________________
५१२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे ततः स्वकारणसत्तासम्बन्धद्वयतन्तुपटद्वयसानाथ्यं नानेकान्तानाश्रयणे ।
असत्सम्बन्धपरिहारार्थं च 'निष्ठासम्बन्धयोरेककालत्वात्' इत्येतदेव वाक्यं सभाष्यं प्रशस्तोऽन्यथा व्याचष्टे-सम्बन्धश्च सम्बन्धश्च सम्बन्धी, निष्ठायाः
wwwwwwww
www
३५०-१ स्यात्यन्तमसत्त्वात् कारणानां चात्यन्तं पूर्वोत्तरकालतुल्यत्वादाकाशवत् किं कथं परिनिष्ठितं तिष्ठति न 5 परिनितिष्ठति ? सर्वं हि सर्वदा सर्वथा परिनिष्ठितमपरिनिष्ठितं, वा स्यादित्यविशेषः । एवमसम्पूर्णसत्कार्यकारणमात्रवादित्वं सम्बन्धानर्थक्यं निष्ठानिष्ठाविशेषश्चेति दोषाः स्वसिद्धान्तोपरोधिनस्ते ।
___अथ पैटोऽपि । अथ मा भूवनेते दोषा इति 'पटोऽपि केनचिद् न्यायेन तन्तुष्वस्ति' इत्यभ्युपगम्यते सोऽप्यभ्युपगमविरोधायैकान्तवादिनस्तेऽनेकान्तवादाभ्युपगमो जायत इत्यत आह - ततः स्वकारण
सत्तासम्बन्धद्वयतन्तुपटद्वयसानायं नॉनेकान्तानाश्रयणे, पटस्य कार्यस्य स्वकारणैस्तन्तुभिः 10 स्वसत्तया चेति द्वौ सम्बन्धौ तावेव कार्य कारणानि च द्वावविति तदेव तच्चतुष्टयम् , अव्यक्तसन्
पटः तन्त्ववस्थायां तन्तुभिः स्वकारणैः स्वसत्तया च सम्बद्धः कुविन्दादिकारकव्यापारोत्तरकालं व्यक्तसन् भवति पटात्मना परिणतेरिति द्रव्यपर्यायात्मकस्याद्वादपरमेश्वराश्रयप्रभावलभ्यमेतद् वचनसामर्थ्य नान्यथेति । तस्मादेषोऽपि विकल्पोऽसत्सम्बन्धदोषदुष्ट इति ।
असत्सम्बन्धपरिहारार्थ चेत्यादि । “निष्ठासम्बन्धयोरेक[काल]त्वात्' इत्येतदेव वाक्यं 18 सभाष्यमसत्सम्बन्धदोषपरिजिहीर्षया विद्वस्यन् प्रशस्तोऽन्यथा व्याचष्टे- सम्बन्धश्च सम्बन्धश्च सम्बन्धौ, निष्ठायाः सम्बन्धी निष्ठासम्बन्धौ, न निष्ठा च सम्बन्धश्चेति । तयोनिष्ठासम्बन्धयोरेककालत्वात् ।
१'परिनितिष्ठति न परिनितिष्ठति' इत्यपि पाठोऽत्र स्यात् ॥ २१॥ एतचिह्नान्तर्गतः पाठो भा० प्रतौ नास्ति ॥ ३ पटोऽथ मा य० ॥ ४ नानेकान्तनाथ प्र.। ( नानेकान्तनाथानाश्रयणे ?)॥ ५स्वकार्यकारण य० ॥ ६ दृश्यतां पृ० ५०८ पं०३॥७ इदं तु ध्येयम्-वाक्यमिदं भाष्यं चेदं केन कदा च विरचितमिति न सम्यग् विज्ञायते । कणादविरचितवैशेषिकसूत्राणां सङ्क्षिप्तव्याख्यानरूपो वाक्यनामकः कश्चिद् ग्रन्थ आसीत् , तदुपरि केनचिद् विरचितं भाष्यमासीत् , तदुपरि च प्रशस्तमतिविरचिता काचित् टीका आसीदिति तु पूर्वापरग्रन्थपर्यालोचनया प्रतीयते, दृश्यतां पृ० ५१७ पं०९ त्रयमप्येतदिदानीं न क्वचिदप्युपलभ्यते। यत्तु प्रशस्तपादभाष्यमिदानीमुपलभ्यते तत्र नैवेयं चर्चा दृश्यते, अतःप्रशस्तपादभाष्यादवश्यं भिन्नमेवैतद् भाष्यम् । किञ्चान्यत् , प्रशस्तपादभाष्यं न साक्षाद् वैशेषिकसूत्राणां व्याख्यानभूतं किन्तु स्वतन्त्र एव निबन्धः । तत्त्वसङ्ग्रहपञ्जिका-प्रमेयकमलमार्तण्ड-न्यायकुमुदचन्द्रादिप्राचीनग्रन्थेषु च तस्य पदार्थप्रवेशकनाम्नैव उल्लेखः, वादिदेवसूरिविरचितस्याद्वादरत्नाकरे [पृ. ९२.] तु प्रशस्तकरभाष्यनाम्नापि निर्देशः, अन्यग्रन्थेषु केवलं भाष्यनाम्नापि निर्देशः, सम्प्रति तु प्रशस्तपादभाष्यनाम्नैव प्राचुर्येण व्यवहारः। एवं प्रशस्तपादभाष्यकर्तुः 'प्रशस्तः, प्रशस्तकरः, प्रशस्तदेवः, प्रशस्तकरदेवः, प्रशस्तपादः' इत्यादीनि बहूनि नामानि उपलभ्यन्ते। 'प्रशस्तमतिः' इत्यपि तस्यैव नामान्तरं स्यादिति प्रतिभाति । इदं त्ववधेयम् - तत्त्वसङ्ग्रहपञ्जिकायां सन्मतितर्कवृत्तौ प्रमेयकमलमार्तण्ड-न्यायकुमुदचन्द्रादिषु च प्रशस्तमतेर्बहनि वचांसि उद्धृतानि दृश्यन्ते, किन्तु तत्र तत्त्वसङ्ग्रहपञ्जिकायां विशेषपरीक्षायां समवायपरीक्षायां च यत् प्रशस्तमतेर्मतमुद्धतं तदेव केवलमुपलभ्यते यथाक्षरं प्रशस्तपादभाष्ये, अपराणि तु प्रशस्तमतेर्वचांसि नैवोपलभ्यन्ते प्रशस्तपादभाष्ये। अत एवं सम्भाव्यते-एकस्तावद् वैशेषिकसूत्राणां वाक्यतद्भाष्ययोश्च व्याख्यानभूतो ग्रन्थः प्रशस्तमतिना व्यरचि, अपरस्तु पैशेषिकमतवर्णनपरः स्वतन्त्र एव निबन्धस्तेन विरचितो यः सम्प्रति प्रशस्तपादभाष्यनाम्ना सर्वलोकप्रसिद्ध इति ध्येयम् ॥ ८°ष्यमत्स य० । ष्यसत्स भा० ॥ ९ विद्वस्यत्प्रशस्तो प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org