________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे तत्र हि सत्कार्यपक्षे क्रिया किं विरुध्यते? सायो यदसौ 'एकान्तेन सन्नेव घटः' इत्याह ततस्तस्य 'क्रिया निष्पन्नस्य न युज्यते कर्तव्याभावात् कृतवत्' इति क्रियाऽभावदोषो भवति, न पुनः स्याद्वादिनः। यदि त्वसौ स्यादादिना कर्तव्यत्वमपि विदधीत ततः क एनमेवं ब्रूयात् ? असत्कार्यपक्षेऽपि उपादाननियमः किं 5 विरुध्यते ? यदसौ 'एकान्तेन असदेव कार्यम्' इति हेतूपादानेषु सन्निहितस्य क्रियाभिव्यङ्गयस्यार्थस्योपर्यवज्ञया ब्रूयात् तस्य ‘पटार्थितायां तन्तूपादाननियमो न
__तत् परेणैवाभिवाचयति प्रश्नपूर्वकम् - तत्र हि सत्कार्यपक्षे क्रिया किं विरुध्यते केन हेतुना ? साङ्ख्यो यदसावेकान्तेनेत्यादि यावत् कृतवदिति । द्रव्यार्थतो हि मृत्पिण्डे घटोऽस्ति न पैर्यायतः । साङ्ख्यस्तु
सन्नेव घटः कार्यत्वपर्यायनिरपेक्ष इत्याह ततस्तस्य क्रिया करणं निष्पन्नस्य सर्वथा विद्यमानस्य न युज्यते 10 कर्तव्याभावात् कृतवत् निष्पन्नघटवदित्येवं तस्य सत्कार्यवादिनः क्रियाऽभावदोषो भवति, न पुनरा
काङ्कितकर्तव्यपर्यायद्रव्यावादिनः स्याद्वादिनः 'स्यात् सन्नेव मृत्पिण्डे घटः केनचिद्धर्मेणासन्नपि' इति वदतः परिहृतपूर्वोक्तसत्कार्यैकान्तवाददोषत्वात् । यदि त्वेसौ साङ्ख्योऽपि स्यादादिना कर्तव्यत्वमपि
विदधीत स्याद्वादिवत् 'कथंचित् कुतश्चित्' इत्यादिनानेकान्तवाचिना विशेषणेन विशेष्य 'सदेव कार्यम्' ३३९.२ इति ततः क एनमेवं ब्रूयात् ? को वादी सुसमीक्षितवाक्यगुणदोषोऽपि 'क्रियाऽभावदोषस्ते प्राप्तः कर्तव्य15 त्वाभावात् कृतवत्' इति वक्तुं शक्नुयात् परिहृतपूर्वदोषं वादिनं साङ्ख्यमन्यं वाभ्युपेतानेकान्तवादमिति ।
असत्कार्यपक्षेऽपीत्यादि, वैशेषिकं प्रत्यसत्कार्यवादिनमुपादाननियमाभावदोष उक्तो योऽयं स किं विरुध्यते ? इति पूर्ववत् प्रश्नोपक्रमं भाणयति । यदसावेकान्तेनेत्यादि, यदसौ वैशेषिकः पर्यायार्थाश्रयेण ‘क्रियागुणव्यपदेशाभावादसदेव कार्यम्' इति द्रव्यार्थतो हेतुषु तुर्यादिषूपादानेषु च तन्तुषु सन्निहितस्याव्यक्तस्य क्रियामन्तरेण क्रिययाभिव्यङ्ग्यस्य पटाख्यस्यार्थस्य उपरि अवज्ञया अनपेक्ष्य तं ब्रूयात् 20 तस्य पटार्थितायां तन्तूपादाननियमो न युज्यते तत्रासत्त्वात् तृणादिवत्, यथा तृणाद्युपादानं
पटार्थितायां न युक्तं तत्र तस्यासत्त्वादेवं तन्तूपादानमपीतीत्थमसत्कार्यैकान्तवादेऽप्युपादाननियमाभावदोषः, सोऽनेकान्तवादे स्यादादिविशिष्टे नास्ति 'स्यादसत् कार्यम्' इति दत्तसत्तावकाशमपि वदतः । तथा यदि वैशेषिकोऽपि विशेष्य ब्रूयात् क एनं किश्चिदपि ब्रूयात् ? न तदा तस्य वादिनो विशेषितान्वयव्यतिरेकधर्मधर्मिव्यवस्थस्य तिलतुषशतभागमात्रमपि वाच्यमस्तीति । उक्तं च -
हेतुविसयोवणीतं जध वैयणिजं परो णियत्तेति ।
जदि तं तहा पुरिल्लो दोपंतो केण जिवंतो ॥ [सैन्मति० ३।५८] १ वाभिवावयति प्र० । (वाभिधापयति ? ) ॥ २ पर्ययतः प्र० ॥ ३ सत्कार्यवादिनः भा० । सत्कार्येादिनः य० । अत्र 'सत्कार्यकान्तवादिनः' इत्यपि पाठः समीचीनो भाति ॥ ४ °वाचिनः य० ॥५ तसौ सांख्येपि प्र०॥ ६ वक्तुयात् य० ॥ ७ उक्तौ य०॥ ८ 'योऽयमुपादाननियमः स किं विरुध्यते' इत्याशयः ।। ९ व्यंग्य पटाख्य य० ॥ १. स्यापर्यवशया य० ॥११ वादेप्युपा प्र० । (°वादे य उपा?)॥१२ वणिजं प्र०॥ १३ दाएतो वि० रं० ॥ १४ जिञ्चतो भा० । मुद्रिते सन्मतिप्रकरणे जिव्वंतो इति पाठः ॥ १५ “यत्रानुमानविषयतयाभ्युपगम्यमाने साध्ये दूषणवादिनोऽवकाश एव न भवति तदेव साध्यं हेतुविषयतया अभ्युपगन्तव्यमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org