________________
सत्तायाः सदसत्सत्करत्वनिरासः] द्वादशारं नयचक्रम्
४८७ सात्मकत्वात् प्रत्येकं सत्त्वात् खभावसद्भूतत्वात् सामान्यादिवत् । असदेव वा स्यात् सत्त्वसमवायलभ्यसद्भावत्वात् कार्यवत् । तस्माद् 'न सतामपि द्रव्यादीनां सत्करी सत्ता व्यर्थत्वात्' इति साधूक्तम् ।
नापि सदसतां सत्करी सत्ता अभूतत्वात् सदसदात्मकत्वस्य त्वन्मतेनैव खपुष्पवत् । या तु त्वयोक्तोपपत्तिः 'सदसदैकात्म्यानुपपत्तेः' इति सा नोपपत्तिः,5 त्वन्मतेनैव सदसदैकात्म्योपपत्तेः । अत्यन्ताविरुद्धत्वात् सदसदात्मकं कार्य प्राक् सत्तासम्बन्धादपि, सामान्यादिद्रव्यादितदतत्सदसद्वत् । सामान्यादीनि स्वात्मना
"खसन्त्यपि न भवन्ति । विशेषसमवायाः सन्तो नान्यप्रकाशा नाधेयसत्त्वायो नाप्रतिपूर्णसत्त्वादयः तथा द्रव्यादीनि । एवं सात्मकत्वात् प्रत्येकं सत्त्वात् स्वभावसद्भूतत्वादिति हेतवः, मूलहेतोरेव पर्यायवाचिनो वा । ऐवमनभ्यु- 10 पगमे असदेव वा स्यात् सत्त्वसमवायलभ्यसद्भावत्वात् , सत्त्वसमवायेन लभ्यः सद्भावोऽस्येति द्रव्याद्युत्पन्नमात्रं त्रयमभिसम्बध्यते । कार्यवदिति कारणावस्थायां यत् कार्य स दृष्टान्तः । नन्वेवं सत्त्वसमवायलभ्यसद्भावं तस्यामवायां कार्य न भवतीति चेत्, न, त्वयैव निष्ठासम्बन्धयोरेककालत्वाभ्युपग-१ मेन परिहृतत्वात् ।
तस्मादू न सतामपि द्रव्यादीनां सत्करी सत्ता व्यर्थत्वादिति साधूर्तमिति प्रस्तुतदोषोक्त्यु-15 पपत्त्युपसंहारः । एवं तावदसतां सतां च द्रव्यादीनां सत्करी न भवति सत्ता इत्युक्तम् ।।
____किञ्चान्यत् , नापि सदसतां सत्करी सत्ता, सन्तश्चासन्तश्च द्रव्यादयः सदसन्तो व्यात्मकाः, तेषां सदसतां सदभिधानप्रत्ययकरी सत्ता स्यादिति परस्याभिप्रेतं स्यात् तदपि न घटते । कस्मात् ? अभूतत्वात् सदसदात्मकत्वस्य त्वन्मतेनैव खपुष्पवत्, सत्तासम्बन्धात् प्राग् द्रव्यादि कार्य सदसदपि न भवति अंसदेव तत् स्वतो निरुपाख्यत्वादित्यादिहेतुभिः पूर्ववत् सत्तासम्बन्धलभ्यसत्त्वात् ।20 अथ सत्तासम्बन्धनिरपेक्षमेवास्ति व्यर्थः सत्तासम्बन्ध इत्युक्तम् । तस्मादुभयथापि सदसत्त्वविकल्पो नास्ति । तस्मादभावात् खपुष्पवत् सैत्तया न सम्बध्यते त्वन्मतेनैव, नास्मन्मतेनाप्यस्ति ।
या तु त्वयोक्तोपपत्तिः सदसत्त्वाभावे 'सदसदैकात्म्यानुपपत्तेः' इति सा नोपपत्तिः त्वमतेनैव सदसदैकात्म्योपपत्तेरत्यन्ताविरुद्धत्वं तयोः, अत्यन्ताविरुद्धत्वात् सदसदात्मकं कार्य प्रोक् सत्तासम्बन्धादपि । तद्यथा-सामान्यादि,व्यादितदतत्सदसद्वत् , यथा सामान्यविशेषसमवायाख्यं 25
१ 'सामान्यादीनि खात्मना सन्त्येव सम्बन्धसद्भावेनासन्ति, द्रव्यादीनि च कार्याण्युत्पन्नमात्राणि वसन्त्यपि न भवन्ति' इत्याशयः प्रतिभाति ॥ २ (नान्याधेयखप्रकाशा?)॥ ३ प्रकाशनाधेय प्र० ॥ ४ यो नाप्रतिपूर्णसत्त्वाद य० प्रतिषु नास्ति ॥ ५ एवमभ्युपगमे प्र० ॥ ६ स्थानां प्र०॥ ७ “यच्चेदं 'किं गौ!त्वेनाभिसम्बध्यते अथागौः' इति चोद्यं तन्न प्रतिसमाधानाहं निष्ठासम्बन्धयोरेककालत्वादिति खकारणैः सत्तादिभिश्चि पिण्डस्याभिसम्बन्ध एवात्मलाभो न पूर्व तस्य गोरूपता अगोरूपता वा” इति प्रशस्तपादभाष्यव्याख्यायां व्योमवत्यां कर्मनिरूपणे ॥ ८ दृश्यतां पृ. ४५९ पं० ३, ४७३ पं० ७॥ ९ भूतत्वात् प्र०॥ १० असदधव तत् प्र०॥ ११ दृश्यतां पृ० ४८० पं० २॥ १२ दृश्यतां पृ० ४६० पं० ६॥ १३ सत्ताद्या भा०॥ १४ दृश्यतां पृ० ४५९ पं० ५॥ १५ प्राक्प्रत्तासम्ब य० । प्राक्प्रवृत्तासम्ब भा०॥ १६ द्रव्यादौ प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org