Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 271
________________ ६१७ दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् । कथं साक्षान्न ब्रवीति सत् ? यस्मादन्यापोहेऽपि तावत् साक्षात् प्रवर्तमानस्तद्गतं नित्यत्वादिभेदं नाक्षिपति किमङ्ग पुनरन्यापोहेन व्यवहिते तद्गतान् भेदान् घटादीनाक्षेप्स्यति ? एतदर्थव्यक्तीकरणा) 'सदित्यसन्न भवति' इत्यवश्यं भवतिशब्दप्रयोगाद् ‘भवति' इत्यर्थो मुख्यः श्रयणीयोऽव्याहतः। भेदे तु भवत्यर्थसम्भेदनं स्यात् । असत्त्वविविक्तसत्त्वप्राप्तावेवात्ययस्ते, कुत एव तदन्यापोहः । भवत्य- 5 सम्भेदेऽविविक्तैकसत्त्वप्राप्तौ तवान्यापोहयत्नवैयर्थ्यमेव, घटस्य पटभावादपि । एतद् भावयितुकामः प्रश्नयति-कथं साक्षान्न ब्रवीति सदिति । तस्य भावनार्थ व्याकरणं जातिमत्पक्षतुल्यदोषत्वापादनाय च-यस्मादन्यापोहेऽपीत्यादि यावत् तद्गतान् भेदान् घटादीनाक्षेप्स्यतीति, जातिमतीवापोहेऽपि तावदसव्यावृत्तिमात्रे साक्षात् प्रवर्तमानोऽन्यापोहसामान्यगतं नित्यत्वादिभेदं नाक्षिपति अन्यापोहेऽपक्षीणशक्तित्वात् , किमङ्ग पुनरन्यापोहेन व्यवहिते ‘सदित्यसन्न 10 भवति' इत्यसदसत्त्वेनावच्छिन्नेऽभिधेयभागेऽपोहवति गतान् घटादीन् भेदानाक्षेप्स्यतीति सम्भावनास्ति ? इति पिण्डार्थः । वक्ष्यत्यस्यार्थस्य तदुक्तमेव सभावनं दृष्टान्तम् । सच्छब्दाभिप्रायस्यैवोपवर्णनेनान्यापोहवादिनं तावदुट्टयन्निदमाह-एतदर्थेत्यादि यावत् कुत एव तदन्यापोहः ? एतस्यान्यापोहार्थस्य व्यक्तीकरणार्थं 'सदित्यसन्न भवति' इति वाक्यमवश्यमुपादेयम् , सच्छब्दमात्रादनभिव्यक्तेः । तत्र चावश्यं 'भवति'शब्दः प्रयोक्तव्यः, क्रियापदमन्तरेण सच्छब्देन सह प्रयुक्तनबोरर्थाभावात् भवतिशब्दसहितयोः 15 साफल्यात् । यथोक्तम्-यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते [पा० म० भा० २।३।३] इति । तस्माद् भवतीत्यर्थः स एव मुख्यः श्रयणीयः, १०२ कोऽसौ ? सदर्थ एव । स च अव्याहतः कचिदव्यावृत्तो भावे सर्वत्रैवैष्टव्यः । भेदे तु घटे वर्तमान सत्त्वं पटादिषु न वर्तते [३]त्यसदपि स्यात्, एवं च भवत्यर्थसम्भेदनं स्यात्, मा भूदेष दोष इति तद्भयादसम्भेदाय भेदानाक्षेप एव, गमिष्यमाणघटादिद्रव्यप्रभेदस्य तिरस्कृतपटाद्यपेक्षा सत्त्वस्य प्राप्तिर्मनो- 20 रथैरपि न लभ्येत, असत्त्वविविक्तसत्त्वप्राप्तावेवाऽत्ययस्ते, कुतस्ततोऽन्यस्यापोहः ? अँसदसत्वत र नित्यत्वादयो जातिधर्मा अपोहे संगच्छन्त इति दिङ्गागस्याभिप्रायमत्र निराकरोति । उक्तं हि दिङ्गागेन—“जातिधर्मव्यवस्थितिः॥ ५॥३६ ॥ जातिधर्माश्चैकत्व नित्यत्व-प्रत्येकपरिसमाप्तिलक्षणा अत्रैव तिष्ठन्ति, अभेदादाश्रयानुच्छेदात् कृत्स्नार्थपरिसमाप्तेश्च । एवं दोषाभावाद् गुणोत्कर्षाच शब्दोऽर्थान्तरनिवृत्तिविशिष्टानेव भावानाह।"-प्र० समु०वृ०५।३६ ।। Psvic.ed. पृ० ७५, N. ed. पृ. ८३ B. | Psv N. ed. पृ. १६७ B. । दृश्यतां तत्त्वसं पं० पृ. ३१६ । तुलना--"अत्र भिक्षुणापोहपक्षे जातिपक्षतुल्यत्वमति दिष्टम् , यथाह-'जातिधर्मव्यवस्थितिः' इति । 'जातिधर्माश्चैकत्व नित्यत्व प्रत्येकपरिसमाप्तिलक्षणा अत्रैव तिष्ठन्ति' इत्यर्थः । ते इमे वस्तुधर्मा अवस्तुन्यतिदिश्यमाना असूत्रपट कारित्वं सूचयन्तीत्याह-अपि चैकत्वनित्यत्वप्रत्येकसमवायिताः। निरुपाख्येष्वपोहेषु कुर्वतोऽसूत्रकः पटः ॥ १६३ ॥ इति ।"-मी० श्लो० वा०शर्करिका पृ. ७४ ॥ २ दृश्यतां पृ० ६१९ पं० ३॥ ३ तदसन्यापोहः य० ॥ ४ दृश्यतां पृ० २६१ पं०५॥ ५°त्यर्थ स एव प्र० ॥ ६ भावे तैवैष्टव्यः य० । भावे नैवैष्टव्यः भा० । दृश्यतां पृ. ६१८ पं. ७ । 'भावे सन्नेवैष्टव्यः' इत्यपि पाठोऽत्र भवेत् ॥ ७°नापेक्ष य०॥ ८ असत्वत भा०॥ नय० ७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403