________________
प्राण निष्पत्तेरसत्कार्यपादनिरासः] द्वादशारं नयचक्रम्
५०७ ते । यथा सत्तासम्बन्धादेव द्रव्यादी कार्ये नियता निश्चिता सत्त्वान्तरेभ्यो विविक्तत्वात् सत्तायाः अधिका पुनर्भवनात्, एवमुपादाननियमस्वसत्तानियता तण्डुलविचयवत् क्रियाया व्यापारेण निश्चिता युगपदयुगपत्पर्यायक्रमतथाभूतेरधिका निष्पत्तिरिहापि।
तस्मात् सदसत्क्रियागुणत्वात् सदसत एव क्रियागुणव्यपदेशाः । अन्यथा हेतुशक्त्युपादानानामभिधानमात्रप्रसङ्गः, असत्त्वाविशेषात् ।।
यस्य तु विद्यमान एवार्थः........ एतेषामर्थानामभावादभिधानमात्रप्रसङ्गः निष्पाद्यनिष्पादकत्वाविशेषादिति । अतश्चायुक्तं सत्कार्यत्वमेवेति ।
मेव । कस्मात् ? पद्यतेः सत्तार्थत्वात् । सा च ते त्रिप्रकारापि तवैव । तद्यथा-सत्तासम्बन्धादेव द्रव्यादौ कार्ये नियता कारणसमवायस्य सामान्यस्य च नित्यत्वात् , निश्चिता द्रव्यत्वगुणत्वकर्मत्व- 10 घटत्वरूपत्वोत्क्षेपणादिसत्त्वान्तरेभ्यो विविक्तत्वात् सत्तायाः, अधिका पुनर्भवनात् कार्यस्य त्वन्मतेनैव कारणसमवाये जन्माभ्युपगमात् । एवं तावद् दृष्टान्तस्य कार्यद्रव्यादित्रयस्य निष्पत्तिनिरूपा व्याख्याता । दार्टान्तिककार्यस्याधुना - उपादाननियमस्वसत्तानियता, मृदाद्युपादाननियमेन घटादेः स्वसत्ता विद्यते, तया सत्तया नियता मृधेव घटनिष्पत्तेः, तत्त्वतोऽसौ घटत्वेन निश्चिता पटत्वादिव्यावृत्त्या, तद्यथातन्दुलविचयवत् , विचिता निश्चितास्तण्डुलाः कचवराद्यैपनयनेन स्वरूपपरिग्रहेण च, 'क्रियाया व्यापा-15 रेण परिस्पन्देन अनिष्पत्तेः सकाशाद् निश्चिता अपनीता घटनिष्पत्तिः स्वरूपपरिग्रहेणेत्यर्थः । अधिका युगपदयुगपत्पर्यायक्रमतथाभूतेः, ये प्रोग् युगपद्भाविनो रूपादिपृथुबुध्नादिपर्यायाः पिण्डशिवकादयो नव-मध्यम-पुराणतादयश्चायुगपद्भाविनः तेषां क्रमेण शिवकादिकरणविधिना तथाभूतेः तेन प्रकारेण भवनादधिका निष्पत्तिरिहापीति । तस्माद् दृष्टान्तभूतस्य द्रव्यादित्रयस्य कार्यस्य निष्पत्तिवदव्यक्तसद् व्यक्तसद् ३४७-१ भवतीति समानमुपादाने सतः कार्यस्येति गतमानुषङ्गिकम् । स्थितं प्रागुक्तं सदसत्त्वं कार्यस्य । 20
तस्मात् सदसत एव क्रियागुणाः, तद्भावात् सदसत्क्रियागुणत्वात् सदसत एव क्रिया-गुणव्यपदेशाः। अन्यथा हेतुशक्त्युपादानानामभिधानमात्रप्रसङ्गः, यद्यसदेव कार्य स्यात् हेतोर्दण्डादेः मर्दनादियोग्यसायाः शक्तेरुपादानस्य च मृदः, घटादौ मृदेवोपादीयते न तन्त्वादिरिति, एषां खरविषाणादिवदभावे 'अयमस्य दण्डादिहेतुः, इयमस्य शक्तिर्मार्दवादिर्घद्रव्यस्य, मृदेव घटस्योपादानम्' इति वचनमात्रमेवेदं सर्वं स्यात्, नार्थः कश्चित्, खपुष्पादिनिष्पत्त्यर्थक्रियाहेत्वाद्यभाववदसत्त्वाविशेषात् । 25
____ यदि तु सदेव कार्यं स्यात् तत्रापि स एव दोष इत्यत आह - यस्य तु विद्यमान एवार्थ इत्यादि गतार्थं यावदेतेषामर्थानामभावादभिधानमात्रप्रसङ्गः निष्पाद्यनिष्पादकत्वाविशेषादिति । निष्पाद्यो
१°सत्वा प्र० ॥ २ कार्यादित्रयस्य प्र० ॥ ३°धनयनेन प्र० ॥ ४ क्रिया व्यापा भा० । ( क्रियया व्यापा° ? ) ॥५ प्राग् गनुपद्भा भा० । प्रागनुपद्भा य० । ( ये प्राग् न युगपद्भाविनो! ) ॥ ६ ( दण्डादिहेतुः ?.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org