________________
कटन्दीकाराभिप्रायस्य खण्डनम्] द्वादशार नयचक्रम् विरोधादेकस्मिन्नेव कार्ये सदसच्छब्दयोरेकाधिकरणभावेन प्रयोगो नास्ति, 'सदेवासत्' इत्यनुसन्धान नास्त्येकाधिकरणभावेन इति सप्तम्यभिधानेन दर्शयति [वै० सू० कटन्दी ९।१।१२] ।-एतदपि न किश्चित्, एकैकार्थे तत्त्वात्मनि इतरेतरभूताभूततत्त्वं जगद् वृत्तावृत्तपर्यायार्थाविभक्तद्रव्यार्थभावनायां सदेवासत् किं नूभयप्रत्यपेक्षाभावयितव्यखात्मनि । तथा च ।
यदप्युक्तम्-आपेक्षिकं सदसत्त्वम्, प्रागुत्पत्तेः मृदात्मना सत् कार्य घटात्मना चासत्, 5 निस्पन्नेऽपि घटे मृत्त्वदर्शनाद् मृदुपादानोपपत्तिः, घटात्मना चासत्त्वाद् घटार्थक्रियोपपत्तिरित्येवं किल आर्हत आह । अत्रोत्तरम् - नै, असत्कार्यत्वसिद्धेः, एवं तर्हि मृदात्मनः कर्तव्यत्वाभावादू घटात्मनः कर्तव्यत्वादसदेव कार्यम् । तस्मान्न प्रागुत्पत्तेः सदसत् कार्यम् [वै० सू० कटन्दी] इति । अत्र न
'सदसतोवैधात्' इति किमुक्तं भवति ? परस्परविरोधात् समानाधिकरणभावेनैकस्मिन् प्रागुत्पत्तेः 'सच्चासञ्च तदेव' इति संदसच्छब्दार्थयोर्विरोधादेकस्मिन्नेव कार्ये कुतः सत्त्वं प्रागुत्पत्तेः ? किं तर्हि ? असत्त्व- 10 मेवेति सदसच्छब्दयोरेकाधिकरणभावेन प्रयोगो नास्तीति । तद् व्याचष्टे – 'सदेवासत्' इत्यनुसन्धान नास्त्येकाधिकरणभावेनेति बुद्ध्या निर्धारणं नास्ति, तदभावात् प्रयोगोऽनुपपन्नः । एषोऽर्थः 'कार्ये सदसत्ता न' इति सप्तम्यभिधानेन दर्शितः, अन्यथा 'कार्य सदसन्न' इति लाघवार्थं ब्रूयात् । एतदपि न किञ्चिदित्याद्युत्तरं यावत् स्वात्मनि । एकस्मिन्नेकस्मिन् घटपटादावर्थे तत्त्वात्मनि इतरेतरभूताभूततत्वं जगत् , घटात्मना घटोऽस्ति पटात्मना नास्ति, पटोऽपि तथेति खेनात्मना भूतत्वमभूतत्वं चेतरात्मना, 15 तस्माद् भूताभूततत्त्वं 'जगदिति व्यापितां दर्शयति, न केवलं कार्यमेव सदसदिति । तथा वृत्तावृत्ताभ्यां ३४१.२ पिण्डशिवकपर्यायार्थाभ्यां क्रेमभाविभ्यामविभक्तो द्रव्यार्थ एकः, तस्य भावना मृत्पिण्ड एव शिवकीभवति, शिवक एव च स्थासकीभवतीत्यादि यावद् घटो यावच्च पांशुर्यावच्च परमाणुरित्यवस्थासु पिण्डात्मना भवति शिवकाद्यात्मना न भवतीति पिण्डो भावाभावात्मकस्तथा शिवकोऽपि शिवकात्मना भवति न पिण्डात्मना, तथोत्तरास्वप्यवस्थासु इतरेतराभावस्वरूपेण स्वेन च भावरूपेण सदसदेव, संचासत् [वै. सू. ९।१॥ ४] 20 इति वचनात् । एवं सकलजगद्वृत्तावृत्तपर्यायार्थेनाविभक्तद्रव्यार्थभावनायां सदेवासत् । किन्नूभयेत्यादि, किं पुनर्युगपद्भाविनामयुगपद्भाविनां च पर्यायाणां रूपरसादीनां शिवकादीनां च प्रत्यपेक्षया भावयितव्यो यस्य वस्तुनः स्वात्मा तस्मिन् भावयितव्ये ? निःसन्दिग्धमेव तदा सदेवासदपीत्यर्थः । तदुपसंहरतितथा चेति गतार्थम् ।
यदप्युक्तमापेक्षिकमित्यादि । स्याद्वादी किलेत्थं सदसत्त्वं समर्थयतीति पूर्वपक्षः । मृदात्मना 25 घटस्य प्रागुत्पत्तेः सत्त्वम् , निष्पत्त्युत्तरकालमपि मृत्त्वदर्शनात् , तदात्मकत्वाद् मृदुपादानोपपत्तिः । घटात्मना चासत्त्वाद् घटार्थक्रियोपपत्तिरिति । अत्र किलोत्तरं कटन्दीकार आह-न, असत्कार्यत्वसिद्धेः।
१ दृश्यतां पृ. ४९१ पं० १५, पृ० ५०० पं० १२, पं० १७ ॥२ दृश्यतां पृ० ५०२ पं० १६, पं० २१॥३दृश्यतां पू०५०२५० ७॥ ४'अब न पूर्वपक्षे नोत्तरपक्षे किञ्चित् सत्यम्' इत्यपि पाठोऽत्र स्यात् ॥ ५ सामान्याधिक यः। सामाधिक भा०॥ ६ सच्छब्दार्थ प्र०॥ ७ पपत्तेः प्र० ॥ ८°त्म भूतत्व प्र०॥ ९क्रमभाविभक्तो द्रव्यार्थ प्र० ॥ १० दृश्यतां पृ० ४८९ पं० २८ ॥ ११ 'जगवृत्ता प्र० ॥ १२ कित्तमये प्र० । (किमुभये ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org