285
________________ दिशागप्रणीतापोहयादनिरासः] द्वादशारं नयचक्रम् । वश्यमित्युक्तम् । ननु तद्वत्पक्षाद् भेदपक्षस्य को विशेष इति चेत्, तद्वत्पक्षे सज्जातिरूपेण सच्छब्देनाभिधानम् , भेदपक्षे तु द्रव्यादिरूपेण । एवं हि ते भेदरूपेणाभिहिता भवन्तीति विशेषः । तत्रापि द्रव्यत्वादिषु साक्षाद् भेदेखूपचार इति पूर्ववदेव दोषो वक्तव्यः-साक्षाद् उपचारप्रवृत्तत्वं क्रमेणानभिधानं गुणोपकारविरोधश्चेति । सम्भवादिति जात्यभिधाने 'प्रकर्षः स्याद् विना धिया' इत्यस्यासम्भवात् । सम्बन्धाभिधानेऽप्यत एव 'सम्भव'वचनम् । ननु पूर्व सम्बन्धस्यानभिधेयत्वमुक्तं तत् कथमिदानीं सद्रूपेणाभिधानमाश्रीयते कथं चात्र अभेदोपचारः सम्बन्धस्याङ्गीक्रियते ? पूर्व हि असत्त्वभूतत्वाद् आख्यातार्थे शब्दस्याभेदोपचारानुपपत्तेरनभिधानमुक्तम् , सम्बन्धोऽप्यसत्त्वभूत एव, तत् कथं तस्य सत्त्वं सच्छब्देनाभेदोपचारो वा ? अभेदोपचाराभावे च कुतः पूर्वोक्तदोषप्रसङ्गः ? अथ सत्तया अभेदोपचारेण स उच्यते कथं सद्योगशब्दयोः सामानाधिकरण्यानुपपत्तिरिति चेत्, नायं दोषः, सम्बन्धाभिधानमभ्युपगम्यास्य दोषस्योक्तत्वात् । 'यदि च सम्बन्धोऽभिधीयते तथापि तद्वत्पक्षदोषानतिक्रम एव जातिमता तुल्यसामर्थ्यात्' इति दर्शनार्थमिदमुक्तम् । तद्वांश्चेत्यादिनास्य पक्षान्तरत्वमेव निराकरोति । ननु चोक्तमित्यादिना पक्षान्तरत्वं दर्शयति । अत्र भेदा भेदरूपेण नाभिधीयन्ते, किं तर्हि ? जातिमतां तेषां यन्निविशेष रूपं सत्त्वेनारोपितं तदेव भेदरूपासंस्पृष्टमभिधीयते । तथा च भेदपक्षात् पक्षान्तरमेवेदमिति मन्यते । यद्येवम् इत्यादिना जातियोगपक्षयोरन्तर्भूतत्वादस्य पक्षान्तरत्वं निषेधति । कथं पुनस्तद्वन्मानं सत्ता सम्बन्धो वा भवतीति चेदुच्यते-तद्वन्मात्रं हि इयादि । 'मात्र' शब्देन विशेषनिराकरणे सामान्यं सर्वानुगतिरूपं शब्दार्थ इत्युक्तं भवति। तच्च प्रवृत्तिनिमित्तत्वाद् भावप्रत्ययेन उच्यमानं सत्तां सम्बन्धं वा विहाय नान्यदुपलभ्यते, भावप्रत्ययस्य तत्रैव विहितत्वात् । इदमागमेन दर्शयितुमाह-समासकृत्तद्धितेषु इत्यादि सम्बन्धस्याभिधेयत्वे आगमः । राजपुरुषत्वं पाचकत्वम् औपगवत्वमित्येतेषु समासादिषु स्वस्वामि-क्रियाकारक-निमित्तनैमित्तिकसम्बन्धा उच्यन्ते यथासंख्यम् । ततोऽत्रापि सच्छब्दः कृदन्तत्वात् सम्बन्धवाचकः स्यात् । अन्येऽस्यैवापवाद वदन्ति-अन्यत्रेत्यादि । अयं गुणवाचित्वे आगमः । रूढे..... अत्र जातिमात्रमभिधीयते, न सम्बन्धः । अभिन्नरूपात् तद्धितात्..... अत्र च गुण एवोच्यते । अव्यभिचरितसम्बन्धात्..... 