________________
૪૮૮
न्यायागमानुसारिणीवृत्यलङ्कतम् [सप्तम उभयोभयारे ___ नन्वेवं तदव्यवहृतेः प्रागभावभेदवदभूतत्वमेव, अथ यदेतदभूतत्वं तत् किं भूतस्य आहोखिदभूतस्य ? यदि भूतस्य ततः सदसदैकात्म्योपपत्तिरेव । अथ [अभूतस्य ? ] अभूतत्वं ततो द्रव्यादेरभावहेतुर्याच्यः। अहेतुतो[5]भवने क्षणिकशून्यतादिव्युत्पत्तिवदभाव एव । न चेत्, पूर्ववत् सदसदैकात्म्योपपत्तिरेव ।
5 वस्तुत्रयं स्वभावसत् खेनात्मनास्ति तत्सत् , सम्बन्धसद्भावेन नास्तीत्यतदसत् , सच्चासञ्चेत्यत्यन्तमविरुद्धत्वात् सदसत् त्वन्मतेनैव । तथा द्रव्यगुणकर्माख्यं कार्यत्रयमुत्पन्नमात्र सामान्यादिवत् तदतत्सदसदिति सिद्धम् । तस्य दृष्टान्तद्वयस्य व्याख्या सामान्यादीनि स्वात्मनेत्यादि गतार्था यथाक्रमं यावत् स्वसन्त्यपि न भवन्ति । तस्मात् त्वन्मतेनैव सदसदैकात्म्यानुपपत्तेरसत्वं नास्ति, उपपत्तरेव सत्त्वं सिद्धम् । तत् पुनरसत्त्वं कथं तर्हि ? इति, उच्यते - अभूतत्वादिति साधूक्तमिति । 10 इतर आह - नन्वेवं तदव्यवहृतेः प्रांगभावभेदवदभूतत्वमेव, यथा तस्योत्पन्नमात्रघटद्रव्यादेः प्राक् कुशूल-कोस-स्थासक-शिवक-पिण्ड-मृदवस्था भिरभावभेदैर्जलाद्याहरणादिव्यवहारो नास्तीति तत्र घटा
सत्त्वं तथा तदव्यवहृतेरभूतत्वमेव प्राक् सत्तासम्बन्धात् सदसदात्मकस्य कार्यस्य, को दोषः ? इति । - 'अत्रेदं सम्प्रधार्यम् – अथ यदेतदभूतत्वमित्यादि विकल्पद्वयोपन्यासेन प्रश्नो गतार्थः । तत्रोत्तरम् – यदि
भूतस्य द्रव्यादेरुत्पन्नमात्रस्याव्यवहारादभूतत्वमिष्यते तदेव भूतं वस्त्वात्मना तदेव चाभूतमव्यवहारात्मने15 त्यतः सत्त्वासत्त्वाविरोधितेति सदसदैकात्म्योपपत्तिरेव । अथाभ्युपगमविरुद्धमैकात्म्यं मा भूदिति
अभूतत्वमिष्यते ततो द्रव्यादेरभावहेतुर्वाच्यः कार्यस्य, केन हेतुना तदभूतं कार्य स्वकारणेषु समवेतमुत्पन्नमात्रमस्मदुक्ताविरोधेहेतुं 'अव्यवहारयोग्यत्वात् सदप्यसत्' इत्येतं मुक्त्वा ? स्यान्मतम् - अहेतुत एवाभूतं तदभावे कारणाभावात् खपुष्पादिवदिति । एतच्चायुक्तम् , यस्मात् अहेतुतो[5]भवने
निष्कारणतोऽसत्त्वे क्षणिकशून्यतादिव्युत्पत्तिवदभाव एव 'स्यात्' इति वाक्यशेषः । यथा पूर्ववस्तुनि २२४४निरुद्धे पश्चादुत्तरमुत्पद्यमानं निर्हेतुकमिति प्राप्तं क्षणिकवादित्वम् , तस्याप्युत्पन्नस्याहेतुत एव विनाशाशंस
नात् । तच्चाद्रव्यत्वाद् निर्बीजत्वात् खपुष्पवदत्यन्ताभावः स्यात् तथेदमपि स्यात् , अनिष्टं चैतत् । यथा वाऽसिद्ध्ययुक्त्यनुत्पत्तिसामग्रीदर्शनादर्शनादिव्युत्पत्त्या सर्व शून्यं निर्हेतुकोत्पत्तिस्थितिविनाशाभावसाधर्म्यात् खपुष्पवत् स्यात् । आदिग्रहणात् प्रतीत्योत्पादसमुदायसन्तानादिसंवृतिव्युत्पत्तिवत् । न चेत् पूर्ववदिति, मा भूदेषोऽत्यन्ताभावदोष इति सहेतुककार्याभूतत्वाभ्युपगमेऽस्मदुक्तसदसदैकात्म्योपपत्तिरेव 25 प्राप्नोति । एवं तावत् प्राक् सत्तासम्बन्धात् सदसत् कार्यमिति प्रतिपादितम् ।
३३४-२
१'त्येतदसत् प्र० ॥ २ दृश्यतां पृ० ४८७ पं० ४ ॥ ३ प्रागभेदभावभेद भा० वि० । प्रागभेदभावाभेद भा० वि० विना ॥ ४ सच्चासत्वावि य० । सच्चावि भा०॥ ५ हेतुकम् प्र०॥ ६ स्यान्मतनहेतुत भा०। स्यान्मतं न हेतुत य० ॥ ७°दिवति प्र० ॥ ८ स्याहेतु एव वितासामंसतात् प्र० ॥ ९ यथा वाऽसिद्ध. युक्त्यानुय० । यथावासिद्धयुक्त्यानु भा० । (अथवाऽसिद्ध्ययुक्त्यनु ?) । “अत्रोपपत्तिप्रश्नः - अथ कथं खपरोभयाभावः ? ब्रूमः - एभ्यो हेतुभ्यः असिझ्ययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः ।" - इति नयचक्रवृत्तौ द्वादशेऽरे विस्तरेण वश्यते शन्यवादे ॥ १० दर्शनादिव्यु डे०॥ ११ भूदषों य० । भूदेतेषां भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org