________________
५०६
न्यायागमानुसारिणीवृत्यलङ्कृतम्
[ सप्तम उभयोभयारे
वत्' इति अस्यापि विरुद्धत्वम्, सदेव भवति कार्यम्, प्रागभूतक्रियागुणव्यपदेशत्वात्, सत्ताऽसम्बन्धिद्रव्यादिवत् । अनैकान्तिकता च, असति च खपुष्पादौ सतिच जातमात्रे कार्यत्रये दृष्टत्वात् । ननु खपुष्पवदनेकान्तः, न, प्राविशेषणापक्षिप्तप्रसङ्गत्वात् । ननु..
"सदेव तु द्रव्यं न कार्यम् । नेनु निष्पत्ति: । निष्पत्तिशब्दो हि.... । प्रभूतस्य त्रिप्रकारा निष्पत्तिः नियता निश्चिता अधिका वा भवनमेव
5
तोर्विरुद्धत्वं दोष इत्याचार्य आह । अयमेव ते उपचयहेतुः परपक्षसाधनाय, सदेव भवति कार्य जायते व्यज्यत उत्पद्यते, प्रागभूतक्रियागुणव्यपदेशत्वात्, सत्ताऽसम्बन्धिद्रव्यादिवत्, सविशेषणं स्वपक्षसाधनं वेदम् । यथा द्रव्यगुणकर्माख्यं कार्यत्रयं स्वभावसत् त्वन्मतेनैव यावत् सत्तया न सम्बद्धं तावत् ३४६-१ क्रियागुणव्यपदेशभाग् न भवति अथ च विद्यते स्वकारणेषु समवेतमात्रं तथेदं समवेतकार्यमित्यस्मन्मतसिद्धिः । 'अनैकान्तिकता च ' क्रिया-गुण- व्यपदेशाभावात्' इत्यस्य हेतोरेंसति च खपुष्पादौ सति च जातमात्रे कार्यदृष्टत्वात् 'असदेव' इति सन्दिग्धम् ।
10
इतर आह- ननु खपुष्पवदनेकान्तः । ' प्रागुत्पत्तेरसत् कार्यमभूतक्रियागुणव्यपदेशत्वात् खपुष्पवत् स्यात्, उपजातमात्रद्रव्यादिवत् सत् स्यात् ?' इति त्वत्साधनमपि संशयकारीति चेत् । एतच्च न, 15 प्राग्विशेषणापक्षिप्तप्रसङ्गत्वात् । स्यादयं प्रसङ्गो यद्यविशेष्य 'क्रियागुणव्यपदेशाभावात् सत् कार्यम्' इत्येतद् ब्रूयाम्, किं तर्हि ? 'प्रागभूतक्रियागुणव्यपदेशत्वात्' इति मया विशेष्योक्तम्, यस्य प्रागभूतः क्रिया गुणव्यपदेशः पश्चाद् भविष्यति तत् सदेव, यथा तदेवोत्पन्नमात्रद्रव्यादि, न तु यस्य 'प्राक् पश्चात् ' इति कालाविभागेनैवासत्त्वं खपुष्पादेरिति । अतः प्राग्विशेषणाद पक्षिप्तोऽनैकान्तिकत्वप्रसङ्गोऽस्य हेतोरिति । अत्राह - नन्वित्यादि यावत् सदेव तु द्रव्यं न कार्यमिति । मया 'प्राग् निष्पत्तेरसत् कार्यम्' 20 इति कालविशिष्टं 'यावदनुत्पन्नं तावद् नास्ति' इति प्रतिज्ञाय 'क्रियाद्यभावात्' इति हेतुरुक्तः, स तु निष्पन्ने द्रव्ये नास्ति, तस्मात् साधनधर्मवैकल्यादयुक्तो दृष्टान्त इति ।
अत्र ब्रूमः - ननु निष्पत्तिरित्यादि । ननु 'निष्पत्तेः प्राक्' इत्युक्तेऽपि निष्पत्तेरुत्पत्यभूत्वाभावादिसमानार्थत्वादव्यक्तसद् व्यक्तसद् भवतीत्युक्तं भवति । तद्यथा - अनुपनिलीनसत्त्वं च तद् द्रव्यादित्रयं जातमात्रं सत्तोपनिलयनात् प्रागनिष्पन्नं सत्तासामान्येन सत् सत्तासमवायात् सद् भवति व्यक्तसद् 25 भवतीत्येषोऽर्थो निष्पत्तिशब्दस्येति । अत आह - निष्पत्तिशब्दो हीत्यादि । तद्वयाख्यानम् - प्रभूतस्य प्रारब्धभवनस्य त्रिप्रकारा निष्पत्तिः, तद्यथा - नियता निश्चिता अधिका वा । का सा ? भवन
३४६-२
१ 'ननु मया प्राग् निष्पत्तेरसत् कार्यं क्रियागुणव्यपदेशाभावात्' इत्युक्तम्, सदेव तु द्रव्यं न कार्यम् । इत्येतादृशं मूलमंत्र भाति ॥ २ 'ननु निष्पत्तिरुत्पत्तिरभूत्वा भावः 'अव्यक्तसद् व्यक्तसद् भवति' इत्युक्तं भवति । अनुपनिलीनसत्त्वं च द्रव्यादित्रयं जातमात्रं सत्तासामान्येन सद् भवति । निष्पत्तिशब्दो हि भवनस्य सत्ताया वाचकः' इत्याशयः स्यादिति भाति ॥ ३ सत्तासम्बन्धि प्र० ॥ ४. चेदम् य० ॥ ५ संबंधं प्र० ॥ ६ भाग् भवति प्र० ॥ ७ रति च प्र० ॥ ८ ब्रूयात् प्र० ॥ ९ तथेव भा० । (तत्रैवो ? )
१० ख्यान प्रभू प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org