________________
स्याद्वादे दूषणपरिहारः] द्वादशारं नयचक्रम्
४९३ इतरथा नैव भवेद वस्तु अपूर्णत्वात् खपुष्पवत्, वैधयेण चम्पकपुष्पवत्, अपरत्वादभेदत्वादवर्तमानत्वात् वान्ध्येयवत् क्षणिकवादवत्, । तस्मान्न सदसतोः प्रतिपक्षत्वम् । न नैकात्म्यम् , विधिप्रतिषेधैकविषयत्वात् , भावितैकात्म्यचेतनाचेतनत्ववत् ।
यदपि च सत् सोपाख्यमसद् निरुपाख्यमिति तदपि नोपपद्यते सतोऽप्यनुपाख्य-5 त्वात् । को हि प्रतिवस्तु प्रतिक्षणसत्त्वेन सदुपाख्यातुं शक्नोति? असाधारणत्वात्
क्रमभावि संदसत् । यथा च तत् तन्तुपटादि क्रमभावि तथा युगपद्भावि खमपि संदसद् भिन्नाभिन्नं च इतोऽपि इतोऽपीति उभयात्मकत्वं प्रदर्यत इति ।।
इतरथा नैवेत्यादि । एवं सदसदात्मकत्वमनिच्छतो वस्तुनस्ते नैव भवेद् वस्तु अपूर्वत्वात् निर्बीजत्वात् , नास्य पूर्वमिति बहुव्रीहिसमासाश्रयेण न पूर्वमपूर्वं प्रागसत्त्वादिति तत्पुरुषाश्रयेण वा, 10
खपुष्पवत् । वैधर्येण चम्पकपुष्पवत् , मूलाङ्करादिभवनेन पूर्वस्यैव संतश्चम्पकस्य पुष्पीभवनात् । तच्च सदसदात्मकं चम्पककुसुममिति । एवमपरत्वादनुत्तरत्वादभेदत्वादिति योज्यम् । तस्माद् वर्तमानमेव न स्यात्, ततश्चावर्तमानत्वादपि नैव स्यात् , वान्ध्येयवत् क्षणिकवादवदिति च खपुष्पक्षणभङ्गवैलक्षण्यप्रस्तुतेरुदाहरणद्वयमेतत् । तन्निगमयति - तस्मान्न सदसतोः प्रतिपक्षत्वमिति ।
इतश्च न नैकात्म्यं सदसतोरैकात्म्यमेव, द्विः प्रतिषेधस्य प्रकृत्यापत्तेः । कुतः ? विधिप्रतिषेधे-15 कविषयत्वात् , विधिः अन्वयः, प्रतिषेधो व्यतिरेकः, 'तावुभावकविषयौ' इत्येतत् प्रत्येकवस्तुस्वरूपप्रतिपत्त्यर्थतदतत्प्रवृत्तिव्यावृत्तिसदसदात्मक इति अविभक्तस्वरूपपर्यनुभवोऽतीतानागतवर्तमानभिन्न भवनसदसदेकक्रियः इत्यादिवचनात् सिद्धम् । तस्मात् सदसदैकात्म्यमेव भावितैकात्म्यचेतनाचेतनत्ववत् , यथा च चेतनाचेतनयोविधिप्रतिषेधैकविषयत्वेन भावयित्वा चेतनोऽचेतन इत्युक्तं तथेहापि द्रव्यादिसदसदैकात्म्याद् नास्ति सदसतोः प्रतिपक्षतेति ।
20 यदपि चेत्यादि । सदसतोः प्रतिपक्षत्वभावनार्थं वैधर्म्यमुच्यते त्वया सँत् सोपाख्यमसद् निरुपाख्यमिति तदपि नोपपद्यते, सतोऽप्यनुपाख्यत्वात् । को हीत्यादि, वस्तुनि वस्तुनि रूपरसादौ ३३७.२
यो योऽसाधारण आत्मा पूर्वक्षणे उत्तरे च क्षणे विलक्षणस्तस्य भावः सत्त्वम् , तेन सत्त्वेन प्रतिवस्तु प्रतिक्षणसत्त्वेन च सद् वस्तु तदुपाख्यातुं केनचिदशक्यम् , असाधारणत्वात् , यदसाधारणं न तदुपाख्यातुं शक्यते स्वसुखादिपर्यनुभववत् । तस्मादू नायमेकान्तः सत् सोपाख्यमेवेति । स्यान्मतम् -- 25 न ब्रूमः ‘सत् सोपाख्यमेव' इति, यतोऽस्य व्यभिचार उच्यते। किं तर्हि ? सत् सोपाख्यं निरुपाख्यं
१ सत् भा० ॥ २ कत्वं प्रदर्शत भा० । कत्वं प्रदर्शन डे० वि० । कत्वप्रदर्शन पा० २० ॥ ३ सत एचंपकस्य भा० । सत एवं चंपकस्य पा० डे० वि० । सत एव चंपकस्य रं० ॥ ४ दृश्यतां पृ० ४९२ पं० २॥ ५त्मकमिति प्र० । दृश्यतां पृ० ४९२ पं. २॥ ६ दृश्यतां पृ. ३७२ पं० ७॥ ७.दृश्यतां पृ. ४९१५०६॥ ८ ययोरसाधारण प्र०॥ ९क्षस्तस्य प्र.॥ १० (च यद् वस्तु ?)॥ ११ स्यान्मतं ब्रूमःप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org