________________
प्रशस्तमतिमतखण्डनम् ]
द्वादशारं नयचक्रम्
४९७
युज्यते तत्रासत्वात् तृणादिवत् इत्युपादाननियमाभावदोषः, न पुनः स्याद्वादिनः । तथा यदि वैशेषिकोऽपि विशेष्य ब्रूयात् क एनं किञ्चिदपि ब्रूयात् । एवमयं पूर्वश्रेग्रस्त्वार्थ आद्युद्ग्राहः ।
यत् पुनरिदमभिधीयते - सद्भागस्योपादाननियमः असद्भागस्य क्रिया च युज्यते, तौ च वस्तुनिस्त एवेति चेत्, न, विपर्ययप्रसङ्गात् । एकस्योभयात्मकैकवस्तुत्वे 5 विशेषहेत्वभावात् कुत एतत् पूर्वदोषपापीयस्त्वमेवेति । - - एतदपि न किञ्चित् कार्यत्वादेव | कार्ये उपादानक्रिययोः स्वविषयनियतौ भावावेव, एकस्यो
तस्मान्न स्तः स्याद्वादिनः पूर्वदोषौ, कुतः पापीयस्त्वम् ? ताभ्यां वा श्रेयस्त्वमेवेत्यत आह- • एवमयं पूर्व श्रेयस्त्वार्थः पूर्वाभ्यां वादाभ्यां श्रेयसो वादस्य भावः पूर्वश्रेयस्त्वम्, तदेवार्थोऽस्योद्वाहस्येति सोऽयमा- ३४०-१ युद्ध हः पूर्वश्रेयस्त्वार्थः परिहृतदोषवचनावकाशः तस्मिन्नाद्युद्रा हे प्रतिज्ञानिर्देशे दर्शित एव मया 'स्यात् 10 सत् कार्यं स्यादसत् कार्यम्' इति । स पुनस्त्वया स्वपक्षरागादस्मत्प्रद्वेषाद्वा नावबुद्धः ।
2
यत् पुनरिदमित्यादि पूर्वपक्षः परस्य यावत् पूर्वदोषपापीयस्त्वमेवेति । जैनेनायं परिहार : पूर्वI दोषपापीयस्त्वेऽभिहितः सदसत्कार्यवादिना - सद्भागस्योपादाननियमः मृदि सत्त्वाद् घटस्य मृदुपादाननियमः तस्य चासद्भागस्य क्रिया च घटस्य युज्यते सदसदंशयोरन्यतराश्रयेण, तौ चांशौ वस्तुनि स्त एवेति चेदित्याशङ्कायाम्, 'एवं चेन्मन्यसे' इति आर्हतीयं परिहारमाशङ्कयोत्तरमाह - एतच्च न, 15 विपर्ययप्रसङ्गात्, विपर्ययः सद्भागमाश्रित्य क्रियाप्रसङ्गोऽसद्भागमाश्रित्योपादाननियमप्रसङ्गः, अनिष्टौ च ते जैनस्य, एकस्योभयात्मक कैकवस्तुत्वे विशेषहेत्वभावात् 'उपादाननियमस्यासति सति च क्रियाया अभाषैः' इत्येतयोर्हेत्योरितरेतरांशव्यावर्तितयोरभावादपक्षधर्मता । एकं हि वस्तु सच्चासच्च, तस्मिन् सत्युभयात्मके कुत एतदित्यादि गतार्थं विपर्ययप्रसङ्गापादनं विशेषहेत्वभावाद हेतुहेर्यनियमाभावात् ।
अत्राचार्य आह - एतदपि न किञ्चित् नोत्तरस्य गन्धोऽप्यस्तीत्यर्थः । कस्मात् ? कार्यत्वादेव, 20 'क्रियते' इति हि कार्यम्, तस्मिन् कार्ये उपादानक्रिययोः स्वविषयनियतौ भावावेव, नाभावः, स्वो विषयः स्वविषयः, उपादानस्य सत्येव नियमः, तस्य तत्र नियतत्वाद् भावो विषयः, क्रियायाः पुनरसत्येव,
दर्शयन्नाह - हेउविसयोवणीयं जह वय णिज्जं परो नियत्तेइ । जइ तं तहा पुरिल्लो दाईतो केण जिप्पंतो ॥ हेतुविषयतयोपनीतमुपदर्शितं साध्यधर्मिलक्षणं वस्तु पूर्वपक्षवादिना 'अनित्यः शब्दः' इत्येवं यथा वचनीयं परो दूषणवादी निवर्तयति सिद्धसाध्यताननुगमदोषाद्युपन्यासेन एकान्तवचनीयस्य तदितरधर्माननुषक्तस्य अनेकदोषदुष्टतया निवर्तयितुं शक्यत्वात्, यदि तत् तथा द्वितीयधर्माक्रान्तं ' स्यात्' शब्दयोजनेन पुरिल्लः पूर्वपक्षवादी अदर्शयिष्यत् ततोऽसौ नैव केनचिदजेष्यत । ततश्चासौ तथाभूतस्य साध्यधर्मिणोऽप्रदर्शनात् प्रदर्शितस्य चैकान्तरूपस्य सत्त्वात् तत्प्रदर्शकः सन्नसत्यवादितया निग्रहार्ह इति ।" इति अभयदेवसूरिविरचितायां [ जेसलमेरस्थायां लिखितायां ] सन्मतिवृत्तौ पृ० २२६ ॥
१ 'कुत एतत् 'सद्भागस्योपादाननियमोsसद्भागस्य क्रिया च न तूभयाभावः' इति ? तस्मात् पूर्व दोषपापीयस्त्वमेवेति' इत्याशयोऽत्र भाति ॥ २ ज्ञानिर्देश य० ॥ ३ तस्यावा (तस्यैवा ?) सद्भागस्य प्र० ॥ ४ आर्हतीयं ही० विना ॥ ५ एतच्चिहान्तर्गतः पाठो य० प्रतिषु नास्ति ६ दृश्यतां पृ० ४९५ पं० २० ।। ७ वस्तु सश्च भा० । अत्र वस्तु सदसश्च इत्यपि पाठः स्यात् ॥ ८ दृश्यतां पृ० १३८ टि०९ ॥
॥
नय० ६३
Jain Education International
३४०-२
For Private & Personal Use Only
www.jainelibrary.org