________________
प्राग् निष्पत्तेरसत्कार्यवादनिरासः] द्वादशारं नयचक्रम्
५०५ अथ कथं तन्तुतुर्यादेरेव कारणत्वेनोपादानं पटनिर्वृत्ती, न पांशुवास्यादेः? तस्यैव समर्थत्वात् तथा तथा पटादिकार्य तन्तुषु वर्तते तथा अंशुषु तथा पक्ष्मतुटिरेणुपरमाणुषु तथा तुर्यादिष्वपि, पांखादिष्वपि च, कारणकारणत्वादणुवत् ।
योऽप्युपचयहेतुः 'प्राय निष्पत्तेरसत् कार्य क्रियागुणव्यपदेशाभावात् खपुष्प
अस्य व्याख्यानम् - अथ कथं तन्तुर्यादि यावत् कारणकारणत्वादणुवत् वैशेषिकमेव । पृच्छंस्तेनैव व्याख्यापयति । तुर्यादेरेव कारणत्वेनोपादानं पटनिवृत्तौ न पांशुवास्यादेरिति करणाधिकारपरिग्रहादेव सत्कार्यत्वं तस्यैव समर्थत्वात् तथा तथा तेन तेन प्रकारेण तत्तन्नियतनिजशक्तियुक्तार्थसमर्थत्वात् , पटादि कार्य तन्तुषु वर्तते, तन्तुकारणेषु तेथांशुषु प्रकारान्तरेण पटकारणभावं बिभ्रत्सु, तथा पक्ष्मतुटि-रेणु-परमाणूनामपि यथास्वशक्ति प्रकारान्तरैः पटकारणत्वात् पारम्पर्येण तत्र तत्रास्त्येव पटः तत्समवायव्यङ्ग्यत्वात् तदात्मकत्वाच्च । असमवायिपटोऽपि संयोगव्यङ्ग्यत्वात् संयोगिद्रव्येभ्यः संयोगस्याभिन्नत्वाद् 10 द्वथणुकत्र्यणुकाद्यनन्तप्रदेशस्कन्धसंयोगत्वपरिणतद्रव्याभेदात् त एव परमाणवः पटः, यथा “संयोगिषु ३४५-२ पटकारणेषु तदात्मकत्वात् पटत्वं तथा तत्कारणपरमाणूनाम् । तथा तुर्यादिष्वपि, तुरि-वेम-शलाकाऽश्चनिका-विलेखनिकादीनां कुविन्दप्रयत्नोत्थापितव्यापाराणां पटत्वं तदात्मकत्वाद् द्रव्याभेदात् । पांस्वादिष्वपि च भूम्यम्बुमारुतानलाकाशबीजसंयोगनिष्पाद्यकर्पासात्मकत्वात् पटत्वं सिद्धम्, तत्कारणकारणत्वात् परमाणुवत् । एवं तावत् कार्यसंदसत्त्वप्रतिषेधो न सिध्यति प्रतिषेधहेत्वयुक्तेः सदसत्त्वै-15 कात्म्यसाधनसौ स्थित्यप्रदर्शनाच्च सदसदेव कार्यमिति ।
किश्चान्यत् , योऽप्युपचयहेतुरित्यादि तेन किल सदसत्त्वनिषेधं कृत्वा कार्यासत्त्वसाधनार्थमुपचयहेतुरुक्तः, तद्यथा- प्राग् निष्पत्तेश्च कार्यस्याभावात् । कथम् ? इति तदुच्यते-क्रिया-गुण-व्यपदेशाभावात् । क्रिया त्वक्त्राणादिका पटस्य तन्त्ववस्थायां गुणाश्च संयोगपरिणामादयः व्यपदेशश्च शब्दान्तरं लिङ्ग वा न सन्ति, तस्मात् क्रियागुणव्यपदेशाभावात् प्रागुत्पत्तेरसत् कार्य खपुष्पवदिति । अस्याप्युपचय- 20
१ नयचक्रवृत्तौ पाठस्याशुद्धत्वसन्देहादत्र मूले सन्देहः । नयचक्रवृत्तिपाठस्य समञ्जसत्वे तु 'अथ कथं तन्तुतुर्यादि एव पटनिवृत्तौ कारणम् , न पांशुवास्यादि ?' इत्यपि मूलं स्यादत्र ॥ २ अत्र तुर्यादेरित्यादि इत्यपि पाठः स्यात् ॥ ३ (तन्तुतुर्यादेरेव?)॥ ४ तथा तेन भा०॥ ५ तथासुषु भा०। तथातंतुषु य० ॥ ६ धनंतांतप्रदेश भा० । 'आदि'शब्दस्य 'अन्त'शब्दस्य च परस्परमभिसम्बद्धत्वाद् 'व्यणुकत्र्यणुकादि' इत्यत्र 'आदि'शब्दः, 'अनन्तान्त' इत्यत्र च 'अनन्त'इत्यनन्तरम् 'अन्त'शब्दः, इति विवक्षायां भा० प्रतिपाठोऽपि साधुरेवेति ध्येयम् ॥ ७संयोगेषु प्र.॥ ८ “दव्वकारणं दुविहं - तद्दव्यकारणं अन्नदब्वकारणं च । तद्रव्यकारणं घटस्य मृत्पिण्डः, अन्यद्रव्यकारणं चक्रदण्डसूत्रोदकपुरुषप्रयत्नादयः । अथवा द्रव्यकारणं द्विविधं समवायिकारणमसमवायिकारणं च । समवातिकारणं पटस्य तन्तवः, तंतुसु पडो समवेत इति । असमवायिकारणं वेमनलकाअंछनिकातुरिविलेखनादीनि । अहवा निमित्तकारणं च नैमित्तिककारणं च, कडस्स वीरणा निमित्तं, नैमित्तिकानि पुरुषप्रयत्नरज्जुकीलकादीनि । एवं घटपटादीनामपि।” इति जिनदासगणिमहत्तरविरचितायाम् आवश्यकचूणौ, गा० ७३६, पृ० ३७२ ॥ ९ सदसदसत्त्व प्र०॥ १०॥ एतचिह्नान्तर्गतः पाठो य. प्रतौ नास्ति ॥ ११ (भावः, कथम् ?)॥
नय०६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org