________________
निष्ठासम्बन्धयोरेककालत्वादिति वाक्ये दोषाः ] द्वादशारं नयचक्रम् अत्र ब्रूमः-सम्बन्ध एव स न भवति, सत्सु अभूतत्वात्, शशविषाणवत् । विद्यमानविषयेणैव तेन भवितव्यम् , सम्बन्धत्वात्, द्वयङ्गुलिसंयोगवत् ।
यदि त्वात्मात्मीययोः पटव्यञ्जनयोः सद्भावे कारणानि तन्तवः, सम्बध्येरंस्तेन पटेन । स तु नास्ति । त एव तन्तवः परिनिष्ठां गच्छन्तः सम्बध्यन्त इति कालाविभागः कार्यकारणसत्तासम्बन्धस्य । तदा ते यदि तन्तव इत्येव, पुरुषादिकारण-5 मात्रवादवदयं वादः स्यात् । सत्कार्यवादोऽपि न प्रतिपूर्यंत, तन्त्वाकुण्डलनवत् पूर्वोत्तरकालतुल्यत्वात् सम्बन्धानर्थक्यं परिनिष्ठाऽपरिनिष्ठाऽविशेषश्च । अथ पटोपि,
अत्र ब्रूमः - सम्बन्ध एव स न भवति, सत्सु अभूतत्वात् , शशविषाणवदित्यनिष्टापादनसाधनेनासत्सतोः सम्बन्धस्यातुल्यता प्रदर्श्यते । स्वकारणैः स्वसत्तया च कार्यस्य सम्बन्धः प्रागपि सत एवेति । तदर्थसाधनं चेदम् - विद्यमानविषयेणैव तेन समवायसम्बन्धेन भवितव्यम् , सम्बन्धत्वात् , 10 यथा संयोगो द्वे अङ्गुली विद्यमाने एव विषयीकुरुते सम्बन्धशब्दवाच्यत्वात् तथा समवायोऽपि कार्यकारणे विद्यमाने एव विषयीकुरुते व्यादिपराधीनवृत्तित्वादिति ।
अतः शब्दार्थव्यवहारद्वारेणात्रैव दोषाभिधित्सयेदमाह - यदि त्वात्मेत्यादि । 'स्वकारणानि स्वसत्ता' इत्यत्र स्वशब्दस्य आत्मा-ऽऽत्मीय-धनपर्यायस्य इहात्मनि आत्मीये यथाविवक्षं वृत्तिः स्यात्, स च कार्योऽर्थः । तयोः पटव्यञ्जनयोः सद्भावे कुर्वन्ति कार्य पटमिति कारणानि तन्तवः सम्बध्येरंस्तेन पटेन, 15 स तु नास्ति पटः, तदभावे किंविषयं कारणानां कर्तृत्वमित्यर्थः । व्यञ्जनसद्भायकर्तृत्वनिर्विषयाः त एव ३४९-२ तन्तवः परिनिष्ठां गच्छन्तः सम्बध्यन्ते खपुष्पेणेव कार्यकारणनिरपेक्षाः परिनिष्ठिताः सम्बद्धाश्चेति कालाविभागः कार्यकारणसत्तासम्बन्धस्येत्येतदापन्नम् । ततः को दोष इति चेत्, उक्तोऽसता सम्बन्धाभावः । पुनरपीत्थमुच्यते - तदा ते यदि तन्तव इत्येव कार्याभावात् कारणत्वव्यापारविमुखाः केवलं तन्तव इति 'पुरुषादिकारणमात्रमेवेदम्' इतिवादवदयं वादः स्यात् , कुतोऽसत्कार्यवादः ? सत्कार्यवादोऽपि 20 साङ्ख्या भिमत: 'प्रकृत्यन्तीना विकाराः' इति सोऽपि न प्रतिपूर्येत, स्तिमितसरःसलिलवद् गगनवद्वा निर्व्यापारकारणमात्रवादाभ्युपगमात् न प्रतिपूर्यतेति, मा बोचं 'न प्रतिपूर्यत एव' इति निष्ठुरमिति सानुनयमुच्यते । किमिव ? तन्त्वाकुण्डलनवत् , यथा तन्तूनामाकुण्डलीकृतानां पुञ्जितानामित्यर्थः, कुविन्दतनन-पायन-प्रसारण-वयनादि क्रियानिरपेक्षाणां कारणत्वं नास्ति, तत्रात्यन्तं पटकार्यादर्शनात् , न हि कुण्डलितेषु पटो दृश्यते, तथा कारणमात्रमसम्पूर्णसत्कार्यमेतत् , पूर्वोत्तरकालतुल्यत्वादिति, एवं निर्व्यापार-25 पूर्वोत्तरकालतुल्यतन्तुमात्रतायां पटाख्यस्य कार्यस्य कश्चिद् गन्धोऽपि नास्ति, अतस्तेन सम्बन्धानर्थक्यं कारणानां तन्तूनां खपुष्पेणेव । किश्चान्यत् , परिनिष्ठापरिनिष्ठाविशेषश्च, दोषोपचयः, खपुष्पवत् कार्य
१°विवहार य० ॥ २ “खो ज्ञातावात्मनि खं त्रिष्वात्मीये खोऽस्त्रियां धने ।" इत्यमरकोशे ॥ ३°मात्प्रतिपूर्यतेति प्र० ॥ ४ पंजिताना प्र० ॥५°पानयन प्र० । दृश्यतां पृ० २२६ टि० ४ ॥ ६ पूर्वोतुल्यतन्तु प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org