________________
द्रव्यादीनां स्वतः सत्त्वस्य प्रतिपादनम् ] द्वादशारं नयचक्रम्
५२३
च सम्बन्धवत्त्वाद् नित्यत्वासत्त्वे न स्तः । अजातिमन्ति त्विति प्रतिपाद्यत एव । अथवा अकारणनित्यासम्बन्धाजातीनि द्रव्यादीनि स्वतः सत्त्वात्, सामान्यादिवत् । कारणादि च सामान्यादि, स्वतः सत्त्वात् द्रव्यादिवत् । तदात्मत्वात् स्वतः सत् सत्तादिवत् । उभयं द्रव्यादि सामान्यादि च वस्तुत्वात् ।
यदपि च चोदितं येकः समवायो द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह
मपि प्रत्याख्यातम्, सदसदात्मकत्वात् । कर्तृत्वात् संयुक्तमेव कार्येणेति नांसंयोगः, कार्यकारणप्रतिपादनात् नासमवायोऽस्ति, ताभ्यां चेति संयोगसमवायाभ्यां सम्बन्धवत्त्वाद् नित्यत्वासत्त्वे न स्तः । अजातिमन्ति त्विति प्रतिपाद्यत एव, व्यव्यतिरिक्तायाः प्रतिषिषित्सितत्वात् । एवं तावत् कारणादित्वं द्रव्यादेः ।
अथवेत्यादि । अकारणनित्या सम्बन्धाजातीनि द्रव्यादीनि स्वतः सत्त्वादुक्तात् सामान्यादिवत् । 10 कारणादि चेति, कारणानित्यसम्बन्धजातिमत्त्वानि सामान्यविशेषसमवायानाम् स्वतः सत्त्वात् द्रव्यादिवत् स्वसत्सत्त्वादित्यर्थः । तदात्मत्वात्, यद् यदात्म तत् स्वतः सत् सत्तादिवदित्युक्तम् । उभयमिति कारणाकारणनित्यानित्य सम्बन्धासम्बन्धजातिमदजातिमत्त्वानि द्रव्यादीनां सामान्यादीनां च सर्वस्य वस्तुत्वाद् द्वयात्मकत्वं भवत्येवेतरेतररूपैकभवनाविशेषात् ।
यदपि चेत्यादि । निष्ठायाः सम्बन्धस्य च सत्तयैककालत्वप्रतिपादनार्थं 'समवायस्यैकत्वादेकः 15
१ दृश्यतां पृ० ५२४ टि० ३ पं० १८ ॥ २ " सम्बन्ध्यनित्यत्वेऽपि न संयोगवदनित्यत्वम्, भाववदकारणत्वात् । यथा प्रमाणतः कारणानुपलब्धेर्नित्यो भाव इत्युक्तं तथा समवायोऽपीति । न ह्यस्य किञ्चित् कारणं प्रमाणत उपलभ्यत इति । कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तते ? न संयोगः सम्भवति, तस्य गुणत्वेन द्रव्याश्रितत्वात् । नापि समवायः, तस्यैकत्वात् । न चान्या वृत्तिरस्तीति । न, तादात्म्यात् । यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति एवमविभागिनो वृत्त्यात्मकस्य समवायिनो नान्या वृत्तिरस्ति । तस्मात् स्वात्मवृत्तिः ।" इति प्रशस्तपादभाष्ये समवाय निरूपणे संयोगसमवायाभ्यामसम्बन्धवतो नित्यस्य सत्तारहितस्य च भावस्य उदाहरणत्वेनोल्लेखः । अत्र 'भावः' सत्ता इत्यर्थः । अस्य प्रशस्तपादभाष्यस्य न्यायकन्दली व्याख्या - " किं पुनरयमनित्य आहोस्विन्नित्य इति संशये सत्याह - सम्बन्ध्यनित्यत्वेऽपीति । यथा सम्बन्धिनोरनित्यत्वे संयोगस्यानित्यत्वं न तथा समवायिनोरनित्यत्वे समवायस्यानित्यत्वं भाववदकारणत्वादिति । एतद् विवृणोति - यथेत्यादिना । युक्तो हि सम्बन्धिविनाशे संयोगस्य विनाशः, तदुत्पादे सम्बन्धिनोः समवायिकारणत्वात् । समवाय तु सम्बन्धिनौ न कारणम्, सम्बन्धिमात्रत्वात् । यथा च तौ न कारणं तथोपपादितम् । तस्मादेतस्य सम्बन्धिविनाशेऽप्यविनाशः, सत्तावदाश्रयान्तरेऽपि प्रत्यभिज्ञायमानत्वात् । किमसम्बद्ध एव समवायः सम्बन्धिनौ सम्बन्धयति सम्बद्धो वा ? न तावदसम्बद्धस्य सम्बन्धकत्वं युक्तम्, अतिप्रसङ्गात् । सम्बन्धश्चास्य न संयोगरूपः सम्भवति, तस्य द्रव्याश्रितत्वात् । नापि समवायः, एकत्वात् । न च संयोग समवायाभ्यां वृत्त्यन्तरमस्ति । तत् कथमस्य वृत्तिरित्याह- कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तत इति । वृत्त्यभावान्न वर्तत इत्यभिप्रायः परस्य । समाधत्ते - नेति । 'वृत्त्यभावान्न वर्तते' इत्येतद् न, तादात्म्याद् वृत्त्यात्मकत्वात् स्वत एवायं वृत्तिरिति । कृतको हि संयोगः, तस्य वृत्त्यात्मकस्यापि वृत्त्यन्तरमस्ति, कारणसमवायस्य कार्यलक्षणत्वात् । समवायस्य वृत्त्यन्तरं नास्ति, तस्मादस्य स्वात्मना स्वरूपेणैव वृत्तिर्न वृत्त्यन्तरेणेत्यर्थः । " इति न्याय कन्दल्याम् ॥ ३ संबंधवत्वाद् भा० । संबंधत्वाद् य० ॥ ४ द्रव्यादिव्यतिरिक्ताया जातेरिति भावः ॥ ५ द्रव्यत्वादेः य० ॥ ६ मत्वादि सामान्य भा० ॥ ७ स्वत्वाद्रव्य प्र० ॥
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org