'अत्र तदेव सत्त्वमभिधीयते, न सम्बन्धः । तद्वानों घटादिरित्यादिना अनेकत्रावर्तमानताया हेतुः प्रकाशितः । सामान्यमर्थः स कथमिति प्रमाणफलम् । यदनेकत्र न वर्तते तन्न सामान्यम् , स्वलक्षणवत् , तद्वांश्च तथा, इति व्यापकाभावः । सामान्यं ह्यनेकत्र वर्तते इति व्यतिरेकः । तच्चेत्यादिना हेतोरेवार्थ विवृणोति । कथमित्यादिभिः प्रतिज्ञार्थम् । ननु चेत्यादिना सिद्धसाध्यतामाह, तद्वतः सामान्यरूपत्वेनानिष्टत्वात् । तदनिष्टत्वं सामान्यरूपारोपस्य प्रकाशयन्नाह-किमर्थमित्यादि । यस्मादित्यादि सिद्धसाध्यतायाः प्रतिविधानम् । एवं मन्यते-सम्बन्धसौकर्यादव्यभिचारवचनाच्च सच्छब्दस्य सामान्यवाचित्वमाश्रीयते भेदशब्दैः सह सामानाधिकरण्याभ्युपगमाच, सामान्यविशेषभावाभावे सामानाधिकरण्यं नोपपद्यत इति । तथाहि-सामान्यशब्दाद् निर्विशेषं प्रवर्तमाना बुद्धिर्विशेषशब्देर्भेदान्तरेभ्यो व्यवच्छिद्य विशिष्टविषयेऽवस्थाप्यते । तत् सामान्याभावे नोपपद्यते । अत्र च सामान्येन तद्वानित्यभ्युपगमे विकल्पद्वयम्-किं सत्तादिसामान्यस्य तद्वत्त्वम् आहोखित् तद्वतो घटादेः समानत्वमिति । तत्र पूर्वस्यासम्भव इति दर्शयति-सत्तादिषु चेत्यादि । सत्तादिषु जात्यन्तरं नास्ति जातीनामजातित्वात् । ततोऽवश्यं द्वितीयविकल्पोऽभ्युपगन्तव्य इति दर्शयति-तस्मादित्यादि । अथै इति प्रकृतत्वात् तद्वति घटादौ । स्यादेतत् (?) ननु तत्रैवेति चेत्, अत्रोच्यतेतच्चेत्यादि । कस्मानास्तीति चेत्, यस्मादित्यादि । केवलवचनेन अभिधेयं तुल्यं निराकरोति। शब्द एवाभिधायक एते[षां] तुल्यः, न वाच्यमेवं किञ्चिदपीत्यर्थः। तद्वता केनचिदपि नेति, अभिधानसाम्येनैव एतेषां समानत्वम्, न त्वभिधेयेन तद्वद्वस्तुरूपेण केनचिदित्यर्थः । ननु सत्ता शब्दखरूपेण तद्वती अभिधीयते, सम्बन्धश्च सत्तारूपेण । तस्मात् सत्तायाः सम्बन्धस्य वा अभिधेयेन तद्वता तुल्यत्वं भविष्यतीति चेत्, उच्यते-सत्तायोगी चेत्यादि । भेदे जातौ च तद्योगे दोषस्तुल्यो हि तेष्वपि [पृ० ६३० पं० २] इत्यादिना पूर्वमेव निराकृतं जातियोगयोस्तद्वत्त्वेनाभिधानम् । यदि घटादिषु शब्दः समानस्तदा स एव शब्दः शब्दत्वेन तद्वान् तेषां सामान्यं स्यादिति चेत्, उच्यते-नानिमित्त इत्यादि । ......... निमित्तवतो यस्य शब्दस्य यत्र निमित्ताभावः तस्य तत्र योगो भवितुं नाहति यथा दण्डशब्दस्य दण्डरहिते पुरुषे। घटादिष्वपि निमित्तवतो जातिशब्दस्य निमित्ताभाव इति कारणानुपलब्धिरुक्ता। ततश्चेत्यादौ यदि सामान्यमभिधेयं ततस्तद्विशेष्यार्थ घट इत्युच्यत इति सामानाधिकरण्यं स्यात् । सामान्याभिधानाभावे किं कस्य विशेष्यम् ? ततश्चाभ्युपगमहानिः । अथापीति सामान्यविशेषभावाभावेऽपि प्रकारान्तरेण विशेषणविशेष्यत्वं ग्राहयति । द्रव्यान्तरे न वर्तत इति अनन्यद्रव्यवर्ती सहुणो घटादि द्रव्यम् । सहुण इति सत्तागुणवानित्यर्थः, सत्ता गुणोऽस्यति कृत्वा । अनेनातुल्यत्वमुच्यते । एवमतुल्यत्वे सत्यपि सच्छब्दादू घटाद्याशङ्कायां विशेषणविशेष्यभावो भविष्यति नीलतरादिवत् । नीलगुणवद् द्रव्यं नीलतरादिद्रव्यान्तरेऽतद्गुणे न वर्तते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403