________________
५१८
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [सप्तम उभयोभयारे वदिति । अत्र वयं सम्प्रधारयामः-कथमिदं तादात्म्यम् ? किं सतो भावात् उत सत्करत्वात् ? तद् यदि तावत् खतो भवनं ततः सर्वेणापि सता भूयते खत एवेत्युक्तम् । अथ सत्करत्वात्, तत् प्राक प्रत्युक्तम् । यथा च सत्तायां स्वत एव सदभिधानप्रत्ययौ तदात्मत्वात् एवं द्रव्यादौ द्रव्यत्वादौ च तदात्मत्वं सदभिधान5 प्रत्ययकारणं सर्वत्र सति ।
__ दण्डेऽपि च तादात्म्यादेव दण्डाभिधानप्रत्ययसिद्धौ खत एव दण्डिनि दण्ड्यभिधानप्रत्ययौ तादात्म्येन विना न भवतः । यथा च...........।
अथोच्येत-दण्डोऽपि दण्डव्यतिरिक्ताद् दण्डत्वाद् दण्डाभिधानप्रत्ययभाक् । अनुदाहरणं तर्हि दण्डी, दण्डाद् दण्ड्य भावात् । दण्डत्वोपपादितदण्डाद् दण्डीति
10 अत्र वयं सम्प्रधारयामस्त्वया सह - कथमिदं तादात्म्यम् ? किं सतो भावात् , यत् सद्
भवति तत् तस्य सतस्तादात्म्यमात्मलाभः स्वरूपानुभवनम् ? उत सत्करत्वम् ? इति । तद् यदि तावत् सतो भवनं ततः सर्वेणापि सता भूयते सत्तादिना द्रव्यादिना वा स्वत एवेत्युक्तम् । अथ सत्करत्वात् तादात्म्यात् सद् भवतीति, तत् प्राक् प्रत्युक्तम् । स्वतः सिद्धस्य द्रव्यादेः सत्ता सत्करी न भवति वैयर्थ्यात् , असतोऽसत्त्वात्
खपुष्पवत् , सदसतः सम्भवाभावादित्युक्तम् । 15 यथा च सत्तायामित्यादि भावनार्थम् । द्रव्यादेव्यत्वादेश्च स्वत एव सदभिधानप्रत्ययौ तदात्म
त्वात् सत्तावदिति । सतश्च द्रव्यादेस्तदात्मत्वं सदात्मत्वं द्रव्यादेः, एवं द्रव्यत्वगुणत्वसत्तादिनित्यैकसर्वत्रगेषु ३५४१ सामान्य-सामान्यविशेषशून्येष्वपि सदभिधानप्रत्ययौ । सर्वत्र सतीति सर्वव्यापितां न्यायस्यास्य दर्शयति ।
किश्चान्यत् , दण्डेऽपि चेत्यादि । योऽपि दण्डित्ववदिति दृष्टान्तः सोऽपि तादात्म्यादेव दण्डस्य भवनात्मत्वादेव दण्डाभिधानप्रत्ययसिद्धौ सत्यां स्वत एव दण्डिनि देवदत्त 'दण्डी' इत्यभिधानं प्रत्ययं च 20 कुर्वति तावभिधानप्रत्ययौ 'तादात्म्यात्' इत्यनेनार्थेन विना न भवतः, अतोऽस्मदिष्टमर्थं साधयति, इतरथा दण्डिकुण्डल्यविशेषः स्यात् । साधनं चात्र - दण्डोऽपि स्वरूपाभिधानप्रत्ययकारी स्वत एव, तादात्म्यात्, सत्तावत् , तथा दण्ड्यपि तत एव तद्वत् । यथा चेत्यादि, एवं च सति दण्डत्वसामान्यविशेषनिरपेक्षः खत एव भवति दण्डः, तादात्म्यात् , सत्तावदिति सिद्धम् ।
अथोच्यतेत्यादि । वैशेषिको दण्डमपि दण्डत्वाद् दण्डव्यतिरिक्ताद् मन्यते दण्डाभिधानप्रत्यय25 भाजम् । आचार्यों ब्रवीति - अनुदाहरणं तर्हि दण्डी, दण्डादू दण्ड्यभावात् । दण्डस्य स्वतोऽसिद्धत्वाद दण्डी न सिध्यति, परतः सत्त्वसिद्धयर्थं चोदाह्रियते दण्डी, दण्डासिद्धेः कुतस्तत्सिद्धिः ? इति ।
१'यथा च स्वत एव भवति दण्डः तादात्म्यात् सत्तावत् एवं दण्ड्यपि' इत्याशयः स्यात् । 'यथा च सत्ता स्वत एव भवति तादात्म्यात् एवं दण्डोऽपि' इत्यपि वाशयः स्यात् ॥ २°सत्तादिन्नित्येक भा० ॥ ३'सोऽपि: अस्मदिष्टमर्थ साधयति' इत्यन्वयः॥ ४ कुर्वति प्र० । 'कुर्वति' इति सप्तम्यन्तं पदम् ॥ ५ (तथाचेत्यादि ? ? ? ) ॥ ६ दण्डासिद्धे प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org