________________
५१०
न्यायागमानुसारिणीवृस्यलकृतम् [सप्तम उभयोभयारे सम्बन्धकाले तन्तुवद् वस्तुभावात्, भवदेव च सम्बध्यते परिनिष्ठानसम्बन्धयोरेककालत्वात् । तस्मात् सम्बन्धो वस्तुन एव कार्यस्य । पुनरपीदं तदवस्थमेव, लोके हि सम्बध्यमानानां सत्त्वं दृष्टम् , न हि शशविषाणस्य सम्बध्यमानता दृष्टा, न हि परिनिष्ठायाः सम्बन्धाद् वा सत्त्वम् , यदि स्यात् तदा हि शशविषाणमपि 5 निष्ठां गच्छत् सम्बध्येत, कार्यमपि वा न सम्बध्येत ।
समानत्वान्नेति चेत्, सति असति च सम्बन्धादर्शनतुल्यत्वात् , यथाऽसतः खपुष्पादेः समवायसम्बन्धेन द्विविधेन स्वकारणसत्तादिभिः सम्बध्यमानता न दृष्टा तद्वत् सतोऽपि सम्बध्यमानता न दृष्टा; नहि सम्बध्यमानमविशिष्टमिहाधिकृतम् ।
सम्बन्धकाले तन्तुवद् वस्तुभावात् । स्यान्मतम् - ननु सम्बन्धकालेऽस्ति कार्यमुत्पद्यमानमेव 10 वस्तु भवति, पटकारणं तन्तव इव । भवदेव च परिनिष्ठां गच्छत् सम्बध्यते परिनिष्ठानसम्बन्धयोरेककालत्वात् , 'परिनिष्ठितं सम्बद्धं च' इत्येकः कालः, कालप्रविभागाभावः । तस्मात् सम्बन्धो वस्तुन एव कार्यस्य नावस्तुन इत्युक्तमिति ।
अत्रोच्यते - पुनरपीदं तदवस्थमेव, निष्पद्यमानावस्थाया उत्पत्तेः पूर्वकालत्वात् प्रागुत्पत्तेश्च कार्यस्यासत्त्वादसतः सम्बध्यमानता खपुष्पादेरिव का ? नो चेत् , तस्यामवस्थायां कार्यं सदेव स्यात् स्वकारणैः 15 सत्तया च सम्बध्यमानत्वात् निष्पन्नकार्यवत् । लोके हि सम्बध्यमानानां सत्त्वं दृष्टमिति साधर्म्य. दृष्टान्तः । न हि शशविषाणस्य सम्बध्यमानता दृष्टेति वैधHदृष्टान्तः, तदा न सम्बध्यते कार्यम् असत्त्वात् , खपुष्यवदित्यनिष्टापादनानुमानं वा । न हि परिनिष्ठायाः सम्बन्धाद् वा सत्त्वमिति, न हि परिनिष्ठा सम्बन्धो वान्यत्र दृष्टावपि सत्त्वमसतः कुरुतः खपुष्पादेः, सत एव निष्ठासम्बन्धदर्शनात् ।
यदि निष्ठायाः सम्बन्धाद् वा सत्त्वं स्यात् तदा हि शशविषाणमपि निष्ठां गच्छत् सम्बध्येत 20 निष्ठितं च सम्बद्धं चेति भवेत् , असत्त्वात् , कार्यवत् । कार्यमपि वा परिनिष्ठां गच्छत् स्वकारणैः
सत्तया च न सम्बध्येत, असत्त्वात् , खपुष्पवत् । तदेति च त्वदुक्तवद् निष्ठासम्बन्धयोरेककालत्वाभ्युपगमावस्थायां खैपुष्पाद्यकार्यस्यापि तद्वदेकलाले निष्ठासम्बन्धौ स्यातां स्वकारणैः सत्तया चेत्यनिष्टापादनमेतदितश्चेतश्च ।
समानत्वान्नेति चेत् , स्यान्मतम् – नैतदनिष्टापादनं घटते, कस्मात् ? सत्यसति च सम्बन्धा25 दर्शनतुल्यत्वात् । अस्य व्याख्या - यथाऽसतः इत्यादि यावदिहाधिकृतमिति, यथैव असतः खपुष्पादेः
समवायसम्बन्धेन द्विविधेन स्वकारणसम्बन्धेन सत्तासम्बन्धेन च सम्बध्यमानता न दृष्टा, आदिग्रहणाद् द्रव्यत्वगुणत्वकर्मत्वादिभिश्चेति दृष्टान्तः । तद्वदित्यादि दान्तिकं गतार्थम् , न हि सम्बध्यमानमविशिष्टं यत् किञ्चिदिहाधिकृतम्, स्वकारणस्वसत्तादिवचनादिति ।
१“न तु कार्यकारणयोः संयोगः, अयुतसिद्धत्वात् । युतसिद्धिरसम्बद्धस्य विद्यमानता, न पुनः कार्य कारणासम्बद्धं विद्यते, जातः सम्बद्धश्चेत्येकः कालः । तस्मान्न कार्यकारणे संयुक्ते ।” इति उझ्योतकरविरचिते न्यायवार्तिके २।१।३३ ॥ २ तथा हि प्र०॥ ३ खपुष्पादिकार्यस्यापि प्र०॥ ४ रणकः प्र०॥ ५ यथासतःप्र०॥ ६ स्वकारणसत्तादि य०॥
१०९-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org