________________
प्रशस्तमतिकल्पितव्याख्यानिरासः] द्वादशारं नयचक्रम् सम्बन्धी निष्ठासम्बन्धी, तयोरेककालत्वात् । निष्ठितं निष्ठा, कारकपरिस्पन्दाद् वस्तुभावमापन्नमव्यपदेश्याधारं कार्य निष्टितं 'निष्ठा' इत्युच्यते, तस्य खकारणैः सत्तया च युगपत् सम्बन्धौ भवतः । भाष्यमपि 'परिनिष्ठां गच्छद् गतम्' इत्येतमर्थ दर्शयति, वर्तमानसामीप्ये वर्तमानवद्वा [पा० ३।३।१३१ ] इति । यथा कारकान्तरमुत्पद्यमानं दृष्टं कारकव्यापाराद् वस्तुभावमापन्नमव्यपदेश्याधारं निर्वृत्तं सत् स्वकारणैः । सत्तया च सम्बध्यते तथा पटाख्यम् ।
तदपि न, समवायिकारणत्वविरोधात् ववचनाभ्युपगमविरोधौ । किञ्च, निष्ठितस्य कार्यस्य कारणैः सत्तया च सम्बन्धो युतसिद्धसम्बन्धः, कार्यस्य कारणेभ्योऽन्यत्र परिनिष्ठितत्वात् ।
निष्ठितं निष्ठा, निष्ठ गच्छद् गतमित्येकोऽर्थः । कादीनां कारकाणां कुविन्द-तुरि-वेमादीनां परिस्पन्दाद् 10 वस्तुभावं वस्तुभवनमापन्नं निष्पन्नमव्यपदेश्याधारम् , अव्यपदेश्य आधारोऽस्य तन्त्वादिः समवायि-...
:३५०-२ हेतुः, ‘इह तन्तुषु पटः' इतीहप्रत्ययाभिधानकारणस्य समवायसम्बन्धस्य निमित्तभूतं पटाख्यं कार्य निष्ठित 'निष्ठा' इत्युच्यते । तस्य निष्ठितस्य स्वकारणैः सत्तया च युगपत् सम्बन्धौ भवतः ।
भाष्यमपीति अस्य वाक्यस्य व्याख्याग्रन्थोऽप्ययं परिनिष्ठां गच्छद् गतमित्येतमर्थ दर्शयति । केन पुनर्लक्षणेन गतं सद् गच्छदित्युच्यते ? ब्रूमः - वर्तमानसामीप्ये वर्तमानवद्वा [पा० ३।३।१३.] इति । 15 किमिव ? इत्यतो निदर्शनमाह - यथा कारकान्तरमुत्पद्यमानं दृष्टमिति, कारकादन्यत् कारकं कारकान्तरमुत्पद्यमानमुत्पन्नमित्यर्थः । कस्मात् ? 'दृष्टम्' इत्यक्षिगोचरापन्नार्थनिर्देशात् , इतरथा 'दृष्टं' न स्यात्, उत्पद्यमानस्यानुत्पन्नत्वेऽक्षिगोचरत्वानुपपत्तेः । तत् पुनः कतमत् ? कारकव्यापाराद् देवदत्त-स्थाली. काष्ठादीनां व्यापाराद् वस्तु[भावम्] आत्मलाभमापन्नं पूर्ववदव्यपदेश्याधारं निर्वृत्तं सदोदनाद्या इयं स्वकारणैस्तण्डुलादिभिः सत्तया च सम्बध्यते तथा पटाख्यमिति ।
20 __ अत्र ब्रूमः - तदपि न, समवायिकारणत्वविरोधात् स्ववचनविरोधोऽभ्युपगमविरोधश्च दोषावित्थं ब्रुवतः । क्रियावद् गुणवत् समवायिकारणं द्रव्यमुक्तम् , समवायिनो द्रव्यान्तरस्य गुणकर्मणोश्वारम्भकत्वात् । यदि पुनर्वस्तुभावं गतं कार्यं द्रव्यादित्रयं कारणैः सत्तया चाभिसम्बध्यते ततोऽनारम्भकाणि अकारणानि च तन्त्वादिकारणद्रव्याणि स्युः, ततश्च स्ववचनमभ्युपगमश्च निवर्तेते 'समवायिनां कार्याणां ,व्यम्' इति । किश्चेत्यादि यावत् परिनिष्ठितत्वादिति । एतावपि स्ववचनाभ्युपगमविरोधौ, 25 यस्मात् कार्यकारणगुणगुणिव्यक्त्याकृतीनामयुतसिद्धः समवायः सम्बन्ध उक्तोऽभ्युपगतश्चै, इदानीं निष्ठितस्य ३५११ कार्यस्य कारणैः सत्तया च सम्बन्धोऽभ्युपगतः, स च युतसिद्धसम्बन्धः, कार्यस्य कारणेभ्योऽन्यत्र परिनिष्ठितत्वाद् घटाकाशवत् ।
१ इत्यक्षगों प्र० ॥ २ गुणसमवायि प्र० । दृश्यतां पृ० ४४० टि० ५॥ ३ निवर्तते य० ॥ ४ 'द्रव्यं समवायि कारणम्' इत्यपि पाठोऽत्र स्यात् ॥ ५ नं अयु भा० । न अयु य० ॥ ६ 'श्चेदिदानी प्र०॥
नय०६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org