________________
सहपत्रिकासम्बन्धी पूर्वपदादी ग्रन्थकता
५२४
म्यायागमानुसारिणीवृत्त्यलङ्कतम् [ सप्तम उभयोभयारे सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्गः [ ] इति, स तदवस्थ एव, बहूनां सम्बन्धिनामेकसम्बन्धभावात्, वागादिगवाद्यभिधानवत् व्यवस्थानाभावात् सर्वस्य सर्वाकालः' इत्युक्त्वा पुनरत्र यो दोषश्वोदितः 'सङ्करप्रसङ्गः' इति स तदवस्थ एव दुष्परिहारः। बहूनां
, सम्बन्धिनामेकसम्बन्धभावादिति हेतुः, बहवो हि सम्बन्धिन एकसम्बधीभूताः, ततस्तेषां सङ्करः, ३४७-१
वागादिगवाद्यभिधानवत् , यथा 'गौः' इत्युक्त वाग्-दिग्-भू-रश्म्यादिभिरेकस्य गोशब्दस्य वागादिशब्दपर्यायत्वात् तत्तदात्मासौ तत्तदर्थप्रतिपादनात् तत्तत्सम्बन्धात् 'अमुष्यैवेदं सम्बन्धि' इति निर्धार्य व्यवस्थापयितुमशक्यत्वात् सर्वेषां दशानामिष्टः कारणकार्याधारः समवायोऽपि तथाधेयो द्रव्यत्वेनेव गुणत्वकर्मत्वा
१ "गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ॥” इति अनेकार्थसङ्ग्रहे हेमचन्द्राचार्यविरचिते, श्लो०६॥ २ दृश्यतां पृ० ७८९ पं. ७ ॥ ३ सत्तानिराकरणप्रस्तावेऽपि प्रसङ्गागतः समवाय आचायश्रीमल्लवादिना इतः परं महता प्रचर्चेन निराकृतः । पूर्वपक्षिरूपेण प्रशस्तमतिमुद्दिश्य चायं विवादो ग्रन्थकृता विहित इति पूर्वापरसन्दर्भपर्यालोचनया प्रतिभाति । प्रशस्तमते मग्रहणपूर्वकमेतादृशः समवायसम्बन्धी पूर्वपक्षः तत्त्वसङ्ग्रहपञिकायामपि समवायपरीक्षावसरे उद्धृतः कमलशीलेन । एतावास्तु विशेषः - तत्त्वसङ्ग्रहपञ्जिकायां प्रशस्तमते मग्राहमुद्धृतः समवायसम्बन्धी ग्रन्थः प्रशस्तपादभाष्ये समवायनिरूपणे सम्पूर्णतया उपलभ्यते, एतच्च निम्नलिखितप्रशस्तपादभाष्यतत्त्वसङ्ग्रहपञ्जिकापाठावलोकनेन व्यक्तीभविष्यत्यत्रैव टिप्पणे । तत्त्वसङ्ग्रहे वैशेषिकाभिमतषट्पदार्थपरीक्षायां बहुत्रोद्धृतः पूर्वपक्षः प्रशस्तपादभाष्ये दृश्यत इत्यपि ध्येयम् । नयचक्रे तु समवायपरीक्षायामुद्धृतस्य पूर्वपक्षस्य कश्चिदंशः प्रशस्तपादभाष्ये उपलभ्यते, कश्चित्तु नोपलभ्यते । अत एवं सम्भाव्यते-वैशेषिकसूत्रोपरि प्रशस्तमतिविरचितायाः [सम्प्रति लुप्तप्रायायाः] टीकाया एव मलवादिना उद्धृतः स्यात् पूर्वपक्षः, तत्त्वसङ्घहे तु प्रशस्तपादभाष्यादिति । विशेषजिज्ञासुभिर्द्रष्टव्यं पृ० ५१२ टि० ७ । “न च संयोगवन्नानात्वम् , भाववल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च । तस्माद् भाववत् सर्वत्रैकः समवाय इति । यद्येकः समवायो द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न, आधाराधेयनियमात् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रस्तथाप्याधाराधेयनियमोऽस्ति । कथम् ? द्रव्येष्वेव द्रव्यत्वम् , गुणेष्वेव गुणत्वम् , कर्मखेव कर्मत्वमिति । एवमादि कस्मात् ? अन्वयव्यतिरेकदर्श
