________________
५२१
सत्तानिराकरणम् ].
द्वादशारं नयचक्रम् भियोक्तुम्.....तद्योगनिमित्तम् , यंदा वा..."तद्योगनिमित्तं ननूत्तरमप्येतदयुक्तम् । असत्तात्मनां द्रव्यादीनां मुख्यौ सदभिधानप्रत्ययौ कथं युक्तौ मनोरथवत् ?.........।
नैवे तु......... दण्डित्वदण्डत्ववत् खत एव सतोः तत्सम्बद्धत्वात् सत्वतः सत्त्वात् सत्त्ववत् संदेव स्वम् । तस्मात् सर्वस्य सतोऽतादात्म्याभावात् सदात्मैव सर्वमिति भाक्तत्वनिवृत्त्याद्यभावः सत्तादिवच्च स्वतः सत्त्वम् ।
यतश्चैवं तस्मात सतो भावः सत्तेति व्युत्पत्तिर्द्रव्याद्यव्यतिरिक्तसत्तार्थव
दात्मानमात्मना न युक्तमभियोक्तुमित्युबैट्टनाग्रन्थो गतार्थो यावत् तद्योगनिमित्तमिति । यदा वेत्यादेरारभ्य यावत् तद्योगनिमित्तमित्येवंप्रकार उद्घट्टनाग्रन्थः पूर्वमास्ते । ननूत्तरमप्येतदयुक्तं 'न, द्रव्यादिष्वासा सिद्धिः' इत्यादि वक्ष्यमाणमसम्बद्धम् , अतदात्मनिमित्तस्य सत्प्रत्ययस्यानुपपत्तेः असत्तात्मनां 10 द्रव्यादीनां मुख्यौ सदभिधानप्रत्ययौ कथं युक्तौ ? इति एतदाचार्यवचनमन्तरे पतितं परस्याकौशलख्यापनार्थम् । मनोरथवदिति वैशेषिकस्य मनोरथ एव द्रव्यादिव्यतिरिक्ता सत्तेति यदि भवेत् , स्यात् । तन्मतौ तु पूर्वोत्तरपक्षौ व्याख्यातावेव । 'द्रव्यादिभाक्तत्वनिवृत्तिः, 'स्वतः सत्त्वं सत्तादिवच्च' इत्येतस्य वचनस्य व्याघातः' इत्येतद्दोषद्वयदर्शनादिति वैशेषिकेणोक्त आचार्य आह -नैव वित्यादि, दण्डित्वं दण्डत्वं च यथा स्वत एव सतोः तत्सम्बद्धत्वात् सत्तासम्बद्धत्वादित्यर्थः सत्वतः सत्त्वात 15 सत्त्ववत् सदेव स्वम् , सत्वतः सतः सत्त्वात् आत्मत्वात् स्वतः सत्त्वादित्यर्थः । एवं तावद् न्यायो यदुत सदेव सत्, सत्त्वमेव सत् , न सद्वयतिरिक्ता सत्ता, न सत्तातोऽन्यत् सत् । तस्मात् सर्वस्य सतो नास्त्यतादात्म्यमसदात्मत्वम् , तदभावात् सदात्मैव सर्वमिति भाक्तत्वनिवृत्त्याद्यभावः, नार्य दोष इत्यर्थः, सत्तादिवच्च स्वतः सत्त्वमिति, आदिग्रहणाद् द्रव्यत्व-गुणत्व-कर्मत्ववत् ।
यतश्चैवमित्यादि, यस्मात् स्वत एव सत्ता द्रव्यादीनां युक्ता तस्मात् सतो भावः सत्तेति या 20 शब्दव्युत्पत्तिर्भेदपृष्ठयापादनार्था सा द्रव्याद्यव्यतिरिक्तसत्ताथैव ज्ञायते सतां भावः सत्तेति । किं कार-३५६-१
१(यदा च?)॥२ 'नैव तु 'द्रव्यादिभाक्तत्वनिवृत्तिः, स्वतः सत्त्वं सत्त्वादिवच्चेत्येतस्य वचनस्य व्याघातः' इत्येतद्दोषद्वयम्' इत्याशयो भाति ॥ ३°द्यहदानाग्रन्थो प्र० । (°द्युद्दानग्रन्थो ?) ॥ ४ यदा वेत्यादि यदा वेत्यादिरारभ्य प्र. । ( यदा चेत्यादेरारभ्य ? )॥ ५ उद्धहना य० । उद्धहदाना भा० ॥ ६ ('न, द्रव्यादिष्वजसा सिद्धेः' ?)॥ ७°लस्याख्याप य०॥ ८इतस्य प्र० । 'इत्यस्य वचनस्य' इत्यपि पाठोऽत्र स्यात् ॥ ९यथा यथा प्र० । (यथा तथा ?)॥ १० “यथा दण्डसम्बन्धात् प्रागू दण्डी जात्यादिभिर्लक्षणैः खतः सिद्धत्वात् सन् , दण्डोऽपि प्राग् दण्डिसम्बन्धाद् वृत्तद्राधिमादिना लक्षणेन स्वतः सिद्धत्वात् सन् , अतो दण्डयोगाद् दण्डीत्येतन्याय्यम्, तथा नीलद्रव्ययोगाच्छाट्यादि नीलमित्येतन्याय्यम् , तथोष्णगुणयोगान्न प्रागग्नेरन्यद् विशेषलक्षणं सद्भावस्य प्रख्यापकमस्तीति असन्नग्निः, उष्णस्यापि प्रागग्नियोगादसत्त्वं निराश्रयगुणाभावात् । न चासतोः सम्बन्धो दृष्ट इष्टो वा।" इति अकलङ्कविरचिते तत्त्वार्थराजवार्तिके ११ ॥ ११ (सदेव सर्वम् ? ) ॥ १२ स्वत्वादि प्र० ॥ १३ एव भा० । ( एष ?)॥ १४ °षष्ठयपादानार्थी य० । षष्ठयपवादानार्था भा० । ( °षष्ट्युपादानार्था ? ) ॥
नय०६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org