________________
1
न्यायागमानुसारिणीवृत्यलङ्कृतम्
[ सप्तम उभयोभयारे
मृदादिरूपाद्यतीतानागतवर्तमान भेदाभेदार्थ पर्यायशब्दं सर्वाभेदभेदार्थ मृदात्मानं द्रव्यार्थ पर्यायार्थं घटात्मानं च द्रव्यार्थपर्यायार्थं च । द्रव्यं हि 'द्रव्यार्थघटोऽत्यन्तसन्, पर्यायस्तु · · असन् ।
इदमपि च कुतो मृद एव दर्शनम्, न पुनर्धृत्यादिवत् सङ्ग्रहादिदर्शनम् अनिर्देश्यं च ? कुत एतत् असत्त्वाद् घटात्मना 'असदेव कार्यम्' इति, न पुनर्मृत्तत्त्वघटसत्त्वात् तत्त्व एवानुभवक्रमप्राप्तेः तत्प्रत्यग्रादित्ववद् घटसत्त्वम् ?
यदपि चोच्यतेनं, असत्कार्यत्वसिद्धेः । एवं तर्हि मृदात्मनः कर्तव्यत्वाभावाद् घटा
५०२
कालेषु मृदादयः वर्तमानाश्व रक्तत्वादयो वृत्त हुण्डादयश्च ते च भिन्ना अप्यभिन्नाः स्वां मूर्तिमनतियर्तमानत्वादिति भेदाभेदार्थमेव द्रव्यशब्दं वर्णयन्ति । पर्यायशब्दं सर्वाभेदभेदार्थं 'तेष्वेव त्रिकालवर्तमान10 कालवर्तिषु जातिं भिन्दन्तं वर्णयन्ति । तस्मादुभयोरुभयार्थत्वम् । न केवलं शब्दार्थकथनमात्रादेवोभयार्थत्वम् । किं तर्हि ? वस्तुस्वरूपनिरूपणमपि क्रियते, तद्यथा - मृदात्मानं द्रव्यार्थ पयार्यार्थ वर्णयन्तीति सम्बध्यते । घटात्मानं च द्रव्यार्थपर्यायार्थं चेति । तयोर्यथाक्रमं व्याख्या द्रव्यं हीत्यादि द्रव्यार्थस्य यावद् द्रव्यार्थघटोऽत्यन्तसन्निति, घटस्यैव पूर्वोत्तरावस्था मृदादिव्रीहिबीजादिमूलादिर्भवतीति प्रागपि भावितार्थम्, पर्यायस्त्वित्यादि पर्यायार्थस्य यावदसन्निति तद्विपर्ययेण गतार्थम् । यथा च घटात्मा मृद15 प्येवं द्रव्यार्थ पर्यायार्थाभ्याम् |
इदमपि च कुत इत्यादि । यदुच्यते - 'निष्पन्नेऽपि घटे मृत्वदर्शनाद् मृदात्मकस्योपादानमिति, एषोऽपि विशिष्टपार्थिवत्त्वदर्शनेनैकान्तः कुतः सम्भवति सङ्ग्रहपक्तिव्यूहावकाशदानधर्म जलानलानिलगगनव्युदासेन धृत्यादिधर्मपृथिव्यात्मकतैवेति ? तत् प्रदर्शयति - न पुनर्धृत्यादिवत् सङ्ग्रहादिदर्शनमित्यादि तस्मिन् वस्तुनि विद्यमानसर्वधर्मदर्शनानि यावदनिर्देश्यं चेति । तस्माद् न मृद एव दर्शनमुभयथापि 20 यदि मृदि मृदात्मदर्शनम् अथ घटे मृदात्मदर्शनमिति ।
यदप्युच्यते – घटात्मना चासत्वात् क्रियोपपन्नेत्येवं किल आईत आह । अत्रापि कुत एतदित्या - युत्तरम् । नैवमाईतो ब्रूते - घटात्मनाऽसत्त्वादसदेव कार्यमिति, किं तर्हि ? सन्नपि घट ३४४-१ मृत्तत्त्वघटसत्त्वात् । तद्दर्शयति-असत्त्वाद् घटात्मनेति कुत एतत्, न पुनर्मृत्तत्त्वघटसत्त्वात्,
तत् पुनः सत्त्वं मृत्तत्त्वस्य घटस्य तत्त्व एवानुभवक्रमप्राप्तेः क्रमजन्मघटपर्यायानुभवः क्रमेण प्राप्यते 25 तत्त्वे द्रव्यार्थतोऽवस्थितस्वरूप एव वस्तुनि मृदाख्ये, तत्प्रत्यग्रादित्ववत् यथा घटस्य प्रत्यप्रेषन्मध्यममध्यपुराणतादिभावा घटतत्त्वे व्यवस्थितस्यैव तथैव मृत्तत्त्व एवानुभव क्रमप्राप्तेः घटसत्त्वम् । तस्मादाहतो - क्त्यपरिज्ञानादसाधूक्तम् ।
किचान्यत्, यदपि चेत्यादि । एतस्य पूर्वपक्षस्योत्तराभिप्रायेणोच्यते - न, असत्कार्यत्व सिद्धेरिति
१ दृश्यतां पृ० ४९९ पं०.७ ॥ २ तेष्वेवत्रिष्वेवत्रिकाल प्र० ॥ क्रिया प्र० ॥ ५ दृश्यतां पृ० ४९९ पं० ६ ॥ ६ 'पर्यानुभवः प्र० ॥
Jain Education International
For Private & Personal Use Only
३ स्वरूपणमपि प्र० ॥ ४ वात्म
www.jainelibrary.org