________________
५०८
भ्यायागमानुसारिणीवृत्त्यलङ्कतम् [ सप्तम उभयोभयारे __तस्मादेकान्तिकपक्षयोरयुक्तत्वाद् युक्तमेतत् प्राक् सदसदेव प्रादुर्भवतीति ।
यदपि चोक्तम्-विकल्पत्रयानाश्रयाद् विकल्पान्तराश्रयणाच 'विकल्पानुपपत्तेः' इति न दोषः, निष्ठासम्बन्धयोरेककालत्वात् । निष्ठा कारणसामग्र्यव्यापार
घटः, निष्पादकाः कुलालदण्डादयः, कुलालमृद्दण्डाद्यस्तित्ववद् घटास्तित्वात् किं दण्डादिना हेतुना क्रियते, 5न वा तुर्यादिना ? मृद एव मार्दवादिशक्तिर्न वज्रादेः, मृदेवोपादानं घटस्यानिष्पन्नत्वात् न तु निष्पन्नघट इति विशेषो नास्ति, सत्त्वाविशेषात् । इति प्रसङ्गपरिसमाप्त्यर्थः, तदुपसंहरति - अतश्चायुक्तं सत्कार्यत्व
मेवेति । ततः किमायातम् ? इदमायातम् - असत्कार्यायुक्तत्ववत् सत्कार्यत्वमप्यैकान्तिकं न युक्तम् । ३४७.२ तस्मादैकान्तिकपक्षयोस्तयोरयुक्तत्वाद् युक्तमेतत् प्रतिपत्तुं प्राक् सदसदेव प्रादुर्भवतीति
स्याद्वादिन उपसंहरन्ति । एकान्तपक्षयोर्दोषदर्शनादनेकान्तपक्षे चादोषदर्शनात् सदसदेव कार्यमव्यक्तसद् 10 व्यक्तसद् भवतीति स्थितमेतत् - त्रिधापि विकल्पानुपपत्तेः सत्तया न सम्बध्यते कार्यमिति ।।
यदपि चोक्तमित्यादि । एतद्विकल्पपक्षत्रयपरिहारेण निर्दोषाभिमतं विकल्पान्तरमाश्रित्य यदुच्यते त्वया 'विकल्पानुपपत्तेः' इति नासौ दोषः, विकल्पत्रयानाश्रयाद् विकल्पान्तराश्रयणाच्च । कस्माद् विकल्पान्तरादिति चेत्, 'निष्ठासम्बन्धयोरेककालत्वात् । का निष्ठा ? इत्यत आह - निष्ठा कारण
१“कथं तर्हि गोत्वं गोषु वर्तते....गवि अगवि वृत्त्यभावादिति चेत्, अथ मन्यसे यदिदं गोत्वं गोषु अनुवृत्तिप्रत्यय. कारणं तत् किं गवि वर्तते आहोखिदगवि ? यदि तावद् गवि, प्राग् गोत्वयोगाद् गौरेवासाविति व्यर्थ गोत्वम् । अथागवि, अश्वाद्यपि गोत्वयोगाद् गौः प्राप्नोति । न चान्या गतिरस्ति । तस्मान्न गोत्वादनुवृत्तिप्रत्यय इति । न, विकल्पानभ्युपगमात् । न गवि गोत्वं नागवि, प्राग् गोत्वयोगान्नासौ गौ प्यगौरिति । किं कारणम् ? उभावेतौ विशेष्यप्रत्ययौ न विशेषणसम्बन्धमन्तरेण भवतः, न च प्राग् गोत्वयोगाद् वस्तु विद्यते न चाविद्यमानं गौरित्यगौरिति च शक्यं व्यपदेष्टम् , यदैव वस्तु तदैव गोत्वेनाभिसम्बध्यते इत्यनास्पदो विकल्पः । एतेन सत्तासम्बन्धस्य सदसद्विकल्पो व्याख्यातः, न सतः सत्तासम्बन्धो नासतः, यदैव तद् वस्तु तदैव सत्तया सम्बद्धमिति सदसदाश्रयो दोषोऽनुपपन्न इति । तस्मादुपपन्ना जातिः।" इति उच्योतकरविरचिते न्यायवार्तिके २।२।६५ । “अथास्तु सामान्यादावुपचरितं द्रव्यादौ मुख्यं 'सत् सत्' इति ज्ञानम् , सत्तासम्बन्धस्तु विकल्पते-किं सत्ता सताम् , अथासताम् ? इति । यदि सताम् , अथ सत्तासम्बन्धात् पूर्व सत्त्वं सत्तासम्बन्धेन विना चेति । सत्तासम्बन्धाभ्युपगमे तत्राप्ययं विकल्प इत्यनवस्था । विनेति चेत्, किं सत्तया? अथासता सत्तासम्बन्धात् सत्त्वमिति, अपारमार्थिकं तर्हि सत्त्वमुपाध्यपेक्षित्वात् , सदिति चासतां सत्तासम्बन्धेन सत्त्वं खरविषाणादीनामपि सत्त्वं स्यात् असत्त्वाविशेषात् । तथा सत्तायाश्चासत्त्वेन तद्योगान्न द्रव्यादिषु सत्त्वं स्यात् , खरूपेण च सत्त्वे द्रव्यादिषु तथा प्रसङ्गः, सत्तासम्बन्धेन चानवस्थेति । अतोऽर्थक्रियाकारित्वेन सत्त्वमिति शाक्या मन्यन्ते । वर्तमानकालसम्बन्धित्वेनेत्यपरे। तत्र यत्तदवोचाम किं सतां सत्तासम्बन्धात् सत्त्वमथासतामिति तदसत् , निष्पादसम्बन्धयोरेककालत्वात् । तथाहि-पदार्थानां स्वकारणसत्तासम्बन्ध एवोत्पत्तिः, न पूर्व सत्त्वम् , सत्कार्यवादप्रतिषेधात् । न चासतां खकारणसत्तासम्बन्धाभ्युपगमे खरविषाणादिषु तथाभावप्रसङ्गः, तदुत्पत्तिकारणाभावस्य तदभावेनैव निश्चयात् । नित्येषु पूर्वापरभावानुपपत्तेर्विकल्पानुपपत्तिः । न चापारमार्थिकं सत्त्वम् , सत्तासम्बन्धस्य परमार्थत्वात् । [पृ० १२६]....." .........अथ किमिदं कार्यत्वं नामेति? स्वकारणसत्तासम्बन्धः, तेन सता 'कार्यम्' इति व्यवहारात् । अभूत्वा भवनमित्येके, अत्रापि अभूत्वा पश्चाद् भवनं स्वकारणैः सत्तया च सम्बन्ध एवेति । [पृ० १२९]..........यच्चेदं 'किं गौ!त्वेनाभिसम्बभ्यते, अथागौः' इति चोद्यं तन्न प्रतिसमाधानाहं निष्ठासम्बन्धयोरेककालत्वादिति । खकारणैः सत्तादिभिश्च पिण्डस्याभिसम्बन्ध एवात्मलाभः, न पूर्व तस्य गोरूपता अगोरूपता वा तत्सत्त्वस्यैवासम्भवात् ।” [पृ० ६९० ] इति व्योमशिवाचार्यविरचिताया प्रशस्तपादभाष्यटीकायां व्योमक्त्याम् ॥
mwwwammmmmmwww.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org