________________
५०९
निष्ठासम्बन्धयोरेककालत्वादिति वाक्ये दोषाः ] द्वादशारं नयचक्रम् कालः प्रागसतो वस्तुभावः निष्ठानं समाप्तिः । सम्बन्धः खकारणसत्तासमवायः । तयोरेककालत्वम् , खकारणसत्तासम्बन्ध एव निष्ठाकालः, कुतः? समवायस्यैकत्वात्, यस्मिन्नेव काले परिनिष्ठां गच्छत् कार्य कारणैः सम्बध्यते समवायसम्बन्धेन अयुतसिद्धिहेतुना तस्मिन्नेव काले सत्तादिभिरपि, तस्मादप्रविभागात् प्राक् कार्योत्पत्तेरसतः सदादिरनास्पदो विकल्पः। एतदपि न, अनुपपन्नविकल्पत्वात् । असम्बन्धात् अवस्तुत्वात् । कथं चावस्तुनः कारणैः सत्तया वा सम्बन्धः? यदि तस्य स्यात् खपुष्पस्यापि स्यात् ।
सामग्र्यव्यापारकालः, कारणानां समवाय्यसमवायिनां तन्तु-संयोग-दण्डादीनां सामय्या अव्यापारकाल: पटनिष्पत्तौ तुर्यादिव्यापारोपरमकाल इत्यर्थः । तमेव व्याचष्टे -प्रागसतो वस्तुभावः पटादिवस्तुजन्म निष्ठानं समाप्तिरित्यादिपर्यायैः । सम्बन्धः कः ? इत्यत आह - सम्बन्धः स्वकारणसत्तासमवायः, 10 स्वकारणेषु तन्तुषु कार्यस्य पटस्य सत्तया च समवायः । तयोर्निष्ठासम्बन्धयोरेककालत्वम् । तद्दर्शयति[स्वकारण] सत्तासम्बन्ध एव निष्ठाकालः, स्वकारणैः सत्तया च कार्यस्य यः सम्बन्धः स एव निष्ठाकाल इति प्रतिज्ञाय कुतः इति हेतुं परिपृच्छय हेतुमाह - समवायस्यैकत्वात् , समवायो हि सम्बन्धः, स चैको द्वयोरपि, नितिष्ठत एव सम्बन्धात् कारणसत्तादिभिः । तदर्शयति - यस्मिन्नेव काले परिनिष्ठां, गच्छत् कार्यमात्मानं लभमानं पटाख्यं कारणैस्तन्त्वादिभिः सम्बध्यते समवायसम्बन्धेन समवाया-३४८ १ ख्येन सम्बन्धेनेति अयुतसिद्धिहेतुना संयोगाद् युतसिद्धिहेतोरस्य विशेषं दर्शयति, तस्मिन्नेव काले सत्तादिभिरपि 'सम्बध्यते' इति वर्तते । य एव कारणैः कार्यस्य समवायः स एव सत्ताद्रव्यत्वादिभिरप्येकः समवायः कालस्याभिन्नत्वात् । तस्मादप्रविभागः, तद् यस्माद् नास्त्यत्र कालप्रविभागो निष्ठासम्बन्धयोः तस्मात् 'प्राक्' इत्येतदेव नोपपद्यते कार्योत्पत्तेरसतः सदादिरनास्पदो विकल्प इति, सता कार्येणासता सदसता वा सत्तायाः सम्बन्ध इत्यर्थाभावात् किमाश्रयोऽसौ विकल्पः स्यात् ? इति तांत्रीनपि 20 विकल्पाननाश्रित्य निष्ठासम्बन्धयोरेककालत्वविकल्पो निर्दोष आश्रीयतामिति ।
अत्रोच्यते-एतदपि न, अनुपपन्नविकल्पत्वात् । एषोऽपि विकल्पो नोपपद्यते, तदनुपपत्तेर्न दोषपरिहारः कृतः । कथमनुपपन्नोऽयं विकल्प इति चेत् , असम्बन्धात् , असम्बन्धोऽप्यवस्तुत्वात् , खपुष्पस्यावस्तुनः केनचित् सम्बन्धो नास्ति तथा प्रागुत्पत्तेरसतः कार्यस्य सम्बन्धो नास्ति । तस्य च कार्यस्य परिनिष्ठां गच्छतोऽसत्त्वादवस्तुत्वम् , कथं चावस्तुनः कारणैः सत्तया वा सम्बन्धः ? 'परिनिष्ठां गच्छत्' 25 इत्युत्पद्यमानमसदेवालब्धात्मकत्वात् तत् कार्यं तस्यामवस्थायां स्वकारणैः सत्तया वा न सम्बध्यते अवस्तुत्वात् खपुष्पवत् । यदि तस्य स्यात् खपुष्पस्यापि स्यात् , यदि कार्य परिनिष्ठां गच्छदनिष्पन्नमसत् कारणैः सत्तया च सम्बध्यते ततः खपुष्पमपि परिनिष्ठां गच्छत् स्वकारणैः सत्तया च सम्बध्येत, अवस्तु-३४८-२ त्वात् कार्यवत् । तस्मादयमपि विकल्पः 'असत् सत्तया सम्बध्यते' इत्येतद्विकल्पान्तःपात्येवेति ।
१ स चेको प्र० । ( स त्वेको ? ) ॥ २ तद्यस्माद् प्र. । ( तस्मात् ? )॥ ३ कार्ययोत्प य० ॥ ४°ल्पान् नाश्रित्य प्र० ॥ ५ इत्युद्यमान भा० । अत्र इत्युच्यमान इत्यपि पाठः स्यात् ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org