________________
४९४
न्यायागमानुसारिणीवृत्त्यलतम् [सप्तम उभयोभयारे खसुखादिपयनुभववत् ? । अथ च निरुपाख्यतायामपि नैव तदसत् सामान्यसोपाख्यत्वात् । अपि च त्वयापि.... ..."विशेषणसम्बन्धः कल्प्यः, अथ च न तदसद् निरुपाख्यत्वात्, सदसदेव तु सोपाख्यनिरुपाख्यत्वात् सामान्यवत् , सोपाख्यं निरुपाख्यं च सदसत्त्वात् सामान्यवत् । सामान्यं स्वसत् न सामान्यसद् 5 वस्तुवदिति सदेवासत् सामान्यम् । सोपाख्यं वपरप्रत्ययाभिधानाधानात् निरुपाख्यं च वस्तुवदिति सोपाख्यमेव निरुपाख्यम् , वस्तुनि विपर्ययः। अतो व्यवस्थापितसोपाख्यनिरुपाख्यत्वात् सदसदेव सामान्यादिद्रव्यादिवत् ।
वा स्यात् , निरुपाख्यं त्वसदेव, तत् सता साधर्म्य न भजत इति । एतदपि नोपपद्यते व्यभिचारादित्यत आह-अथ च निरुपाख्यतायामपि नैव तदसत् सामान्यसोपाख्यत्वात् , उप सामीप्ये, सामी10 प्येनाख्या उपाख्या प्रत्यासत्त्येत्यर्थः, सह उपाख्यया सोपाख्यम् , यदप्यसाधारणं सुखादिपर्यनुभवादि तदपि
सामान्येनोपाख्यायते - किमपि सुखं दुःखमित्यादि । तस्मान्निरुपाख्यस्यापि सत्त्वदर्शनादयुक्तमुक्तम् - अंसन्निरुपाख्यं सत् सोपाख्यमिति । तस्मात् केनचिदात्मना सदेवासत् सोपाख्यं चेति नास्ति सदसतो_धर्म्यम् । अथवा सामान्यसोपाख्यत्वात् , यथा सामान्यं स्वेनात्मना सोपाख्यं स्वसत्तया, न विशेषणात्मना सामान्यान्तरेण, न तु द्रव्यादिवस्तुवत्, इति सत् सोपाख्यं निरुपाख्यमसञ्चति दृष्टत्वात् 15 तवैवैकत्र सदसतोर्नास्ति विपक्षता ।
किश्चान्यत् , अपि च त्वयापीत्यादि, त्वत्कल्पनयैव 'सदसत्' इत्येतत् प्रदर्शयितुमिदमुच्यते, प्राग्व्याख्यातार्थ एवैष ग्रन्थो यावद् विशेषणसम्बन्धः कल्प्य इति, इह तु 'प्राग विशेषणसम्बन्धाद् विद्यमानमेव निरुपाख्यमितीष्टं त्वयैव' इत्येतस्यार्थस्य प्रदर्शनार्थमुपन्यस्तः, अत आह -अथ च न तदसद् निरुपाख्यत्वादिति निरुपाख्यत्वस्य सति दृष्टत्वाद् व्यभिचार उक्तः । असञ्च तत् सम्बन्धासत्त्वात तस्यामवस्थायाम् , सोपाख्यं च तदुत्तरकालं सत्तासम्बन्धोपाख्यत्वात् । एवं सोपाख्यनिरुपाख्यत्वाविरोधमापाद्य प्रस्तुतकार्यसदसत्त्वाविरोधे साधनमाहाचार्यः - सदसदेव तु सोपाख्यनिरुपाख्यत्वात् सामान्यवदिति । अथवा सोपाख्यं "निरुपाख्यं च सदसत्त्वात् सामान्यवदिति सदसत्त्वैकात्म्ये साध्ये सोपाख्यनिरुपाख्यत्वं हेतुः सोपाख्यनिरुपाख्यत्वे च सदसत्त्वं प्रोक्तन्यायेन त्वयैवाभ्युपगतत्वात् ।
सामान्यदृष्टान्तस्य सदसत्सोपाख्यनिरुपाख्यत्वैकात्म्यं दर्शयति - सामान्यं स्वसत् स्वसत्तया सत् 25 न सामान्यसद् वस्तुवत् सम्बन्धसत्तयेत्यर्थः । यथा त्वन्मतेनैव सामान्येन सम्बन्धाद् द्रव्यगुणकर्माख्यं वस्तु सम्बन्धसदिष्यते न तथा सामान्यं सामान्यस्य सामान्यान्तरसम्बन्धाभावात् । इति सदेवासत्
३३८-१
१चा भा० ॥ २ प्रत्यासत्तेत्यर्थः प्र०। (प्रत्यासन्नेत्यर्थः ?)॥ ३ भावादि प्र०॥ ४°दयुक्तम् भा० २०॥ ५ दृश्यतां पृ० ४९१ पं०६॥ ६ (सोपाख्यं निरुपाख्यं चेति ?)॥ ७ पृ० ४७४ पं० २॥ ८ कल्प्यव इति भा० । (कल्प्यत इति ?)। दृश्यतां पृ० ४८५ पं० १८॥९ सम्बन्धसत्तात् प्र० । अत्र सम्बन्धसत्ताभावात् इत्यपि पाठः स्यात् १० निरुपाख्य य० प्रतिषु नास्ति ॥ ११ निरूप्यं च प्र० ॥ १२ कात्म्यैकार्थ य० । (कात्म्यैकार्थं ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org