________________
सदसदैकात्म्योपपादनम् ] - द्वादशारं नयचक्रम्
४८९ ___यदापि सत्तया सम्बद्धं तदापि सदसत् त्वन्मतेनैव । यत् तत् कार्य सत्तया सम्बद्धं सदित्यभिधीयते ननु तत् स्वसत्तयैव सत् न सत्तासत्तया । सत्तापि आश्रयप्रतिलम्भात् सती एव अभिव्यज्यते कारणकार्याकारणाकार्यनित्यानित्यसम्बन्ध्यसम्बन्धिजातिमदजातिभेदात् तन्तुसमवायवत् । इतरेतराभावादिवर्णनैश्च सर्वत्र सदसदैकात्म्योपवर्णनमेव । अत इदं जैनेन्द्रत्वमेव प्रतिपद्य प्रज्ञाप्य च अविविक्तप्रज्ञान प्रति संवियते ।
किञ्चान्यत् , तिष्ठतु तावत् प्राक् सत्तया सम्बन्धात् कार्यस्य सदसत्त्वम् यदापि सत्तया सम्बद्धं तदापि सदसत् त्वन्मतेनैव, तद्यथा- यत् तत् कार्य सत्तया सम्बद्धं सदित्यभिधीयते सत्तया विशेषेणभूतया विशेष्यते दण्डेनेव दण्डी विशेष्यत्वात् ननु तत् स्वसत्तयैव सत् लब्धात्मलाभमेव दण्डविशिष्टदेवदत्तवत् , न सत्तासत्तया, न हि दण्डसम्बन्धादू देवदत्तोऽसन् सन् क्रियते, 'किं तर्हि ? सन्नव दण्डित्व- 10 व्यपदेशभाग् भवति स्वसत्तया सन् दण्डिसत्तया चासंस्तदेति सदसन् । तथा सत्कार्यं सत्तासम्बन्धकाले सदेव स्वसत्तया खपुष्पाद्यवस्तुवैधात् । तथा सत्तापि न वस्तुसत्तया असती सती क्रियते, किं तर्हि ? आश्रयप्रतिलम्भात् सत्येवाभिव्यज्यते । तदुभयं वस्तुसत्सया सदेव सत्तादि द्रव्यादि च सम्बन्धिसत्तया नास्तीत्यर्थः । कुतः ? कारणकार्येत्यादिहेतोर्यावद् भेदादिति । 'द्रव्यादि वस्तु कार्य कारणं च, ३३५-१ • सत्ता त्वकार्यमकारणं च, नित्या सत्ता, द्रव्याद्यनित्यम् , सम्बन्धि द्रव्यादि, सत्ता असम्बन्धिनी, जातिमद् 15
द्रव्यादि, अजातिः सत्ता' इत्येभ्यो भेदेभ्यो भिन्नत्वात् । तन्तुसमवायवत् , यथा तन्तवः कारणादिधर्माणस्तथा द्रव्यादयः, यथा समवायोऽकारणादिधर्मा तथा सत्तेति । दृष्टान्तदाान्तिकयोश्च सदसत्त्वयोजना स्वभावसम्बन्धसत्ताभ्यां कर्तव्या । तस्मात् सदसत्त्वैकात्म्योपपत्तिरेव ।।
किञ्चान्यत्, इतरेतराभावादिवर्णनैश्च त्वयैव सर्वत्र सदसदैकात्म्योपवर्णनमेव 'कृतम्' इति वाक्यशेषः । सञ्चासत् [वै० सू० ९।१।४] इतीतरेतराभाववर्णनं घटः सन्नेव स्वात्मना पटाद्यात्मना 20
१सदापि प्र० ॥ २षभूतया प्र० ॥ ३ न सत्वासत्तया य० । न सत्तया भा० ॥ ४ °म्बन्धा देवदत्तो भा० । 'म्बन्धो देवदत्तो य०। (°म्बन्धादेव देवदत्तो ? ) ॥ ५ किंतु तर्हि भा० ॥ ६ “इदानीमनुमानं व्याचिख्यासुस्तस्य विषयं दर्शयति -क्रियागुणव्यपदेशाभावादसत् [वै० सू० ९।१।१], न तावत् कार्य प्रागुत्पत्तेः प्रत्यक्षेण गृह्यते। नाप्यनुमानेन, सति लिङ्गे तस्य भावात् , लिङ्गाभावश्च तदीययोः क्रियागुणयोरनुपलब्धेः, न चान्यद् 'व्यपदेश'शब्दसूचितं लिङ्गमस्ति, तस्मात् प्रागुत्पत्तेरसत् । पश्चात् सदसत [ वै० सू० ९।१।२], सद्भुतं च कार्य प्रध्वस्तमुत्तरकालमसदेव, न सतस्तिरोधानं क्रियागुणव्यपदेशाभावादेव । मध्ये तु असतः सत क्रियागुणव्यपदेशा(श?)भावादर्थान्तरम् [वै० सू०९।१।३], प्रध्वंसात् पूर्वमुत्पत्तेरुत्तरकालमसतोऽर्थान्तरभूतं वस्तु 'सत्' इत्युच्यते क्रियागुणव्यपदेशानां भावात् । सच्चासत् [वै० सू० ९।१।४ ], सदपि वस्तु भावान्तरनिषेधेन गौरवो न भवतीति, कार्याकरणेन नायं गौर्यो न वहति 'असत्' इत्युपचर्यते । यच्चान्यत् सतस्तदप्यसत् [वै० सू० ९।१।५], सतश्च वस्तुनो यदन्यदत्यन्ताभावरूपं प्रागुपाधिप्रध्वंसाभावाविषयं शशविषाणादि तदप्यसदेव । असतामविशेषात् प्रागसति कथं कारकप्रवृत्तिर्नान्यत्रेति चेत् , न, विशेषग्रहणात् , तत्र असदिति भूतप्रत्ययाभावाद् (भूतप्रत्यक्षाभावाद् !') भूतस्मृतेविरोधिप्रत्यक्षत्वाञ्च ज्ञानम् [ वै० सू० ९।१।६], प्रध्वंसासति स(?) असदिति ज्ञानं भूतस्य वस्तुनः पूर्ववदिदानी दर्शनाभावात् तस्य च भूतस्य वस्तुनः स्मरणाद् विरोधिनश्च
नय०६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org