________________
४९२
न्यायागमानुसारिणीवृत्त्यलड़तम् [सप्तम उभयोभयारे ग्रीवादित्ववत् । भवन् सन् भवति प्रत्येकवस्तुस्वरूपप्रतिपत्त्यर्थतवतत्प्रवृत्तव्यावृत्त सदसदात्मकः खतोऽत्यन्ताविभक्तवृत्तिपर्यनुभवोऽभूतखपुष्पविलक्षणोऽर्थान्तरभूतक्षणभङ्गविलक्षणश्चातीतानागतवर्तमानभिन्नभवनसदसदेकक्रियः आकाशवत्। तथा तन्तुपटाद्यपि क्रमभावि सदसत्, तथा युगपद्भावि खमपि, इतोऽपीतोऽपि ।
5 मिति । इतश्च प्रतिपक्षो न भवति, तदात्मकत्वात् , स आत्माऽस्य भावस्याभाव आत्मा, तद्भावात् तदात्मकत्वात् , घटोर्द्धग्रीवादित्ववदेव । इतश्च, तत्प्रवृत्तित्वात् , स एवाभावोऽस्य सतः प्रवृत्तिः, तेनाभावरूपेण भावः प्रवर्तत इत्यर्थः । एक एंव भावाभावरूपेणार्थो घटवद् मृत्पिण्डशिवकादिरूपादियुगपदयुगपद्भाविधर्मभावाभावप्रवृत्तिरिति । अथवा अङ्गमात्मा, आत्मा च प्रवृत्तिरित्यैकार्थ्यमेवेति व्याख्यानं
तदङ्गत्वस्य । 10 भवन् सन् भवतीति सत्त्वं नाम भवत एव नाभवतः । भवनं च कीदृशम् ? अभावानुविद्धम् , इति तदर्शयति - प्रत्येकवस्त्वित्यादि दण्डको यावत् सदसदात्मकः, एकमेकं प्रति प्रत्येकं वस्तुनः स्वरूपं प्रतिपत्तुं प्रत्येकवस्तुस्वरूपप्रतिपत्त्यर्थं तत्प्रवृत्तं घटाख्यं शिवकादिव्यावृत्तं पटादिव्यावृत्तं चं, तस्मात् तदेव घटाख्यं घटात्मना प्रवृत्तं भवति', पटशिवकाद्यात्मना व्यावृत्तं 'न भवति' । अतः सदसदात्मकः । तस्मादभावो भावाङ्गं भावात्मा भावप्रवृत्तिरेव । एवं तावद् युगपद्भाविरूपादिभावेनापि भवन् स घटो 15 नाभावेन स्वाङ्गात्मप्रवृत्तिस्वरूपेण विना भवतीत्युक्तं द्रव्यक्षेत्रापेक्षम् । कालभावापेक्षमप्युच्यते - स एव च ३१६. भविता घटः स्वतोऽत्यन्ताविभक्तवृत्तिपर्यनुभवः तामात्मनो वृत्तिं प्राक् पश्चाच्च परितोऽनुभवति ।
तस्माद्भवनात्मकत्वादभूतखपुष्पविलक्षणः, केनचिद्रूपेण खपुष्पस्याभवनाद् घटस्य च पूर्वोत्तररूपैर्भवनात् । अर्थान्तरभूतक्षणभङ्गविलक्षणश्च प्राक् पश्चा दिदानी च भवनाद् भवनस्य प्रवर्तनस्य द्रव्यार्थतोऽत्यन्तमभिन्नत्वात् क्षणभङ्गवादेऽत्यन्तं क्षणे क्षणेऽन्यत्वाभ्युपगमात् तद्विलक्षण इति। नन्वेवं द्रव्यार्थभवनस्याभेदादभवनं 20 निरवकाशमेवेति, एतच्च न भवतीत्यत आह - अतीतानागतवर्तमानभिन्नभवनसदसदेकक्रियः, यान्यतीतानि भवनान्यनागतानि च तानि वर्तमानभवनाद् भिन्नानि देशकालाकारनिमित्तादिभेदात् , तेभ्यश्च वर्तमानभवनम् , परस्परविलक्षणत्वाच्च परस्पररूपेण न सन्ति, अथ च भवनक्रियैकैव सर्वाणि तान्युच्यन्ते । कथम् ? आकाशवत् , यथा तवाप्याकाशं शब्दादिसमवायिनां घटादिसंयोगिनां चाधारभूतमेकम
विच्छिन्नभवनमपि तेषु घटपटशब्दादिभवनाधारतया भिद्यमानत्वाद् भेदाभेदाभ्यां 'सच्चासच्च' इत्येषणीयम् , 25 अन्यथा तेषां घटशब्दादीनां सङ्करप्रसङ्गात्, तथास्मन्मतेनाप्यवगाहसामान्याद् भवत्येव अङ्गुलिघटाद्यव
गाहेर्भेदादसञ्च, तथोक्तभावनो घटो द्रव्यादि कार्य चेति । यथाकाशं तथा भूतत्वात् तन्तुपटाद्यपि
१ दृश्यतां पृ० ४९३ पं० १३ ॥ २ एव भा० प्रतौ नास्ति ॥ ३ युगपद्भाविधर्म प्र० ॥ ४°मात्मा च प्रवृ भा० ॥ ५ भवनं की य० ॥ ६ प्रति प्रत्ये वस्तुनः भा० । प्रत्येकं वस्तुनः भा० ॥ ७ चा भा० ॥ ८ ( भवन् सन् घटो ? ), दृश्यतां पृ० ४९२ पं० १० ॥९ स्वतात्यतावि य० । स्वतोत्यंगोताव भा० ॥ १० द्भावना प्र० ॥ ११ भूतलक्षणभंग भा० । भूतलक्षणं भंग य०॥ १२ देशकालादिस्वरूपज्ञानार्थं दृश्यतां पृ० ३२० पं० ४, १८, २६॥ १३ भवने य० ॥ १४°च्यते २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org