________________
४९८
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [सप्तम उभयोभयारे भयात्मकत्वात्, एकपुरुषनियतपितृपुत्रत्ववत् । न ह्येकस्य......"न तूमयाभावः, एवम्.......। अपि च विपर्ययप्रसङ्गापत्तावप्येवंविधार्थतैव । असद्भागमाश्रित्योपादाननियमाभाव एव अनुपादानसत्तादिभावसामान्यलभ्यखरूपत्वात् सद्व्यादेः। सद्भागमाश्रित्य च क्रियाया अभाव एव सर्वस्य सर्वात्मकत्वात् तथात्वाद5 त्यन्तमसतोऽभावात्।
यत्तूच्यते-सदसतोधात् कार्ये सदसत्ता न [वै० सू० ९।१।१२], सदसच्छब्दार्थयो.
नियतत्वादभावो विषयः उक्तवत् । ते चोपादानक्रिये स्खे विषये नियते इति कथं ज्ञायते ? एकस्योभयात्मकत्वात् , सदसदात्मकं ह्येकं कार्यं मयाभ्युपगतं त्वया च दोषाभिधित्सया, तस्मादेकस्योभयात्मक. त्वात् , यद् यदुभयात्मकमेकं तस्य तस्य स्वविषयनियतता दृष्टा, एकपुरुषनियतपितृपुत्रत्ववत् । न ह्येक10 स्येत्यादि दृष्टान्तव्याख्यानं यावद् नै तूभयाभाव इति । एवमित्यादि दार्टान्तिकव्याख्यानमनियमाभावसाधर्म्यप्रदर्शनं दोषाभावप्रदर्शनम् । उभयैकत्वमेव च विशेषहेतुः, तस्य स्वविषयनियतत्वाद् नास्ति विपर्ययप्रसङ्गः । तस्मात् पूर्वाभ्यां श्रेयस्त्वमेव ।
अभ्युपेत्यापि विपर्ययप्रसङ्गम् अपि च विपर्ययप्रसङ्गापत्तावप्येवंविधार्थतैव अनेकान्तसिद्धेः न पापस्य गन्धोऽपि, सदसदात्मनो वस्तुनो योऽसौ पर्यायार्थोऽसद्भागो मृदि घटाभावस्तमाश्रित्योपादान15 नियमाभाव एव । कस्मात् ? अनुपादानसत्तादिभावसामान्यलभ्यस्वरूपत्वात् सद्रव्यादेः । प्रागुत्पत्तेः कार्यमसदेव समवाय्यसमवायिकारणसान्निध्ये जायते, न तस्योपादानेनार्थः कश्चित् , उत्पन्नं सत् सत्तयाभिसम्बध्यते द्रव्यगुणकर्माख्यम् , द्रव्यत्वेन द्रव्यम् , गुणत्वेन गुणः, कर्मत्वेन कर्मेत्येभिर्भावैः सामा
न्याख्यैर्लभ्यं स्वरूपं वास्येति 'नैव कार्यस्योपादाननियमोऽस्ति' इत्यनेकान्तः सिध्यति । सद्भागमाश्रित्य च ३४१.६ क्रियाया अभाव एव, यो घटस्य कार्यस्य सत्त्वमेव द्रव्यार्थतो वाञ्छति तस्य क्रियाया नास्त्येव प्रयोज20 नम् , नैव क्रियास्ति, इत्यनियमः । किं कारणम् ? तस्य वादिनः सर्वस्य सर्वात्मकत्वात् , मृत्पिण्डो हि
युगपदयुगपद्भाविसर्वधर्मात्मकः । तेन प्रकारेण तथा द्रव्यार्थवादप्रकारेण, तथाभावस्तथात्वं सर्वसर्वात्मकत्वम् , तस्मात् तथा[त्वा]दसद् नाम किश्चिन्नास्यतोऽत्यन्तमसतोऽभावात् प्रत्येकनयविवक्षायामन्यतराश्रय इतरस्याभावाद् न पत्र विशेषहेतुनार्थ एव ।
यत्तूच्यत इत्यादि यावत् सप्तम्यभिधानेन दर्शयतीति सूत्रार्थः कटन्यां व्याख्यातः ।
१'न ह्येकस्य पुरुषस्य पितृपुत्रत्वनियमो नास्ति, वपुत्रमपेक्ष्य पितृत्वम् , स्वपितरमपेक्ष्य च पुत्रत्वम्, न तूभयाभावः । एवमत्रापि उभयात्मकैकवस्तुत्वात् उपादानक्रिययोः स्वविषयनियतत्वाद् नास्ति विपर्ययप्रसङ्गः । इत्याशयोऽत्र भाति ॥ २ दृश्यतां पृ० ४६.टि. १॥ ३ ननभया प्र०॥४°मनियाभाव प्र.॥ ५ भावाप्रद प्र०॥ ६तस्य विषयनि प्र.(ततः स्वविषयनि?)॥७त्यादि विप०प्र०॥८सच सदात्मनो भा०।स य०॥ ९र्लभ्यस्वरूपं वास्येति डे० । लभ्यखरूपवास्येति पा० रं० वि० । ( र्लभ्यं खरूपं चास्येति ? लभ्यं खरूपमस्येति ? ) ॥ १० सप्तभिधानेन दर्शयति प्र०॥ ११ कटन्दी नाम कणादविरचितवैशेषिकसूत्राणां काचित् प्राचीना व्याख्या । “भो भो लक्ष्मण ! वैशेषिककटन्दीपण्डितो जगद् विजयमानः पर्यटामि । कासौ रामः तेन सह विवदिष्ये।" इति मुरारिकविविरचिते अनर्घराघवनाटके पञ्चमाङ्के रावणस्य वचः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org