________________
कटन्दीकारविहिताक्षेपस्य परिहारः] द्वादशारं नयचक्रम्
५०३ स्मनः कर्तव्यत्वादसदेव कार्यम् । तस्मान्न प्रागुत्पत्तेः सदसत् कार्यम् [वै० सू० कटन्दी] इति।-एतदपि नैव, असत्कार्यत्वसिद्धिवत् सत्कार्यत्वसिद्धेः....सत्कार्यत्वम् । न हि घटतायां मृत्तत्त्वस्याभावः । मृद आत्मैव घटात्मा, तत्त्यागे तत्वरूपानुपपत्तेः, अतीतानागतवर्तमानविचित्रविशेषाध्यासिस्वभावसद्भूतमृत्त्ववत् अतीतानागतवर्तमानविचित्र विशेषाध्यासिखभावसद्भूतघटवद् वा । एतेन सर्वोऽस्याद्वादः प्रत्युक्तः।
।
10
यावत् तस्मान्न प्रागुत्पत्तेः सदसत् कार्यमिति गतार्थम् । अत्रोत्तरमाचार्य आह - एतदपि नैव, असकार्यत्वसिद्धिवत् सत्कार्यत्वसिद्धेरित्युपक्रम्य भावना यावत् सत्कार्यत्वमिति । यथा मृद्भावादप्रच्युतस्य घटस्य मृद्भावेनानुत्पाद्याविनाश्यस्य सत एव घटविवक्षया कर्तव्यत्वादसत्त्वमिष्टं त्वया तथाऽकर्तव्यत्वात् सततमप्रच्युतस्यातकस्य घटादिशिवकादिकर्तव्यात्मनो मृत्तत्त्वस्य मृत्तत्त्वविवक्षया कर्तव्यत्वाभावात् 'सदेव कार्यम्' इति कस्माद् नेष्यते ?
न हि घटतायामित्यादि, शिवकादिवद् मृत्तत्त्वस्य घटस्य मृत्तत्त्वस्याभावे यद्यवस्थानं स्यादसन् घटः प्राक् पश्चाज्जायत इति स्यात् , तत्तु नास्ति, यस्माद् मृद आत्मैव घटात्मा । कस्मात् ? तत्त्यागे तत्स्वरूपानुपपत्तेः, यत्त्यागे यत्स्वरूपानुपपत्तिः स तस्यैवात्मा । अतीतानागतेत्यादि यावद् मृत्त्ववत् , यथा {त्पिण्डस्यातीतानागतवर्तमानेषु कालेषु ये विशेषाः शीतोष्णत्वादयः साशुष्कखण्डितशकलादयश्च ३४४-३ विचित्रास्तानध्यास्ते स्वभावो यस्य मृत्त्वस्य तत् तत्स्वभावम् , स एव सद्भावः परमार्थः, स एव परमार्थो 15 भूतं मृत्तत्त्वं तान् विशेषान् विहाय न प्रवर्तते तेऽपि च तदिति स एवात्मा विशेषाणां मृत्त्वस्य [च] तथा घटात्मा मृद एवात्मा । अथवा अतीतानागतवर्तमानविचित्रविशेषाध्यासिस्वभावसद्भूतघटवदिति द्वितीयमुदाहरणंम् , सैव व्याख्या । मृद आत्मा घटस्यात्मा घटस्यात्मा मृद आत्मेति द्विधापि प्रतिज्ञायते तेनैव हेतुना अनेनापि दृष्टान्तेनेति ।
____एतेन सर्वोऽस्याद्वादः प्रत्युक्तः । कार्यसदसदात्मकैकवस्तुप्रतिपादनात्मकेन तदेकान्तप्रतिषेधा-20 त्मकेन च यत्नेन नित्यानित्यायेकान्तवादः सर्वः प्रतिषिद्धो बोद्धव्यः 'उपादाननियमस्यासति सति च क्रियाया असम्भवाद् नित्यानित्यैकनानाकार्यकारणसर्वासर्वगतत्वादिरस्याद्वादः । नित्यत्वेनानित्यत्वमनित्यत्वेन च नित्यत्वमेकान्तरूपं बाध्यते, सापेक्षं च सर्व सिध्यति, तद्यथा-सदा सत्त्वाद् नित्यत्वम्, सदा सत्त्वं द्रव्यार्थात् , नैकान्तानित्यत्वमतः । सदा चासत्त्वादनित्यत्वम् , सदा चासत्त्वं पर्यायार्थत्वात् , अतश्च नैकान्तनित्यत्वमिति ।
25
१ सदसदसत्कार्य भा० । दृश्यतां पृ० ५०० टि० ३ ॥ २ भावानां प्र०॥ ३ तथा कर्तव्य प्र० ॥ ४कृतकर्घटा पा० वि० भा० । कृतघटा डे० २० ॥ ५मृत्वस्या भा० ॥ ६ यत्स्वरूपा प्र० ॥ ७ मृत्त्वंडस्य भा०। (मृत्खण्डस्य ? )॥ ८ परमार्थः य० प्रतिषु नास्ति ॥ ९ सभाव प्र०॥ १० णं स्यैव व्या भा० । 'जस्यव व्या य०॥ ११ मृवात्मा य०॥ १२ सर्वास्याद्वादः य०॥ १३ दृश्यता पृ० ४९५ पं. २०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org