________________
वैशेषिकेण स्याद्वादे दूषणाभिधानम्] द्वादशारं नयचक्रम् दर्शनादसत्, दृष्टं तावत् ...........', इतरथा तन्तुपांखादिष्वविशेषः प्रागपि व्यापाराभावश्च स्यात्, दृष्टा तु क्रिया............", उभयैकान्ते दोषदर्शनात् सदेवासदेव वेति चायुक्त एकान्तः, सदसदात्मकत्वात् कार्यस्य उपादाननियमः क्रिया च युज्यते' इति, तन्न, विकल्पानुपपत्तेः। संदेवासत् सदसत् खेनैवात्मना सचासच अन्येनात्मना सद् घटात्मना चासत्? न तावत्..... असत्त्वप्रति-5 पक्षश्च सत्त्वम् । सत् सोपाख्यमसन्निरुपाख्यम्.......... सदसत्त्वं न भवतीत्यर्थः। अत्र सतोऽसत्प्रतिपक्षत्वमसिद्धं तदङ्गत्वात् तदात्मकत्वात् तत्प्रवृत्तित्वात् घटोर्द्ध
पदार्था कुविन्दस्य क्रिया न स्यात् । उपादाननियमतदर्थव्यापारौ सदसत्त्वे कार्यस्य हेतू , दृष्टं तावदित्यादिना समर्थयति । अनिष्टं चापादयति - तथानिच्छतः तन्तुपांस्वादिष्वविशेषः स्यादुपादानमेवानुपादानमेव वा, लब्धात्मपदार्थकारकव्यापाराभाववत् प्रागपि व्यापाराभावः स्यादिति च यथासङ्ख्यम् । 10 निगमयति यथासम्भवं दृष्टा तु क्रियेत्यादि । उभयैकान्ते दोषदर्शनादिति सदेवाऽसदेव चेत्येकान्ते । सदेवासदेव वेति चायुक्त एकान्तः, सदसदात्मकत्वात् कार्यस्य सत्पक्षमाश्रित्योपादाननियमो युक्तः, असत्पक्षमाश्रित्य क्रिया युक्तेति । यदेतत् सैद्धार्थीयं मतं तन्न, विकल्पानुपपत्तेरित्यादि । सदेवासत् सदसदित्यादि प्रत्युच्चारणं संक्षेपेण विकल्पद्वयेन सोपपत्तिकं स्वेनैवात्मना सच्चासच अन्येनात्मना सदिति यावद् घटात्मना चासदिति ।
15 न तावदित्यादि प्रथमं तावद् विकल्पं व्यवस्थाप्य सूत्रेण दूषणमाह सव्याख्यानं "सोपवर्णनं यावदसत्त्वप्रतिपक्षश्च सत्त्वमिति गतार्थम् । सतोऽसता विरोधः प्रातिपक्ष्यं वैधर्म्यमेव हेतुः । मा मंस्थाः सोऽसिद्ध इति, अतस्तत्प्रदर्शनार्थमाह-सत् सोपाख्यमित्यादि वैधर्म्यस्फुटीकरणं यावत् सदसत्त्वं न ३३६-१ भवतीत्यर्थ इति सुव्याख्यातम् ।
अत्राचार्य उत्तरमाह - अत्र त्वत्साधने सतोऽसत्प्रतिपक्षत्वं विरोधो वैधर्म्यमसिद्धम् । कुतः ? 20 तदङ्गत्वात् , अङ्गमवयवस्तदेकदेशः, यद् यस्याङ्ग स तस्य प्रतिपक्षो न भवति, यथा घटस्योर्द्धग्रीवादित्व
१ 'दृष्टं तावत् पटार्थितायां तन्तूनामेवोपादानं न तु पांस्वादीनाम , एवं पटार्थश्च कुविन्दस्य व्यापारो दृष्टः' इत्याशयो भाति ॥ २ 'दृष्टा तु क्रिया पटार्था कुविन्दस्य तन्तूनामेव चोपादानम् ; तस्मादुपादाननियमतदर्थव्यापाराभ्यां सदसत् कार्यम् ।' इत्याशयो भाति ॥ ३ अत्र 'किं येनैवात्मना सत् तेनैव असत्, आहोखित् आपेक्षिक सदसत्त्वम् अन्येनात्मना मृदादिना प्राक् सद् घटादि कार्य घटात्मना चासत् ?' इति विकल्पद्वयस्याशयो भाति ॥ ४ 'न तावद् येनैवात्मना सत् तेनैवात्मना असत् , सदसतोवैधात् । यदुक्तम्-सदसतोवैधात् कार्ये सदसत्ता न [वै० सू० ९।१।९], सत्त्वप्रतिपक्षोऽसत्त्वमसत्त्वप्रतिपक्षश्च सत्त्वम् , सत् सोपाख्यम् असन्निरुपाख्यम् , तयोवैधात् एकस्मिन् कार्ये सदसत्त्वं न भवतीत्यर्थः ।' इत्याशयो भाति ॥ ५ प्रथमाविभक्त्यन्तत्वे इयमेव वाक्ययोजना समीचीना । द्वितीयाविभक्त्यन्तत्वे तु 'हेतू समर्थयति' इत्यन्वयो ज्ञेयः ॥ ६ दृष्टां प्र० ॥ ७ चेति डे० वि० ॥ ८ वायुक्त य० ॥ ९ सच्चासच्चा प्र० ॥ १० द्वितीयविकल्पस्य खरूपं दूषणं तत्परिहारादिकं च ज्ञातुं दृश्यतां पृ० ४९९, ५०० ॥ ११ सोवर्णनं प्र० ॥ १२ पक्षं च प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org