nmom नात् । इह' इति समवायनिमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते। यथा कुण्डदनोः संयोगैकत्वे भवत्याश्रयाश्रयिभावनियमः तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्यव्यञ्जकशक्तिभेदादाधाराधेयनियमः इति ।" इति प्रशस्तपादभाष्ये समवायनिरूपणे । अस्य श्रीधरभट्टकृता न्यायकन्दली व्याख्या-“किमयमेक आहोस्विदनेकः? इत्यत्राह-न च संयोगवन्नानात्वमिति । यथा संयोगो नाना नैवं समवायः । कुतः ? इत्यत्राह-भाववल्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्च । यथा 'सत् सत्' इति ज्ञानस्य लक्षणस्य सर्वत्राविशेषादवैलक्षण्याद् विशेषे भेदे लक्षणस्य प्रमाणस्याभावाच्च सर्वत्रैको भावस्तद्वत् 'इह' इति प्रत्ययस्य लक्षणस्य सर्वत्रावैलक्षण्याद् भेदे प्रमाणाभावाच्च सर्वत्रैकः समवायः । उपसंहरति-तस्मादिति । चोदयति-योकः समवाय इति । समवायस्यैकत्वे य एव द्रव्यत्वस्य पृथिव्यादिषु योगः स एव गुणत्वस्य गुणेषु कर्मत्वस्य च कर्मसु । तत्र यथा द्रव्यत्वस्य योगः पृथिव्यादिष्वस्तीति तेषां द्रव्यत्वं तथा तद्योगस्य गुणादिष्वपि सम्भवात् तेषामपि द्रव्यत्वम् । यथा च गुणत्वस्य योगो रूपादिष्वस्तीति रूपादीनां गुणत्वं तथा तद्योगस्य द्रव्यकर्मणोरपि सम्भवात् तयोरपि गुणत्वं स्यात् । एवं कर्मखपीति पदार्थानां सङ्कीर्णता दर्शयितव्या । समाधत्ते -नेति । न च पदार्थानां सङ्कीर्णता । कुतः ? आधाराधेयनियमात् । न समवायसद्भावमात्रेण द्रव्यत्वम् , किन्तु द्रव्यत्वसमवायात्, द्रव्यत्वसमवायश्च द्रव्येष्वेव न गुणकर्मसु, अतो न तेषां द्रव्यत्वम् । एवं गुणकर्मस्वपि व्याख्येयम् । एतत् सङ्ग्रहवाक्यं विवृणोति- यद्यप्येकः समवाय इत्यादिना । स्वतन्त्र इति, संयोगवत् सम्बन्धान्तरेण न वर्तत इत्यर्थः । व्यक्तमपरम् । पुनश्चोदयति-एवमादि कस्मादिति । द्रव्येष्वेव द्रव्यत्वं वर्तते गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वमित्येवमादि कस्मात् त्वया ज्ञातमित्यर्थः । उत्तरमाह - अन्वयव्यतिरेकदर्शनादिति । द्रव्यत्वनिमित्तस्य प्रत्ययस्य द्रव्येष्वन्वयो गुणकर्मभ्यश्च व्यतिरेकः । गुणत्वनिमित्तस्य प्रत्ययस्य गुणेष्वन्वयो द्रव्यकर्मभ्यश्च व्यतिरेकः । तथा कर्मत्वनिमित्तस्य प्रत्ययस्य कर्मखन्वयो द्रव्यगुणेभ्यश्च व्यतिरेको दृश्यते । तस्मादन्वयव्यतिरेकदर्शनाद् द्रव्यत्वादीनां नियमो ज्ञायते । अस्य विवरणं सुगमम् । सम
wwwwwww
wamma
MWWW~
www.mmmmmm
WW
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org