________________
वाक्यभाष्यटीकाकाराणां मतस्य खण्डनम् ] द्वादशारं नयचक्रम्
५१७ भाष्यकारैः। सिद्धस्य वस्तुनः स्वकारणैः स्वसत्तया च सम्बन्ध इति प्राशस्तमतोऽभिप्रायः । तेषां त्रयाणामप्यसत्यता, परस्परविरुद्धार्थत्वात् , कुमारब्रह्मचारिपितृत्ववत् । इदमेव चोदाहरणमन्यत्र । एवं वक्तरि वा शास्त्रकारे सर्वेषामनुवर्तित्वात् स एवानाप्तोऽसत्यवादी वेत्येतदपि स्यात् । सदादिविकल्पानुपपत्तिश्च तदवस्थैव उक्तवत् ।
यत् पुनः 'द्रव्यादीनां खत एवाभिधानप्रत्ययविषयत्वं सत्त्वात् सत्तादिवत् ।। यथा सत्तादेः सदभिधानप्रत्ययौ खत एव, न सत्तायोगात्, एवं द्रव्यादीनामपि सदभिधानप्रत्ययौ स्वत एव, न सत्तायोगात्' इत्युक्ते उच्यते-नैतत् , अतादात्म्यात्। द्रव्यादीनामसदात्मत्वात् सत्तानिमित्तं सदभिधानादि दण्डनिमित्तादण्डदण्डित्व
कालं सत्तासम्बन्ध इति बहूनां मतम् । वस्तूत्पत्तिकाल एवेति तु वाक्यकाराभिप्रायोऽनुसृतो भाष्यकारैः । सिद्धस्य वस्तुनः स्वकारणैः स्वसत्तया च सम्बन्ध इति प्राशस्तमतोऽभिप्रायः । अस्मदभिप्रायः - तेषां 10 त्रयाणामप्यसत्यतेति। कस्मात् ? परस्परविरुद्धार्थत्वात्। दर्शिता विरुद्धार्थता । किमिव ? कुमारब्रह्मचारिपितृत्ववत् , यदि पिता कथं कुमारब्रह्मचारी ? अथ कुमारब्रह्मचारी कथं पितेति ? इदमेव चोदाहरणमन्यत्रेति, स्वोक्तोपपत्त्यभ्युपगमविरुद्धार्थत्वादिष्वप्येतदेवोदाहरणं वाच्यमिति । एवं वक्तरि वेत्यादि । सर्वेषां वाक्य-भाष्य-टीकाकाराणां शास्त्रकारमतानुवर्तित्वात् स एवानाप्तोऽसत्यवादी 'वेत्येतदपि स्यादिति लोकानुवृत्त्या साशङ्कमिवोच्यते, मा भूत् तीर्थकरगौरवाकृष्टमतिभिः 'अनाप्त एव' इति निष्ठुरवचनकुपितैः 15 सह तद्भक्तैः कलह इति ।
किश्चान्यत् , सदादिविकल्पानुपपत्तिश्च तदवस्थैव उक्तवत् , 'निष्ठासम्बन्धयोरेककालत्वात्' इति ब्रुवतापि किं कार्यस्य सत्तया सम्बन्धः सतोऽसतः सदसतो वा ? इत्युपालम्भान्न मोचित एवात्मा । तद्यथा - कार्यस्य किं सत्तया सम्बन्धो निष्ठितस्यानिष्ठितस्य निष्ठितानिष्ठितस्य ? इति समानप्रेचर्चत्वात ३५३-२ न शब्दान्तरमात्रोच्चारणाद् दोषपरिहारः।
20 यत् पुनद्रव्यादीनामित्यादि । द्रव्यादीनां स्वत एवाभिधानप्रत्ययविषयत्वं सत्त्वात् , स्वतः सत्त्वात् , स्वभावसत्त्वादित्यर्थः । किमिव ? सत्तादिवदित्यादि सव्याख्यानमनिष्टापादनसाधनं वैशेषिकं प्रति गतार्थं यावद् न सत्तायोगादित्युक्ते उच्यते परिहारः किल काणादैः - नैतत् , अतादात्म्यात् , स आत्मा यस्य तत् तदात्म सत्तादि, तद्भावस्तादात्म्यम् , तद्वैधादतादात्म्याद् द्रव्यादीनाम् , तद्वयाख्या यावदभिधानादीति गतार्थम् । दण्डनिमित्तादण्डदण्डित्ववदिति दृष्टान्तः, यथा 'दण्डोऽस्यास्तीति दण्डी' 25 इति दण्डित्वमदण्डद ण्डिनो दण्डनिमित्तमेवं द्रव्यादेरसदात्मनः सत्तानिमित्तं सदभिधानादीति ।
१ सत्ता सत्तासम्बन्धः प्र० ॥ २ नुसतो भा०॥ ३ प्रशस्त य० ॥ ४ दर्शित विरु° प्र० ॥ ५ दृश्यतां पृ० ५१४ पं० २॥ ६चेत्ये वि. ही० ॥ ७ दृश्यतां पृ० ५०८ पं० ३॥ ८ सत्ताया प्र०॥ ९प्रवर्चय० । प्रवर्त° भा० ॥ १० वदि सव्याख्यान प्र०॥ ११त्वसंदंडादडिनो भा० । "त्वसदंडाइंडादंडिनो य०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org