________________
५२२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे कर्तरि षष्ठीवृत्तेः। यत् तत् सद्भिर्भूयते....."सदित्यभिधानप्रत्ययकारणं सर्वत्र ।
अत इदमपि अप्रत्ययोद्धाहम् - ........ स्वतः सत्त्वमित्येतदयुक्तम् । अत्र हि 'सत्तादिवत्' इति त्वदनुवृत्त्योच्यते । न मम सत्ता द्रव्यादिव्यतिरिक्ता काचिदस्ति । ततो द्रव्यादीनामकारणत्वादिदोषप्रसङ्गात् कुतोऽनुपपन्नता ममात्र निपतिता? मम तु द्रव्यादीनामेकत्वान्नानुपपन्नम्।
कर्तृणाऽकर्तृणा वा कारकेण यो भवति स एव भावः सामान्यम् , स एव विशेषोऽन्यभवननिरपेक्षः कर्ता भवद्भवनात्, तदेव द्रव्यं गुणः, स एव क्रिया, स एव विशेषो भावान्तराद विशिष्यमाणत्वात्, वक्ष्यमाणवच स एव समवायः। एवमेव सम्बन्धाभावःप्रत्याख्यातः सहासत्त्वेन । नासंयोगः, नासमवायः। ताभ्यां
10 णम् ? कर्तरि षष्ठीवृत्तेः । तद्व्याख्यानम् - यत् तत् सद्भिरित्यादि गतार्थं यावत् सदित्यभिधानप्रत्ययकारणं सर्वत्रेति ।
अत इदमपीत्यादि पूर्वोत्तरपक्षौ सव्याख्यानौ गतार्थों वैशेषिकस्यैव यावदुपनयः, तत्र यदुक्तं 'स्वतः सत्त्वम्' इति एतदयुक्तमिति, आचार्यो यथैतदप्रत्ययोढ़ाहं भवति तथाह - अत्र हि सत्तादिवदित्यादि । सर्वमिदं त्वदनुवृत्त्या त्वां प्रतिपादयितुमुच्यते, न मम सत्ता द्रव्यादिव्यतिरिक्ता काचिदस्ति 15 'कर्तरि षष्ठी' इत्युक्तत्वात् । 'द्रव्यादीनामकारणत्वादिदोषाः प्रसक्ताः, ततोऽनुपपन्नम्' इत्येषा तत्प्रसङ्गात्
कुतोऽनुपपन्नता ममात्र निपतिता अभ्यागता, त्वन्मतेन तु सत्तामभ्युपगम्य मया सत्तादिवद् द्रव्यादीनामनिष्टापादने कृते ? मम तु द्रव्यगुणकर्मणां सामान्यविशेषसमवायानां चैक[त्वा] नानुपपन्नमिति ।
तद् व्याचष्टे - कर्तृणा[s]कर्तृणा वेत्यादि । 'भवतीति भावः' इति कर्तरि, 'भवनं भावः' इति भावे, इत्यादिकारकविवक्षायां यो भवति स एव भावः सामान्यम् , देशकालादिभेदेऽपि भवनतुल्यत्वात् । 20 स एव विशेषोऽन्यभवननिरपेक्षः कर्ता, उक्तवत् 'कर्तरि षष्ठी' इति भवतो भँवनाद् भवदेव भवति,
तदेव द्रव्यं भव्यं भवद्भवनादेव, कलनं गुणनं गुणः युगपदयुगपत्पर्यायत्वेन भवनात्, स एव भावः क्रिया भवनं भाव इति, स एव विशेषो भावान्तराद् विशिष्यमाणत्वात् अन्यनिरपेक्षत्वात् सदसदात्मकत्वात् सत्त्वेनासत्त्वेन च तस्यैव विशिष्यमाणत्वात् , वक्ष्यमाणवच्चेति कारणाकारणाचै क्यमनन्तरं
वक्ष्यते, स एव समवायः । एवमेवेति भवतः कर्तृत्वेन तस्यैव कारणत्वम् , तदेकीभावगत्या कार्यत्वापत्तेः ३५६-२ प्रतिपादितेन विधिना सम्बन्धाभावः प्रत्याख्यातः समवायव्याख्यानात् , सहासत्त्वेनेति अनेनैवासत्त्व
१'यत् तत् सद्भिर्भूयते यद् भवन्ति सन्तः सा सत्ता सदित्यभिधानप्रत्ययकारणं सर्वत्र' इत्याशयो भाति ॥ २ 'द्रव्यादीनां स्वतः सत्त्वं सत्तादिवत् न तु सत्तायोगादिति चेत्, न, सत्तादिवत् खतः सत्त्वे द्रव्यादीनामकारणनित्यासम्बन्धाजातिमत्त्वप्रसङ्गात् । तस्माद्रव्यादीनां खतः सत्त्वमित्येतदयुक्तम् ।' इत्याशयो भाति ॥ ३“न द्रव्यादन्ये गुणकर्मसामान्यविशेषसमवायाः सन्ति, द्रव्यस्यैवोभयपरिणामकारणापेक्षस्य गुणः कर्म सामान्यं विशेषः समवाय इत्येवमादिपर्यायान्तरेण परिणामः ।" इति तत्त्वार्थराजवार्तिके ११॥ ४ऽत्र पा० रं० वि०। त्र भा० डे० ॥ ५ द्रव्यादीनामकारणत्वादिदोषप्रसङ्गादित्यर्थः ॥ ६ चैकन्नानुप० प्र० । (चैक्यान्नानुप° ? चैक्यं नानुप°)॥७भावनाद प्र० ॥८(भवद्भवनात्, तदेव कलनं ?)॥ ९गुणनं भा० २० प्रतिषु नास्ति ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org