________________
४९०
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [ सप्तम उभयोभयारे ननु मया विगृयैवात्र वादः सैद्धार्थीयमतावलम्बिनं त्वामेवोद्दिश्य । यदच्यते सैद्धार्थीयैः 'उपादाननियमदर्शनात् सत् कार्य तिलतैलवत् तक्रियाद्यसत्त्व
नास्तीति । तथा क्रियागुणव्यपदेशाभावादसत् [वै० सू० ९।१७ ] इति असदिति भूताप्रत्यक्षत्वाद्
भूतस्मृतेर्विरोधिप्रत्यक्षत्वाच्च । तैथाभावेऽभावात् [वै० सू० ९।१७ ] इति च प्रागभावप्रध्वंसाभाववर्णनं 5 च । सर्वत्र सदसत्त्वमेव वर्णितमेकमत्यन्ताभावं मुक्त्वा शशविषाणादिवदेकान्तनिरात्मकत्वानभ्युपगमादिति । अंत इदं जैनेन्द्रत्वमेव सदसद्वादित्वं प्रतिपद्य बहुधा प्रज्ञाप्य च मा भूदृजुजनेष्वविविक्तप्रज्ञेषु जैनानामेव गौरवं 'तत्त्वज्ञाः' इति मम च लाघवम् 'अतत्त्वज्ञः' इति त्वयैवं तानविविक्तप्रज्ञान् प्रति संवियते गृह्यते ।
अत्राह – नाहं जैनेन्द्रत्वमभ्युपैमि, न चाविविक्तप्रज्ञान प्रति संवृणोमि । ननु मया "विगृह्मैवात्र 10वादः 'सदसतोवैधात् कार्ये सदसत्ता न' [वै० सू० ९।१।१२] इत्यनेन सूत्रेण । स पुनर्वादः सिद्धार्थ३३... सुतमतावलम्बिनं सदसदैकात्म्यवादिनं त्वामेवोद्दिश्य । यदुच्यत इत्यादि सैद्धार्थीयमतप्रदर्शनार्थः
पूर्वपक्षः । ते हि सैद्धार्थीयाः सदसदेकात्मत्वं वस्तुनोऽभिलषन्त इत्थमुपपत्तिं ब्रूयुः, तद्यथा- उपादाननियमदर्शनात् सत् कार्य तिलतैलवत् , तक्रियाद्यसत्त्वदर्शनादसद् "वीरणेष्विव घटो मृद्यपीति । इतरथा अत्यन्तासत्कार्यवादे न स्यादुपादाननियमः खपुष्पस्येव, अत्यन्तसति च तन्त्ववस्थायामेव पटे
कपालादेर्ग्रहणाद् विनाशं परिकल्प्योत्पद्यते, अन्यथा कथमिव न दृश्येत तथात्वस्याविशेषात् । प्रागभावे तु तथाभावे भावप्रत्यक्षत्वाच्च (तथाऽभावे भावप्रत्यक्षत्वाच्च ? ) [वै० सू० ९।११७ ], मृत्पिण्डावस्थायां प्रागभावे घटविषयं प्रत्यक्षज्ञानं नाभूत् , इदानीं तु घटविषयं विरुद्धं विज्ञानमुदभूत् स्मर्यते चाभावावस्था, तस्मादिदानीमयं भावः समभूत् पूर्वमस्याभाव एव चासीदिति प्रागभावे 'असत्' इति निश्चयज्ञानम् । एतेनाघटोऽगौरधर्मश्च व्याख्यातः [वै० सू० ९।१।८], यथा हि स्थाल्यां घट इत्युत्पन्नविज्ञानस्य कारणान्तरितसम्यक्प्रत्यय उत्पद्यते 'नायं घटः, स्थालीयम्' इति तदपि घटप्रत्ययस्याभावात् तस्य च स्मरणाद् विरुद्धस्य च स्थाल्यादेदेर्शनादू बोद्धव्यम् । एवमश्वे 'अगौः' इति। त[था] सामान्यतो दर्शनाद् रात्रिस्नानादेधर्मत्वे सम्भाविते अधर्म इत्युत्पद्यत इति चेतनाचेतनातीन्द्रियभेदेनोदाहरणत्रयम्।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P. पृ० ३० B-३१ A॥
१ भूतप्र प्र० । अत्र चन्द्रानन्दविरचितवृत्तियुते वैशेषिकसूत्रे असदिति भूतप्रत्ययाभावाद् भूतस्मृतेर्विरोधिप्रत्यक्षत्वाच्च ज्ञानम् इति पाठः, वैशेषिकसूत्रमूलमात्र[P]प्रतौ तु असदिति भूतप्रत्यक्षाभावाद् भूतस्मृतेर्विरोधिप्रत्यक्षत्वाच्च ज्ञानम् इति पाठः, दृश्यतां पृ० ४८९टि०६ । शङ्करमिश्रविरचितोपस्कारसहिते पैशेषिकसूत्रे तु असदिति भूतप्रत्यक्षाभावाद् भूतस्मृतेर्विरोधिप्रत्यक्षवत् इति पाठः ॥ २ तथाभावात् रं० । तथाभावभावात् भा० । अत्र तथाऽभावे भावात् इति समीचीनं भाति । अत्र चन्द्रानन्दविरचितवृत्तिसहिते वैशेषिकसूत्रे वैशेषिकसूत्रमूलमात्र[P]. प्रतौ च तथाभावे भावप्रत्यक्षत्वाच्च इति पाठः, दृश्यतां पृ० ४८९ टि०६ । शङ्करमिश्रप्रणीतोपस्कारसहिते वैशेषिकसूत्रे तु “तथाऽभावे भावप्रत्यक्षत्वाच्च [ वै० सू० ९।११७], सामान्यवाच्यप्ययम् 'अभाव'शब्दः प्रकरणात् प्रागभावपरः, यथा प्रध्वंसे प्रत्यक्षज्ञान तथा प्रागभावेऽपि, कुतः? भावप्रत्यक्षत्वात् , भावस्य व्यूह्यमानवीरणादेः प्रत्यक्षत्वात् प्रत्यक्षेण विषयीक्रियमाणत्वात् । यद्वा भावस्याधिकरणस्य प्रतियोगिनश्च प्रत्यक्षत्वात् योग्यत्वादित्यर्थः । संसर्गाभावग्रहेऽधिकरणयोग्यतायाः प्रतियोगियोग्यतायाश्च तन्त्रत्वात् । चकारात् प्रतियोगिस्मरणं उक्तं च तर्क समुच्चिनोति ।" इति ॥ ३ अद इदं जैनेन्द्रत्वमेव सदसत्वादित्वं प्र०॥४"विगृह्येति विजिगीषया, न तत्त्वबुभुत्सयेति" - न्यायभा० ४।२।५१॥५ दृश्यतां पृ० ४६० टि. १॥ ६सिद्धार्थो नाम नरेन्द्रः, तस्य सुतः श्रमणो भगवान् महावीरः 'वर्धमानः' इत्यपराभिधानः, तन्मतावलम्बिनं जैनमित्यर्थः ॥ ७वीरणोष्विवद्वटोभा०1वीरणोब्धिवद्यटोपा० डे। वीरणोब्धिवद्धटो वि०वीरणाब्धिवद्यटोरं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org