________________
५०४
न्यायागमानुसारिणीवृत्त्यलकृतम् [सप्तम उभयोभयारे .. यदपि चोपादाननियमसत्त्वप्रतिषेधार्थमुत्तरम् -प्राक् प्रसिद्धव्यापारयोग्यद्रव्योपादानं क्रियानिमित्तं न कार्यसत्त्वनिमित्तम् । अथास्य व्यापारनियमः कुतः १:....'न सिध्यति ।
. समर्थस्य करणेऽधिकारपरिग्रहात् स इति चेत्, समर्थस्यैव कार्यक्रियायाम् 5 ... 'असदेव कार्यम् । एकीभावगतार्थस्य समर्थत्वात् सत्कार्यत्वमेव ।
यदपि चोपादाननियमसत्त्वप्रतिषेधार्थमुत्तरैमित्यादि । कर्तृ 'कारणम्', कर्म 'कार्यम्' इति क्रियानिमित्तको शब्दौ, तत्र प्राक् प्रसिद्धव्यापारयोग्यद्रव्योपादानं तत् क्रियानिमित्तम् , न कार्यसत्त्वनिमित्त । अत्र स्याद्वादी किल पृच्छति-- अथास्य व्यापारनियमः कुत इत्यादि यावद् न सिध्यति ।
अत्र वैशेषिकपक्ष आशङ्कयते -समर्थस्य करणेऽधिकारपरिग्रहात् स इति चेत् । एतस्य ३४५-१ "io व्याख्या-समर्थस्यैव कार्यक्रियायामित्यादि कारणनिदर्शनो ग्रन्थो गतार्थो यावदसदेव कार्यमिति
एतत् किलोपादाननियमकारणत्वेन उत्तरमसत्कार्यवादिनः । अत्राचार्यस्तदुत्तरमाह - एकीभावगतार्थस्य समर्थत्वात् सत्कार्यत्वमेव, ननु त्वयैव समर्थस्य करणेऽधिकारपरिग्रहादुपादाननियमः इति ब्रुवता सत्कार्यत्वं समर्थितम् , सङ्गतार्थ समर्थम् , एकीभावं गतो योऽर्थः स समर्थः साध्येन साधनाख्यः, तद्भावादे. कीभावगतार्थस्य समर्थत्वात् सत्कार्यत्वमेव नासता खरविषाणेन सह कस्यचित् सामथ्यं तस्य वा केनचिदु15 पपद्यत इति ।
१ "प्राग निष्पत्तनिष्पत्तिधर्मकं नासत् , उपादाननियमात् । कस्यचिदुत्पत्तये किञ्चिदुपादेयं न सर्व सर्वस्येत्यसद्धावे नियमो नोपपद्यत इति।" इति न्यायभाष्ये ४।१।४८॥ २'समर्थस्यैव कार्यक्रियायामधिकारपरिग्रहादुपादाननियमः, तस्मादसदेव कार्यम् ।' इत्याशयो भाति । दृश्यतां पृ. ५०४ टि० १५॥ ३ “यत् पुनरुक्तं प्रागुत्पत्तेः कार्य नासदुपादाननियमादिति, बुद्धिसिद्धं तु तदसत् [न्या० सू० ४।१।५०], इदमस्योत्पत्तये समर्थ न सर्वमिति प्रागुत्पत्तेर्नियतकारणं कार्य बुझ्या सिद्धमुत्पत्तिनियमदर्शनात् । तस्मादुपादाननियमस्योपपत्तिः । सति तु कार्ये प्रागुत्पत्तरुत्पत्तिरेव नास्ति ।" इति वात्स्यायनप्रणीते न्यायभाष्ये । “यत् पुनरेतत् नासदुपादाननियमादिति, बुद्धिसिद्धं तु तदसत् [न्या. सू० ४।१।५० ], नायं सवादुपादाननियमः, अपि तु सामर्थ्यात् । 'इदमनेन शक्यं निवर्तयितुं नेदमनेन' इत्येवं बुद्धिसिद्धं कार्यं कृत्वा यद् यस्योत्पत्तये समर्थ तत् तस्योपादीयते न सर्व सर्वस्य, न सर्वस्मात् सर्वमुत्पद्यमानं दृष्टमिति । अथोत्पत्तिनियमेन' कार्यनियमेन कार्यकारणनियम प्रतिपद्यते तेनापि कार्यकारणशब्दयोरर्थो वाच्यः, किमुक्तं भवति कारणमिति किमुक्तं च भवति कार्यमिति । ननु करोतीति कारणं क्रियत इति कार्यम् । यद्यभिव्यक्तिः पूर्ववत् प्रसङ्गः । अथ विद्यमानेष्वपि करोत्यर्थो दृष्ट इति मन्यसे यथा 'केशान् कुरु, पृष्ठं कुरु' इति । न तत् , विद्यमानानां हि रचनाविशेषः क्रियते पश्चात् , पृष्टस्यापि मलापगमोऽविद्यमानः, इति न विद्यमाने कारणार्थ जात्वपि पश्याम इति । तस्मादसदेतत् ।” इति उक्ष्योतकरविरचिते न्यायवार्तिके। “यच्चोक्तमुपादाननियमादिति तत्र यदि पुरुषस्योपादाननियमः पटार्थी तन्तूनेवोपादत्ते न वीरणं कटार्थी वीरणमिति ततस्तदुपादानानां तत्र तत्र कार्ये सामर्थ्यपरिज्ञानात् । तच्च सामर्थ्यमानुमानिकम् । तदिदमुच्यते-बुद्धिसिद्धं तु तदसत् [न्या. सू० ४।१।५०] इति तदसद्भावि कार्यमनेनैव कारणेन जन्यते नान्येनेत्यनुमानाद् बुद्धिसिद्धमेवेत्यर्थः । अथासत्कार्यपक्षे तन्तव एव पटस्योपादानं न वीरणादीत्ययं नियमो न स्यादिति ब्रूषे तदयुक्तम् , असत्त्वाविशेषेऽपि खकारणादुत्पन्न किञ्चिदेव किश्चित् कार्य जनयितुं समर्थ नान्यदित्ययं स्वभावविशेषादुपपद्यत इति" इति वाचस्पतिमिश्रविरचितायां न्यायवार्तिकतात्पर्यटीकायाम् ॥४ नैमित्तिको प्र०॥ ५ अर्थस्य य० । अथस्य भा०॥ ६॥ एतच्चिदान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ७योऽर्थः असमर्थः प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org