________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ सप्तम उभयोभयारे
येतूच्यते - समवायिकारणत्व निवृत्तिरिति चेत्, न, अन्यत्रा समवायात् । यदि तस्य ... तस्माददोषः [ वै०सू० प्रशस्तमति० ] इति, सोऽप्यपरिहारः, इच्छामात्रत्वात् वोक्तोपपत्तिविरुद्धार्थत्वात् तदसम्बद्धत्वात् अन्यत्र परिनिष्ठितत्वात् तन्तुष्विव घटस्य तत्राप्रवृत्तत्वात् तत्रानारम्भात् तदसम्बद्धोत्पत्तित्वात् ।
५१४
5
कार्यस्य चोत्पत्तिवत् खपुष्पमुत्पद्यताम्, कारणैरसम्बद्धत्वात् । अकारणत्वादिति चेत्, पटाद्यपि मोत्पादि अकारणत्वात् खपुष्पवत्, तद्वत्पद्यताम् ।
यथा तत्वादीनि तेष्वसतः सतोऽप्यकारणानि कार्यस्य तथा सर्वत्र कारणं
यत्तूयत इत्यादि यावत् तस्माददोष इति द्रव्यसमवायिकारणत्वनिवृत्तिदोषपरिहारो योऽभिहितः समवायिकारणत्वनिवृत्तिरिति चेदित्याशङ्कय-न, अन्यत्रासमवायादिति । तद्वयाख्यानं यदि 10 तस्येत्यादि सुलिखितत्वाद् न वित्रियते । सोऽप्यपरिहार इच्छामात्रत्वात्, कार्यस्य निष्ठितस्य कारणैः सम्बन्धोक्तिरन्यत्रसमवायाख्यायिनी 'न, अन्यत्रासमवायात्' इत्युत्तरवाक्यं विरुणद्धि, तच्चेतरविरोधि, ततोऽनुपपत्तेर्विरुद्धार्थत्वादिच्छामात्रं ते वचो न परिहार इत्यत आह - स्वोक्तोपपत्तिविरुद्धार्थत्वात्, विरुद्धार्थत्वमसम्बद्धत्वात् तैः कारणैः कार्यस्य, तदसम्बद्धत्वमन्यत्र परिनिष्ठितत्वात् किमिव ? तन्तुष्विव घटस्य, यथा तन्तुषु घटस्यानिष्ठितत्वादन्यत्र कपालेषु निष्ठितत्वात् तन्तुभिरसम्बद्धत्वमेवं द्रव्या15 दिकार्यस्य । तदसिद्धमिति चेत्, न तत्राप्रवृत्तत्वात् 'तन्तुष्विव घटस्य' इति वर्तते । तत्राप्रवृत्तत्वमैन्यत्र प्रवृत्तत्वं च तत्रानारम्भात्, तँत्र चानारम्भः तदसम्बद्धोत्पत्तित्वात्, तैः कारणैरसम्बद्धस्य पटस्योत्लत्तेरिष्टत्वात् तवैव आरम्भ - प्रवृत्ति - निष्ठास्तन्तुषु पटस्य न सन्ति घंटस्येवाकाशस्येव खपुष्पस्येव वा । सामान्येनैक एव वा हेतुः तदसम्बद्धोत्पत्तित्वादिति ।
अनिष्टापादनं चात्र - कार्यस्य चेत्यादि । खपुष्पमुत्पद्यताम्, कारणैरसम्बद्धत्वात् त्वदभिमत20 कार्यवत् । अकारणत्वादिति चेत्, निष्कारणं च खपुष्पम्, पटादि सकारणम्, तस्माद् दृष्टान्तदाष्टन्ति३५१-२ कयोर्वैषम्यादयुक्तमिदमनिष्टापादनमिति चेत्, उच्यते - पटाद्यपीत्यादि, पटाद्यपि कार्यं मोत्यादि, अकारणत्वात्, खपुष्पवत् । अकारणत्वं चास्य कारणासम्बद्धत्वादाकाशवत् । तद्बोत्पद्यतामिति, कारणासम्बद्धस्य कार्यस्योत्पत्तिवत् खपुष्पं वोत्पद्यतामकारणत्वादित्युक्तमेव ।
यथा तत्वादीनीति, तन्त्वादीनां कारणत्वं कार्येण सम्बन्धादृते नास्ति, तस्मात् तेष्वसतः
१. 'यत्तूच्यते - न, अन्यत्रासमवायात्' इत्यपि पाठः स्यात् ॥ दोषः, न तु तथाभ्युपगम्यते, तस्माददोषः' इत्याशयोऽत्र भाति ॥ पाठोऽत्र स्यात् ॥ ४ चेत्याशङ्क्य प्र० ॥ ५ मन्येव प्र० ७ पत्तैरिष्ट भा० । 'त्पत्तौरदृष्ट य० ॥ ८ तत्रैव भा०वि० ॥ भा० रं० ही ० ॥
॥
Jain Education International
२ 'यदि तस्य अन्यत्र समवायोऽभ्युपगम्येत स्यादयं ३ 'कार्यस्य चोत्पत्तिवत् खपुष्पं कस्मान्नोत्पद्यते' इत्यपि ६ तद्वचनारब्धा तदसम्बद्ध प्र० ॥ ९ घटस्यैवाकाशस्यैव प्र० ॥ १० स्यैव
For Private & Personal Use Only
www.jainelibrary.org