________________
प्रशस्तमतिमतखण्डनम् ]
द्वादशारं नयचक्रम्
'हेतूपादानक्रिया
यत्तूक्तं 'पूर्वदोषपापीयस्त्वाद् न । तद्यथा नियमाभावः, अस्मिन् पुनः सदसत्कार्यपक्षे द्विदोषता पापीयसी' इति, तन्न, परिहृतपूर्वदोषत्वात् ।
- तंत्र हि
---
सामान्यम्, इतिशब्दस्य हेत्वर्थत्वात् एवं सामान्यस्य सदसत्त्वैकात्म्यम् । तदेव च सोपाख्यं स्वपरप्रत्ययाभिधानाधानात्, स्वात्मनि सम्बन्धिनि च प्रत्ययमभिधानं चाधत्ते 'सती सत्ता' 'सन्ति द्रव्य - 5 गुणकर्माणि' इति च सामान्यम् तदेव निरुपाख्यं च नास्योपाख्यास्ति, वस्तुवत्, वस्तुन इव सम्बन्धिसामान्यादुपाख्या नास्ति सामान्यादेः सामान्याद्यन्तराभावात् । इति सोपाख्यमेव निरुपाख्यम्, इत्थमुक्तन्यायेन सोपाख्यनिरुपाख्यत्वयोर्वैधर्म्याभाव: । वस्तुनि विपर्यय इति, द्रव्यादित्रये ३३८-२ वस्तुनि स्वतो निरुपाख्यता सामान्येन सोपाख्यता, स्वतस्त्वसत्त्वं सम्बन्ध्यन्तरात् सत्त्वं च सत्तातो विपरीतम् ।
४९५
Jain Education International
अतो व्यवस्थापितेत्यादि व्याख्यातदृष्टान्तसोपाख्यनिरुपाख्यत्वैककाष्ठीकृतहेतुधर्मयोः सदसत्त्वैककाष्ठभूत साध्यधर्माविनाभावः उपसंह्रियते । तस्मात् ताभ्यां धर्माभ्यां 'भिन्नौ विरुद्धौ च' इत्यभिमताभ्यामेव प्रतिपद्यतां भवान्, सोपाख्यनिरुपाख्यत्वात् सामान्यादिद्रव्यादिवत्, सामान्यविशेषसमवायाः सामान्यादयः, द्रव्यगुणकर्माणि द्रव्यादीनि, सामान्यादयश्च द्रव्यादीनि च यथा सन्ति असन्ति च सोपाख्यनिरुपाख्यानि चेति सोपाख्यनिरुपाख्यत्वं सदसत्त्वैकात्म्ये हेतुः सदसत्त्वमपि सोपाख्यनिरुपाख्य- 15 त्यैकात्म्ये तथैव हेतुस्त्वन्मतेनैव । उपनये तु द्रव्यादीनां दृष्टान्तत्वेनोपादानं त्वयैवेष्टत्वात् । अत्रापि सदसत्त्वैकात्म्ये सोपाख्यनिरुपाख्यत्वैकात्म्ये च निःसंशयमविपक्षतेति ।
इदानीं स्याद्वादे परोक्तान् दोषान् परिहर्तुकाम आह- यत्तूक्तमित्यादि । टीकायां प्रशस्तमतौ स्याद्वादिनं प्रति ‘पूर्वदोषपापीयस्त्वाद् न' इत्युक्तौ दोषौ, तत्र सदसत्कार्यपक्षयोः साङ्ख्यवैशेषिकेष्टयोर्यथासङ्ख्यं क्रियानुपपत्त्युपादाननियमाभावदोषौ । यथोक्तम्- 'उपादाननियमस्यासति सति च क्रियाया 20 अभावप्रसङ्गात् सदसत् कार्यम्' इति दोषद्वयं ब्रुवतो जैनस्य पूर्वदोषपापीयस्त्वं किलेत्थमुच्यते । [ वै० सू० प्रशस्तमतिटीका ], तद्यथा - तत्र हीत्यादि, यथासङ्ख्यं प्रत्येक दोषप्रदर्शनप्रन्थो गतार्थो यावद्धेतूपादान- ३३९-१ क्रियानियमाभाव इति, हेतवो दण्डाद्या घटस्य, मृदुपादानम्, क्रिया कुलालव्यापार इति । अस्मिन् पुनः सदसत्कार्यपक्षे द्विदोषता पापीयसी सदसत्पक्षाभ्यामेकैक दोषाभ्याम्, 'सत्त्वात् कार्यस्य घटार्थायाः क्रियाया अभाव:, असच्चादुपादान [नियमा] भावः' इत्येतद्विदोषत्वात् पापीयानेष पक्ष इति । 25 अत्राचार्य आह - तन्न, परिहृतपूर्वदोषत्वात् परिहृतावस्मिन् सदसदेकात्मककार्यपक्षे पूर्वोक्तौ क्रियाभावोपादाननियमाभावदोषाविति ।
१ ‘तत्र हि अत्यन्तासत्कार्यपक्षे उपादाननियमस्य अत्यन्तसत्कार्यपक्षे च क्रियाया अभावप्रसङ्गात् सदसत्कार्यपक्षयोर्हेतूपादान कियानियमाभावः' इत्याशयो भाति || २ वाधत्ते प्र० ॥ ३ "न्याद्यपाख्या प्र० ॥ ४ स्वतस्वत्वं सम्बन्ध्यन्तरासत्त्वं च य० । स्वत्वं सम्बन्ध्यन्तर(सत्त्वं च भा० । (खतोऽसत्त्वं सम्बन्ध्यन्तरात् सत्त्वं च ? ) ॥ ५ काष्टी ० ॥ ६ख्या निरु पा० ॥ ७ पूर्णदोष प्र० ॥ ८ पञ्चम्यन्तोऽयं निर्देशः ॥ ९ ( 'दानाभावः ? ) ॥
10
For Private & Personal Use Only
www.jainelibrary.org