________________
न्यायागमानुसारिणीवृत्त्यलङ्गतम् [ सप्तम उभयोभयारे इदं तु प्रस्फुटतरं विशेषणसम्बन्धप्रकाशं वस्तु तत्सम्बन्धनियमाय त्वयैवाभ्युपगतमिति दर्शयितुं वचनं यदुक्तम् - अथवा विशेषणसम्बन्धमन्तरेणापि वस्तुमात्राणां परस्परातिशयोऽस्ति तेन विशेषणसम्बन्धनियमसिद्धिः [ ] इति ।
चोद्यपरिहारोऽपि चैवं प्रसिद्धिमस्मदुक्तामेव सन्दर्शयति- कथं परस्परातिशय 5 इति चेत् , कथं प्राक्...अतिशयः स्यात् न, दृष्टान्तात् । यथा परपक्षे....... अतिशयस्तैथेहापि स्यात् [ ] इति । खसमयोदाहरणमपि चैतमेवार्थ द्रढयति यदुच्यतेसामान्यादिवद्वा...."स(ख)त एव स्यात् [ ] इति ।
न द्रव्यादि अन्यायखप्रकाशं नाधेयसत्त्वादि नाप्रतिपूर्णसत्त्वादि सत्त्वात
किश्चान्यत् , इदं तु प्रस्फुटतरमित्यादि । विशेषणस्य सत्ताद्रव्यत्वादेः सम्बन्धः प्रकाशोऽस्मि10निति विशेषणसम्बन्धप्रकाशं वस्तु । तेन वस्तुनैव प्रकाश्यते विशेषणमिति तदेव वस्तु प्रकाशनम् । तेन च वस्तुना नापेक्षितः सामान्येन सह सम्बन्धः, सामान्यमेव वस्तुना सह सम्बन्धमपेक्षत इति तत्सम्बन्धनियमाय त्वयैवाभ्युपगतमिति दर्शयितुं वचनोपन्यासः । कतमस्य वचनस्योपन्यासः ? उच्यते - यदुक्तं वस्त्वात्मावधारणे कृतेऽतिर्शयाभावाद् विशेषसम्बन्धाभाव इति चोदिते विकल्पान्तरेण परिहारवचनं तद् व्यक्ततरं वस्त्वेवार्थान्तरनिरपेक्षं विशेषणानामपि प्रकाशकमिति । तद्यथा-यदुक्तम् 15 'अथवा विशेषणसम्बन्धमन्तरेणापि वस्तुमात्राणां परस्परातिशयोऽस्ति, तेन विशेषणसम्बन्धनियमसिद्धिः' [ ] इत्येतद् वचनं यथोक्तकारणसामग्र्यसद्भावविशेषाविशेषन्यायप्राणकमिति ।
चोद्यपरिहारोऽपीत्यादि । एतस्मिंश्चार्थे यच्चोदितम् - कथं परस्परातिशयः इति चेदिति, तस्य व्याख्या - कथं प्रागित्यादि गतार्थ यावदतिशयः स्यादिति । अस्य चोद्यस्य परिहारः सोऽपि चैवं
प्रसिद्धिमस्मदुतामेव सन्दर्शयति । कोऽसौ परिहारः ? उच्यते - न, दृष्टान्तादिति । तद्वथाख्या - 20 यथा परपक्ष इत्यादि यावदतिशयस्तथेहापि स्यादिति गतार्थम् ।
यदि परमते सत्त्वरजस्तमसां परस्परातिशयोऽस्ति, तव किम् ? इत्यत्राशङ्कानिषेधार्थ स्वसमयोदाहरणमपि "चैतमेवार्थ द्रढयतीति स्ववचनं तद्वचनप्रदर्शनम् - यदुच्यते सामान्यादिवद्वेत्यादि सव्याख्यानं गतार्थं सोपनयं यावत् स(स्व)त एव स्यादिति ।
अत्र प्रयोगा:-न द्रव्यादि अन्याधेयस्वप्रकाशम्, नान्येनाधेयोऽस्य द्रव्यादेः प्रकाश इति 25 पक्षः, नाधेयसत्त्वादिविशेषणं द्रव्यादि नाप्रतिपूर्णसत्त्वादिविशेषणमिति वा पक्षः, सत्त्वात् , यत
सद् न तदन्याधेयस्वप्रकाशं नाधेयसत्त्वादि नाप्रतिपूर्णसत्त्वादि दृष्टम् , सामान्यादिवत् , यथा सामान्य
१'कथं प्राक् सत्तासम्बन्धाद् द्रव्यगुणकर्मणां परस्परतोऽतिशयः स्यात् ;न, दृष्टान्तात्, यथा परपक्षे सत्तासम्बन्धादृतेऽपि सत्त्वरजस्तमसां परस्परतोऽतिशयस्तथेहापि स्यात्' इत्याशयो भाति ॥ २ दृश्यतां पृ० ४६२ पं० ७॥ ३ दृश्यतां पृ. ४६२ पं० ८। 'यथा सामान्यादि खत एवास्ति अर्थान्तरसम्बन्धनिरपेक्षं तथा द्रव्याद्यपि खत एव स्यात्' इत्याशयोऽत्र भाति ॥ ४ दृश्यता पू. ४८१ पं०२॥ ५ दुक्तमेव प्र०॥ ६इत्यशंका भा०॥ ७चेवमेवार्थ द्रढतीति प्र.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org