________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे योऽपि च परिहारोऽभिहितः- न, अस्यासंयोगात्, न हि कारणसम्बन्धिभिः कार्यस्य संयोगोऽस्ति [ वै० सू० प्रशस्तमति० ], सोऽपि न परिहारः, उक्तवदसंयोगासिद्धत्वात् ।
तत्त्वोपनिलयनात् सदाद्यभिधानार्थ कारणसमवेतस्य वस्तुन उत्तरकालं सत्तासम्बन्ध इति बहूनां मतम्। 'वस्तूत्पत्तिकाले एव' इति तु वाक्यकाराभिप्रायोऽनुसृतो
5 वस्तुभावमापन्नत्वात् , विभुपरिमण्डलवियदादिवत् , यथा विभुत्वपरिमाणान्याकाशकालदिगात्मद्रव्याणि परिनिष्ठितत्वाद् विभुत्वगुणसमवेतानि व्यपदेश्याधाराणि च तथा द्रव्यादिकार्यम् , परिमण्डलपरिमाणाः परमाणवः परिमण्डलत्वेन समवेता व्यपदेश्याधाराश्च द्वयणुकादिकार्ये, विभुत्वपरिमण्डलत्वगुणयोर्वाश्रयभूतयोर्वाकाशपरमाण्वोद्वर्थणुकादिव्यपदेश्याधारत्वं समवेतत्वं च सिद्धं तथा द्रव्यादिकार्यस्येति । एवं तावत् परिनिष्ठितसम्बन्धौ ब्रुवतो द्रव्यस्य समवायिकारणत्वनिवृत्तिप्रसङ्गपरिहारोऽसमर्थः । 10 योऽपि चेत्यादि । अस्मदुक्तस्य कार्यकारणयुतसिद्धिदोषस्य परिहारो योऽभिहितः- न, अस्यासंयोगादिति । तद् व्याचष्टे - न हि कारणसम्बन्धिभिः कार्यस्य संयोगोऽस्ति, यथा द्वयोरङ्गुल्योराकाशे युज्यमानयोः संयोगस्य द्वयमुलाकाशसंयोगकारणस्य सम्बन्धिन्योर्युतसिद्धयोः संयोगो न तथा कारणसम्बन्धिभिः कार्यस्य द्रव्यादेः कैश्चित् संयोगोऽस्ति यतो युतसिद्धिदोष आपद्येत पृथक्सिद्धयोरिव । तस्मादसं
योगात् संयोगवैधात् पृथक्सिद्धथभाव इति । 15 अत्रोच्यते - सोऽपि न परिहारः, उक्तवदसंयोगासिद्धत्वात् । यदि तत्र परिनिष्ठितं प्रवृत्तमारब्धं
कथं तेनासम्बद्धम् ? इत्यादिना प्रपश्चेन 'सम्बद्धमेव' इत्युक्तं सम्बन्धसमवायशब्दार्थव्याख्यानेन च । तस्मादुक्तवदसंयोगस्यासिद्धत्वादपरिहारः । यदि तत्रोत्पन्नताद्यसिद्धिः सम्बन्धासिद्धिश्च स्यात् स्यादसंयोगः, ततः परिहारश्च युतसिद्धिदोषस्य स्यात् । एवं तावद् व्याख्यान्तरमप्ययुक्तम् ।।
इदानीं सूत्रकारमतं समर्थयतां वाक्य-भाष्य-टीकाकाराणां मतानि समाहृत्य प्रधानानुगामित्वाच्छे___20 षाणां सूत्रकारमतमेवेत्थं दूषयितुमाह-तत्त्वोपनिलयनात् सदाद्यभिधानार्थं कारणसमवेतस्य वस्तुन उत्तर३५३-१
१ प्रशस्तमतेरभिप्राय इति भावः ॥ २'यणुकादि(दे ?)ऱ्याप प्र० ॥ ३°तः तास्यासं भा० । तस्तास्यासं° य० ॥ ४ "अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः [वै० सू० ७।२।११ ], अन्यतरकर्मजः संयोगः श्येनस्योपसर्पणकर्मणा स्थाणुना । मल्लयोरुपसर्पणादुभयजः । संयोगजः कारणाकारणयोः संयोगात् कार्याकार्यगतः, यथा अङ्गुल्याकाशसंयोगाभ्यां व्यङ्गुलाकाशसंयोगः । एतेन विभागो व्याख्यातः [वै० सू० ७२।१२], अन्यतरकर्मजो विभागः श्येनस्यापसर्पणात् । उभयकर्मजो मेषयोरपसर्पणात् । विभागजस्तु अङ्गुल्योरन्योन्यविभागाद् विनष्टमात्रे व्यङ्गुलेऽनुल्याकाशविभागः, कारणाकारणयोर्वा हस्ताकाशयोविभागाच्छरीराकाशविभागः । संयोगविभागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः [वै० सू० ॥२।१३ ], युतसिद्ध्यभावान्न तौ स्त इत्यर्थः । कर्मभिः कमाणि गुणैर्गुणाः [ वै० सू० ॥२।१४ ], युतसिद्ध्यभावान्न संयोगविभागवन्त इत्यर्थः । युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्यते [ वै० सू० ७।२।१५], कार्यकारणयोः परस्परेण संयोगविभागौ न विद्येते, यथा घटकपालयोः, युतसिद्ध्यभावात् । युतसिद्धिद्वयोरन्यतरस्य वा पृथग्गतिमत्त्वम्, सा च नित्ययोः, युताश्रयसमवेतत्वं वाऽनित्ययोः त्वगिन्द्रियपार्थिवशरीरयोश्च । न च घटकपालयोः युताश्रयसमवायः, घटस्य तेष्वेव समवेतत्वात् ।” इति चन्द्रानन्दविरचितायो वैशेषिकसूत्रवृत्तौ ? पृ. २७ B- २८ A ॥ ५न न परिभा० । 'सोऽपि न' इत्येतावन्मात्रस्य मूलप्रतीकत्वे 'सोऽपि न, न परिहारः' इति भा० प्रतिपाठोऽपि सङ्गच्छेत ॥ ६ दृश्यतां प्र. ५१४ पं०३॥ ७दृश्यतां पृ० ५१५५० ३॥ ८ वि. विना त्वाद्येषाणां प्र.। त्वाहोषाणां वि०॥ ९ द्वष भा० । द्वेष य० ॥
wwwmom
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org