________________
५००
न्यायागमानुसारिणीवृत्यलङ्कृतम् सप्तम उभयोभयारे पूर्वपक्षो नोत्तरपक्षः सत्यः, को हि नाम सोऽनेकान्तवादी एवं ब्रूयात्-प्रागुत्पत्तेः मृदात्मना सत् कार्य घटात्मना चासदिति ?.एवं हि मृदोऽकार्यत्वे..... को भेदः? अभूत्वोत्पत्तिवाचिप्राक्छब्दोचारणादेव साक्षादसत्त्वैकान्ताभ्युपगमः । अन्येन मृदात्मना भवति खेन च घटात्मना न भवतीत्येवं ब्रुवन् प्रत्यक्षादि विरुद्धं मत्तोन्मत्त5 कादिवत् स्यात् । देशकालभेदलक्षणोभयपयोयमात्रत्वादेवमयमसद्वाद एव स्यात् ।
एवं तहरीत्यादि व्याख्या । मृदात्मनः कर्तव्यत्वाभावात् , 'क्रियते' इति हि कार्यम्, न च मृत् क्रियते, घटो हि क्रियते, स चासन्निति । तदुपनयति - तस्मान्न प्रागुत्पत्तेः सदसत् कार्यमिति ।
अत्र न पूर्वपक्ष इत्यादि आचार्यो ब्रूते । अत्रैवं पूर्वोत्तरपक्षयोर्न किञ्चित् सत्यम् , प्रागतीतेषु पूर्व३४३.१ पक्षोऽपि कश्चित् सत्यः स्याद् विकलादेशवशार्पणात् , यथा सद्भागमाश्रित्योपादानम् असद्भागमाश्रित्य 10क्रियाभाव इत्यादिः। इह तु न पूर्वपक्षो नोत्तरपक्षः सत्यः । पूर्वपक्षासत्यत्वं तावत् को हि नाम सोऽनेकान्तवादीत्यादि । एवं ह्यसत्कार्यैकान्तवाद एवावस्थापितः, तदसत्कार्यमवस्थाप्य कोऽनेकान्तवादी एवं ब्रूयात् ? इत्यादि, प्रागित्यादि तस्यैव प्रत्युच्चारणं यावद् घटात्मना चीसदिति, न ब्रूयादेवेत्यभिप्रायः । यदि ब्रूयादनेकान्तवादत्याग एकान्तवादाभ्युपगमश्च कृत इति तद्दर्शयति - एवं हि मृदोऽकार्यत्वे इत्यादि गतार्थो यावत् को भेद इति । य एवैष वैशेषिको बौद्धो वा स्यादाहतोऽपीति । 15 किश्चान्यत् , अभूत्वोत्पत्तीत्यादि यावदभ्युपगमः । प्राक्छब्दो डंभूत्वोत्पन्नार्थवाची घटावस्थातः
पूर्वावस्थावाचित्वात् । स चाभूत्वोत्पत्त्यर्थः प्राक्छब्दोच्चारणादेव साक्षादभ्युपगतस्तेन स्यात् । ततः किमर्थ विवदेताभ्युपगम्यासत्त्वैकान्तं 'मृदात्मना सद् घटात्मना चासत्कार्यम्' इति ? तथापि भ्रोन्तिमपि न ब्रूते ।
किश्चान्यत् , अत्यन्तासमीक्षितभाषिणैकान्तवादिनापि न तुल्यतामेत्यसौ, घटादन्यस्या मृदो य आत्मा तेनात्यन्तमन्यो घटो भवति स्वेन च घटात्मना न भवतीत्येवं ब्रुवन प्रत्यक्षादिविरुद्धं मत्तोन्मत्तकादिवत् स्यात्, 20 सोऽपि चैकान्तवादी प्रत्यक्षादिविरुद्धं किञ्चित् परिहरतीति । किश्चान्यत् , देशकालेत्यादि । देशतो भेदो रूपरसादीनाम् , कालतो भेदः पिण्ड शिवकादीनाम् , स भेदो लक्षणमेषां सहासहावस्थायिनामुभयेषां पर्यायाणां ते देशकालभेदलक्षणोभयपर्यायाः, तत्परिमाणं देशकाल भेद लक्षणोभयपर्यायमात्रम् , तैद्भावात् तन्मात्रत्वादेवमनेन प्रकारेणायमसद्वाद एव स्यात् , रूपं रसादन्यत्, तदपि विभज्यमानं कृष्णम् , पुनरप्येकगुणकृष्णमित्यादि आ च परमाणुशो विभागादसदेव रूपम् , एवं रसादयः, तथा पिण्डादयो
१एवं हि मृदोऽकार्यत्वेऽनेकान्तवादत्यागादेकान्तवादाभ्युपगमाच्च वैशेषिकाद् बौद्धाद्वा को भेदः।' इत्याशयो भाति ॥ २ नहीत्यादि ही० । नहित्यादि रं० ॥ ३ सदसदसत् भा० । अयमेव पाठः पुनरपि अग्रे भा० प्रतौ, दृश्यतां पृ० ५०३ टि. १ । एवं चोभयत्रापि भा. प्रतौ 'सदसदसत्' इति पाठदर्शनात् तदनुसारेण 'तस्मान्न प्रागुत्पत्तेः सदसत् , असत् कार्यम्' इत्यपि पाठः स्यात् ॥ ४ दृश्यतां पृ० ४९७ पं०४॥ ५ इत्यादि य० ॥ ६ वासप्र० । दृश्यतां पृ० ४९९ टि० १॥ ७ह्यभूत्वोन्नार्थ प्र०॥८त्पत्तथैः य० । (त्पन्नार्थः ? )॥ ९भ्रांतिपि भा० । (भ्रान्तोऽपि ?)॥ १० लक्षणभेदां सहाभा० पा० डे० । लक्षणभेदा सहा वि० २०॥ ११ तद्धावत् य० । तद्भाववत् भा० ॥ १२ "मित्योद्याप पर' य. मित्येजा पर भा० । अत्र 'आ' अभिविधौ, ततो 'यावत् परमाणुशो विभागात्' इत्यर्थं इति भाति । अत्र 'मित्यादि आ पर इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org