________________
वैशेषिकमतखण्डनम् ]
द्वादशारं नयचक्रम् चेत्, इतरेतराश्रयमिदम् , दण्डत्वतत्त्वाद् दण्डसिद्धिः, दण्डविशेषणसाधितदण्डिसिद्धेः पुनर्दण्डत्वतत्त्वसिद्धिः।
दण्डीति च कथमिति निर्धार्यम् । यदि दण्डादेव, खतः सिद्धात् सिद्ध इत्युक्तम् । अथ दण्डत्वात् , दण्डत्वी भवतु, मा भूद्दण्डी, आत्मान्तरसङ्कान्तिश्चैवम् । वयं तु ब्रूमः-खत एव भवति, तदभावेऽसामान्यात्मकत्वमेव सर्वस्य स्यात् । यथा । दण्डे एवं सत्यपि.......... ।
यदप्युक्तम् 'अतदात्मत्वाद् द्रव्यादीनां सदभिधानप्रत्ययौ सत्तायोगात्, न दण्डत्वोपपादितदण्डाद् दण्डीति चेत् , दण्डत्वसामान्यविशेषाद् दण्डः सिध्यति, दण्डाद् दण्डीति, तत उदाहरणसिद्धिर्विशेषणादेव 'विशेष्यसिद्धः, एवं चेन्मन्यसे, इदमापतितम् - दण्डत्वतत्त्वाद् दण्डः सिध्यति, दण्डत्वतत्त्वं पुनर्दण्डविशेषणसाधितदण्डित्वसिद्धः सिध्यति, तदिदमितरेतराश्रयं जायते, इतरे- 10 तराश्रयाणि च न प्रकल्पन्ते, तद्यथा नौ वि बद्धा नेतरत्राणायेति तत्प्रतिपादनार्थो ग्रन्थः - इतरेतरेत्यादिर्गतार्थो यावत् तत्त्वसिद्धिरिति ।
_ 'दण्डी' इति च देवदत्तः स दण्डत्वाद् दण्डाद् वा कथम् ? इति निर्धार्यम् । दण्डोऽस्यास्तीति दण्डी देवदत्तः । स यदि दण्डादेव, स्वतः सिद्धात् सिद्ध इत्युक्तम् । अथ दण्डत्वात् 'दण्डत्वमस्यास्ति' इति दण्डत्वी भवतु, मा भूद् दण्डी, युक्तं तावद् दण्डाद् दण्डी, न तु दण्डत्वात्, स्वत एव च 15 भवेद्दण्डी । किश्चान्यत् , आत्मान्तरसङ्क्रान्तिश्चैवम् , दण्डत्वादात्मान्तरं दण्डो दण्डी च, दण्डाद्र दण्डत्वदण्डिनौ, दण्डिनो दण्डदण्डत्वे, दण्डः स्वत एवाभवेन् दण्डत्वाद् भवंस्तदात्मा भवति, एवं दण्ड्यपीति । वयं तु ब्रूमः – यत् तद् दण्डेन भूयते तस्यैव दण्डत्वात् यदण्डो दण्डो भवति तदेव दण्डो भवति आत्मानं लभते भावान्तरविविक्तं यत् तेन भूयते तदेव भवनं दण्डत्वं न तद्वयतिरिक्ताद्, न दण्डत्वतत्त्वात् । एवं देवदत्तस्य दण्डिनोऽप्यात्मानुभवनं तत्त्वम् । तदभावे[s]सामान्यात्मकत्वमेव सर्वस्य स्यात् , 20 यदि सा दण्डदण्ड्यादिव्यक्तिः स्वत एव न भवति सत्ता-द्रव्यत्व-दण्डत्व-दण्डित्वादितत्त्वाद् भवति स्वत एव अभवन्ती नास्त्येव सा खपुष्पवत् । ततश्चासामान्यमेव सत्तादि स्यात् , तच्चानिष्टम् , स्वत एव भवतः समानस्याभावात् सामान्यमेव सामान्यं न स्यात् । तस्मात् स्वत एव दण्डो भवति स्वत एव च सदभिधानप्रत्ययौ, न सत्तायोगात् । यथा दण्डे एवं सत्यपीत्यादि गतार्थ साधनम् । एवं तावत् तादाम्यात् सत्तादिषु सदभिधानादीत्ययुक्तम् ।
यदप्युक्तम् - अतदात्मत्वादित्यादि असत्तात्मकत्वाद् द्रव्यगुणकर्मणां सदभिधानप्रत्ययौ सत्ता. योगात् , न स्वत इति । तदपि न, अतदात्मकत्वादित्यादिरनैकान्तिकत्वात् अनैकान्तिकत्वप्रतिपादनार्थो ग्रन्थो यावद् द्रव्यत्वादिवदिति । तस्य भावना-द्रव्यत्वादीनामतादात्म्ये द्रव्यत्वगुणत्वकर्मत्वघटत्व
१ विशेष्टसिद्धेः भा०॥ २त्यादिग° भा०॥ ३त्वाद्दण्डत्वा कथम् भा० । त्वाद्दण्डत्वात्कथम् य० ॥ ४ भवदण्डी प्र० । ( भवन् दण्डी ?).॥ ५ वदण्डत्वाद् भा० । वद्दण्डत्वाद् य० ॥ ६ तदेवदत्तो भवति प्र० । अत्र न देवदत्तो भवति इत्यपि पाठो भावान्तरवैविक्यसूचनार्थ स्यात् । तथाच 'यद्दण्डो दण्डो भवति न देवदत्तो भवति' इत्यपि विवक्षितं स्यात् ॥ ७ १श्यतां पृ० ५१७ पं० ७॥ ८ वादिरनै भा०। (°त्वादेरनै ?)॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org