________________
५०१
कटन्दीकारविहिताक्षेपस्य परिहारः] द्वादशारं नयचक्रम् इत्थं पुनः कोऽनेकान्तवादी ब्रूयात् आपेक्षिकमृदात्मसत्त्वमसद्वादिवत् । आपेक्षिकमृदात्मसद्विशेषणात्तु असदभिधानमेवेदम् , अभिधेयस्वतत्त्वनिरसननियतत्वात्, अन्यनुष्णत्वाभिधानवत् । अव्युदासे तु घटात्मनापि सन्नेव तद्भावत्वात्।।
सदसदात्मकवस्तुतत्त्वप्रत्यक्षीकरणार्थ जैनाः एकमेवात्मानं परमार्थ द्रव्यार्थपर्यायाधुंभयलक्षणमुपवर्णयन्ति, खपुष्पवदन्यथाऽसम्भवात् । द्रव्यशब्दं च
३४३-१
15
ऽपीत्यसद्वादः । इत्थं पुनः कोऽनेकान्तवादी यात् यथासावसद्वादी ब्रूते - रूपं रसात्मना नास्ति रसोऽपि रूपात्मना कृष्णाद्यपि शुक्लाद्यात्मनेत्यादि ? न ब्रूयादेवेत्यर्थः । किं कारणम् ? धृतिसङ्ग्रहपक्तिव्यूहावकाशदानात्मकपृथिव्याद्यात्मकत्वाद् मृदादेर्घटादेश्च कथं मृदमेकामपेक्ष्य 'मृदात्मनैवास्ति' इत्यापेक्षिक[मृदा]मसत्त्वमसद्वादिवत् कः कुशलो ब्रूयात् इति सम्बध्यते । अत्र प्रयोगः - आपेक्षिकमृदात्मसद्विशेषणात् त्वसदभिधानमेवेदम् 'मृदात्मना सद् घटात्मना चासत्' इति वचनम् । कुतः ? अभि- 10 धेयस्वतत्त्वनिरसननियतत्वात् , अभिधेयस्य मृत्पिण्डस्य स्वं तत्त्वं देशभिन्नरूपरससंस्थानादि कालभिन्नरूपरसशिवकादिपांस्वादि धृत्यादिलक्षणभिन्नपृथिव्यादि च, मृदात्मनैवास्ति घटो न रूपादिशिवकार्थेबादिस्वतत्त्वैरिति तान्यस्य स्वतत्त्वानि सन्त्येव निरस्तानि स्युः, तन्निरसने नियतत्वादस्य वाक्यस्य । यद् यद् वाक्यमभिधेयस्वतत्त्वनिरसननियतं तत् तदसदभिधानं दृष्टम् , यथा 'अनुष्णोऽग्निः' इत्युक्तिः । 'अभिधेयस्वतत्त्वनिरसनमसिद्धम्' इति मा मंस्थाः, सिद्धमेवाबाद्यात्मव्युदसनात् ।
स्यान्मतम् – नावधार्य मृदात्मनैव सत्, नान्येन' इति ब्रूमः, किं तर्हि ? मृदात्मना तावत् सन् घटो यदि रूपादिपिण्डादिशिवकाद्यबाद्यात्मभिरपि भवेद् भवतु नाम तदात्मत्वात् , को दोषः ? इति । अत्र ब्रमः- अव्युदासे तु घटात्मनापि सन्नेव तद्भावत्वात् , ते भावा रूपादिशिवकार्येबादिव्रीह्यादयो घटादयश्चास्या मृदः, तद्भावभावस्तद्भावत्वम् , तस्मात् तद्भावत्वात् घटात्मना प्राक् कार्यमुत्पत्तेः सत् तदात्मत्वाद् घटात्मत्वात् अपिशब्दात् सर्वात्मकत्वाच्छिवकादिपांश्वादिव्रीह्याद्यात्मनापि सत् । तथा चासत्कार्यत्वानुक्तिः, 20 सत्कार्योक्तिरेव कृता तथा वदतेति । तस्मान्न स्याद्वादिन एवमाहुरेकान्तवादिन इवानपेक्ष्य पूर्वापरम् ।
कथं ताहुरिति चेत् , अत आह-सदसदात्मकेत्यादि । 'व्यात्मकं वस्तुतत्त्वम्' इत्येतस्यार्थस्य प्रत्यक्षीकरणार्थ जैनाः स्याद्वादिन एकमेवात्मानं परमार्थ द्रव्यार्थतः सत्त्वात् पर्यायार्थतोऽसत्त्वात् तदुभयलक्षणमुपवर्णयन्ति 'तादृग् वस्तु' इति प्रतिपादितत्वात् । खपुष्पवदन्यथाऽसम्भवात् उभयरूपैकात्म्याभावादेकरूपस्य द्रव्यार्थात्मनः पर्यायार्थात्मनो वा निर्भेदत्वात् निर्बीजत्वाच्च खपुष्पवदभावप्रसङ्गात् सद-25 सद्रूप एवात्मा वस्तुन इति । द्रव्यशब्दव्याख्या-द्रव्यशब्दं च मृदादिरूपाद्यतीतानागतवर्तमानभेदाभेदार्थ 'वर्णयन्तीति वर्तते । मृदः पिण्डशिवकादयः क्रमभुवः, सहभुवः रूपरसादयश्च भिन्नाः, त्रिषु
१ दृश्यता पृ. ३१९ पं० १ टि. १॥ २ 'कमसत्त्व प्र० । ३ वासत् प्र०॥ ४ द्यपादिप्र० ॥ ५ 'वापाद्या प्र०॥ ६°ण्डादिवका प्र० । (°ण्डशिवका ? )॥ ७°द्यपा प्र०॥ ८ वस्तु इति भा०। (वस्तुत इति?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org