________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे खतः' इति, तदपि न, अतदात्मकत्वात् 'द्रव्यत्वादिवत्। द्रव्यत्वादीनामतादात्म्ये खतः सदभिधानप्रत्ययौ, एकैकत्वात्, आत्मवत्, द्रव्यत्वादिषु खतो भवन्त्याः सत्तायाः सदभिधानं दृष्टमेवं द्रव्यादीनामपि स्वत एव ।।
सत्तासम्बन्धाभावेऽपि असङ्ख्ययोरपि गुणत्वकर्मत्वयोरेकाभिधानप्रत्ययवत 5 सदभिधानप्रत्ययौ द्रव्यत्वादिष्वौपचारिको स्यातामिति चेत्, द्रव्यादिष्वप्यौपचारिको स्यातां तुल्यत्वात्।
मनुष्यसिंहत्वादिवत् तथा अञ्जसा अनुपपत्तेर्नेति चेत्, ततस्ते खपक्षे एव दोषविधानम् । यदि तु....... । एतत् पुनः स एव प्रष्टव्यः।
यत् पुनरिदमुच्यते-सत्तायां सिद्ध इति चेत्, "आत्मानमात्मना न युक्तम
10 रूपत्वोत्क्षेपणत्वादीनां सामान्यविशेषाणामसत्तात्मकत्वे स्वतः सदभिधानप्रत्ययौ, न सत्तातः । कस्मात् ? ३५५.१ एकैकत्वात् । एकमेव द्रव्यत्वं सर्वद्रव्येषु, द्रव्यत्वान्तरानिष्टेः तत्र सत्तायोगो नेष्यते, अनुप्रवृत्त्यभावात् ।
तथापि च 'सत्' इत्यभिधीयते प्रतीयते च, एवं गुणत्वादीन्यपि । तस्मादेकैकत्वात् स्वतः सत्त्वमात्मवत सत्तावदित्यर्थः, स च दृष्टान्तः स्वतो द्रव्यत्वादिभवने । तस्य वर्णना - द्रव्यत्वादिषु भिन्नेषु स्वतो भवन्त्याः सत्तायाः एकस्याः सदभिधानं दृष्टमेवं द्रव्यादीनामपि स्वत एवेति साधनेनोपपा15 दितोऽर्थः।
आह - सत्तासम्बन्धेत्यादि । 'गुणत्वमेकं कर्मत्वमेकम्' इत्येकाभिधानप्रत्ययौ असङ्ख्ययोरपि गुणत्वकर्मत्वयोरौपचारिको दृष्टौ तथा सदभिधानप्रत्ययौ द्रव्यत्वादिष्वौपचारिकौ स्यातामिति को दोषः ? अत्रोच्यते-द्रव्यादिष्वपीत्यादि तुल्यत्वापादनमौपचारिकत्वेन गतार्थम् ।।
आह-मनुष्यसिंहत्वादिवत् तथाञ्जसाऽनुपपत्तेर्नेति चेत्, यथा शौर्यक्रौर्यादिधर्माः सिंह 20 मुख्याः सिद्धाः सन्तो मनुष्ये शक्या उपचरितुं नासिद्धास्तथा द्रव्यादिषूपचरितौ स्यातां यद्यन्यत्राञ्जसा सिद्धौ सदभिधानप्रत्ययौ, न तु तौ कचित् सिद्धौ, भाक्तव्यवहारश्च आञ्जसादृते नास्ति, तस्माद् द्रव्यादिष्वेव मुख्याविति एवं चेन्मन्यसे ततस्ते स्वपक्ष एव दोषविधानम् । तद् भावयति- यदि त्वित्यादि, सत्तादिष्वप्याञ्जसयोरसिद्धत्वादिति भावार्थः । एतत् पुनः स एव प्रष्टव्य इति, स्वभावसत्तापेक्षा सदभिधानप्रत्ययाविच्छतां किं नः सत्तासम्बन्धकल्पनया ? तव पुनः सत्तासम्बन्धादिच्छतो दुष्प्रतिपादं 25 भावसत्ताव्यतिरिक्ततादात्म्यवादिनः, तस्मात् त्वमेवासि प्रष्टव्य इति । ३५५-२ यत् पुनरिदमुच्यते-सत्तायां सिद्ध इति चेदिति सभाष्यं गतार्थम् । इयं पुनराशङ्का के प्रति
युक्ता ? द्रव्यादिव्यतिरिक्तां सत्तां स्वत एव सिद्धां तदात्मिकामिच्छन्तम् , स पुनर्नान्यो वैशेषिकात् , तस्मा
१'यथा दण्डे एवं सत्यपि स्वत एव सदभिधानप्रत्ययौ तादात्म्यात्, न सत्तायोगात्' इत्याशयो भाति ॥ २ 'अतदात्मकत्वात्' इत्यनैकान्तिकः, अतदात्मकत्वेऽपि स्वतः सदभिधानप्रत्ययदर्शनात् द्रव्यत्वादिवत्' इत्याशयो भाति ॥ ३ सतो प्र०॥ ४न्यवांजसा भा० । न्यवाजसा य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org