________________
प्रशस्तमतिमतखण्डनम् ]
द्वादशारं नयचक्रम्
यथायोगं स्वस्यैव कार्यस्य नासतो नान्यकार्यस्य वा असम्बन्धात् । तस्मादस्ति सम्बन्धः प्रागपि ।
योऽयं सम्बन्धसमवायशब्दार्थः सोऽपि एवमेव घटते । एकीभावेन बन्धः सम्बन्धः, अनेकसर्वात्मकत्वात् । एकीभावेन गतिः अयः अवगत्या समवायः कारणसत्कार्यैकत्वलक्षणः ।
५१५
5
तदापत्तिभयात् त्वयेदममार्गप्रमर्दनं क्रियते यदिदमव्यपदेश्याधारत्वम् । व्यपदेश्याधारं द्रव्यादिकार्यं समवेतं च स्वकारणैः प्रागपि, परिनिष्ठितत्वात्, विभुपरिमण्डलवियदादिवत् ।
सतोऽप्यकारणानि कार्यस्य अत्यन्तासतः खपुष्पस्येव घटस्येव वा कारणान्तरसाध्यस्येत्युक्तमुपनयति - सर्वत्र कारणमित्यादि, 'करोति' इति कारणं कर्तृसाधनम्, खपुष्पादि घटादि वा तन्तुभिर्न क्रियते ततस्तत्राकार - 10 णानि, पटस्तु क्रियते तस्मात् तस्य कारणानि, यो यो योगो यथायोगं स्वस्यैव कार्यस्य तन्तवः पटस्य कपालनि घटस्य, नासतो नान्यकार्यस्य वा, कस्मात् ? असम्बन्धात्, कार्यकारणभावश्च सम्बद्धत्वे सति भवति, तस्माद्[स्ति] सम्बन्धः प्रागपि कार्योत्पत्तेस्तत्कारणैः सम्बन्धोऽस्ति । कथं तत् कार्यं तेंदू नितिष्ठति कारणैरसम्बद्धम् ? तस्मात् ‘कार्यमव्यक्तसद् व्यक्तसद् भवति सम्बद्धं च सदा स्वकारणैः' इत्यनुमीयते ।
सम्बन्धसमवायशब्दार्थावप्येवमेव घटेते, नान्यथेत्यतो योऽयमित्याद्याह । 'सम्' इत्येकार्थीभाव- 15 वाच्ययमुपसर्गः, एकीभावेन बन्धः सम्बन्धः 'अनेकं कारणाख्यं वस्तु सदेकमेव कार्याख्यं भवति परस्परेण बध्यते' तमर्थमाह, अनेकसर्वात्मकत्वात् अनेकस्य तन्त्वादेः प्रतिस्वमात्मानमपरित्यज्य सर्वैकसङ्घातभव - ३५२-१ नेन पटादिकार्याख्येन परिणतेः । एकीभावेन गतिः गमनपरिणतिरयः, अव अपगमने, अवगत्या अपगमनेन प्राच्य संस्थानादिधर्माणां त्यागेन द्रव्यपर्यायाभ्यां तन्तुत्वापरित्यागेन पटत्वपरिणामः सम्बन्धः समवाय इत्यक्षरार्थानुसारेणोक्त्वा वस्तुनि स्फुटीकर्तुमाह- कारणसत्कार्यैकत्वलक्षणः, कारणेषु विप्र - 20 कीर्णेषु सत्कार्यमेकत्वमापन्नेषु पटीभवद् व्यक्ति यातीत्येष परमार्थः ।
तदापत्तिभयादित्यादि । 'एष द्रव्यपर्यायात्मकस्याद्वादपरमार्थवादं मा प्रपत्स्येऽहम्' इत्यकस्माद्भयात स्वपक्षरागसमुत्थात् परपक्षद्वेषाञ्च त्वयेदममार्गप्रमर्दनमस्थाने शक्तिक्षयायैवं क्रियते । कतमदमार्गप्रमर्दनमिति चेत्, उच्यते - यदिदमव्यपदेश्याधारत्वं प्राग् व्याख्यातम् । तत् पुनः किमर्थमारभ्यते ? इहेति यतः कार्यकारणयोः [ स ] समवायः [वै० सू० ७ २ २९ ] इति 'इह' बुद्ध्यभिधानाभ्यां कार्यकारण- 25 गताभ्यां समवायोऽनुमीयते सोऽत्र न सम्भवति कार्यस्यासत्त्वात् तस्मादव्यपदेश्याधारकार्यसम्बन्धकल्पना क्रियते । अयमुत्पथगमनक्लेशो निरर्थकच, सोऽपि च " मिध्याभिधान एव । अव्यपदेश्याधारं द्रव्यादिकार्यमसमवेतं वा कारणैः प्रागुत्पत्तेरिति मा मंस्थाः, मन्यतां तु तत्रैवास्तीति । तथा च मन्तव्यम् - व्यपदेश्याधारं द्रव्यादिकार्यं समवेतं च स्वकारणैः "प्रागपि निर्वृत्तेस्त्वन्मतेनैव परिनिष्ठितत्वाद् ३५२-२ २ सर्वत्व पा० रं० | सर्वच्च डे० । सर्वस्व वि० ॥ ३ यो योगो प्र० ॥ ५ ( यद् ? ) ॥ ६ सम्बन्धः य० ॥ ७ तिरूपा दित्यादि प्र० ॥ ८ एव भा० । ( एवं ? ) ॥ ९ क्षय प्र० || १० दृश्यतां पृ० ४४५ टि० १४ ॥ ११ 'मिथ्याभिमान एव' इति १२ प्रागपिति वि० विना । अत्र प्रागपीति इत्यपि पाठः स्यात् ॥
१ष्पमेव प्र० ।
४ °लादिनि
य० ॥
सम्यग् भाति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org