________________
सत्तायाः सत्सत्करत्वनिरासः] द्वादशारं नयचक्रम् - जातिकल्पनावच्च यदुक्तं वस्तुमात्रमाविर्भूतमुक्तवद् नियामकतया अविशेषविशेषवृत्तिमात्रेण सामान्यविशेषेण सम्बध्यते तत एतदापन्नम् - स्वत एव वृत्तं वस्तु द्रव्यादिप्रत्ययत्वादिना सम्बध्यते । तस्मादेव तु सामान्यस्यापि प्रकाशकं तदेव, तदाश्रयत्वात् सामान्यविशेषादी[नाम्।
तस्मादेव प्रविभक्तविषयान्वयाद् विचित्रोपभोगक्रियाप्रसिद्धेर्भिन्नेष्वभिन्न-5 व्यवहारप्रसिद्धेश्च न विशेषणसम्बन्धः कल्प्यः । एतद् निदर्शनमात्रम् , सर्वत्र तु घटत्वादावपि कारणसामय्यनियामकसद्भावादेव तत्त्वम् । - किश्चान्यत् , जातिकल्पनावच्चेत्यादि । यथा भवता जातिरन्यानाकाङ्क्षा वस्तुमात्रे वृत्तेन प्रकाशेन खत एव प्रकाशते तथा कारणसमवेतद्रव्यादीत्येतस्यार्थस्य प्रदर्शनार्थं यदुक्तम्-वस्तुमात्रमाविभूतमिति, ३३२-१ उक्तवद् नियामकतैयेति सर्वत्र कारणसामग्यनियामकसद्भावादित्यनेनोक्तन्यायेन स्वेनैव महिम्ना वस्तु 10 नियतत्वाद् विशेषणेन द्रव्यत्वादिना सम्बध्यते । तञ्च द्रव्यत्वादि अविशेषविशेषवृत्तिमात्रं सामान्यविशेषः, अविशेषेण प्रागुक्तेन 'विशेषेण च वृत्तिर्यस्य तदिदमविशेषविशेषवृत्ति द्रव्यत्वादि, तत्परिमाणं तन्मात्रम् , तेनाविशेषविशेषवृत्तिमात्रेण सामान्यविशेषेण सम्बध्यते वस्तुमात्रं तदाविर्भूतमिति । सतः किम् ? इति चेत् , तत एतदापन्नम् - स्वत एव वृत्तं वस्तु ,व्यादिप्रत्ययत्वादिना सम्बध्यते विशेषणं व्यतिरिक्तमनपेक्ष्य सिद्धं प्रकाशते स्वत एव, प्रकाशान्तरेण नार्थ इत्युक्तं भवति । किञ्चान्यत् , 15 तस्मादेव वित्यादि । उक्तादेव न्यायात् सामान्यस्यापि प्रकाशकं तदेव वस्तुमात्रमाविर्भूतम् , तदाश्रयत्वात् सामान्यविशेषादी[नाम् ।
यदप्युक्तं विचित्रोपभोगक्रियाप्रसिद्ध्यर्थं सत्ताद्रव्यत्वादिसम्बन्धः कल्प्यते इति सोऽप्यनेनैव प्रतिपादितः, प्रदीपवद् भूताद् वस्तुनः प्रकाशान्तरनिरपेक्षात् तस्मादेव प्रविभक्तविषयान्वयात्, प्रविभक्तो विषयो द्रव्यत्वस्य कारणसामग्र्यविशेषस्तुल्यजातीयावयवसंयोगादिः कारणगुणपूर्वक्रमः स्वाश्रया- 20 श्रयान्तरक्रियारम्भिगुणादिकृतः तस्य कारणकार्यादिप्रविभागाद् व्यतिरेकात् सदनित्याद्यविशेषान्वयाच तादृक्प्रविभक्तविषयान्वयात् तस्मादेव वस्तुनो विचित्रोपभोगक्रियाप्रसिद्धेर्भिन्नेष्वभिन्नव्यवहारप्रसिद्धेश्चेति द्विप्रकारं पुरुषार्थं दर्शयति । अनयोश्च पुरुषार्थयोरुक्तवद् वस्तुत एव सिद्धेर्न विशेषण- ३३१-२ सम्बन्धः कल्प्यः, सत्ताद्रव्यत्वादिविशेषणसम्बन्धो न युक्तः कल्पयितुमानर्थक्यादिति ।
ऐतद् निदर्शनमात्रम् , तद्भेदानामपि सम्बन्धकल्पनानर्थक्यमुक्तन्यायेनेत्यतोऽतिदिशति -सर्वत्र 25 तु घटस्वादावपि 'आदि'ग्रहणाद् गोत्वमनुष्यत्वादिषु कारणसामग्र्यनियामकसद्भावादेव तत्त्वं घटत्वगोत्वमनुष्यत्वादि स्वत एव, न सामान्यविशेषात् त्वत्कल्पितात्, इति त्वद्वचनादेव वस्तुत एव सर्व त्वदिष्टं प्रतिप्राप्तं नार्थान्तरसम्बन्धात् । तदेव च विशेषणस्यापि सत्तादेः प्रकाशकमिति स्थितम् । .
१°न्यान्यानाकाङ्क्षा भा० ॥ २ दृश्यतां पृ० ४८१ पं० १॥ ३॥ एतदन्तर्गतः पाठः प्रतिषु द्विर्भूतः ॥ ४ दृश्यतां पृ० ४८२ पं० २॥ ५विशेषणेन च प्र०॥ ६द्रव्यादिना सम्बध्यते भा०॥ ७कस्मादेव प्र०॥ ८ दृश्यतां पृ० ४७४ पं० १॥ ९ दृश्यतां पृ० ४८१ पं०५॥ १० तकारण पा० डे० २० । तत्कारण वि०॥ ११°षायाधच्च भा० । षायावश्च य०॥ १२ वस्तुत य० प्रतिषु नास्ति ॥ १३ दृश्यतां पृ०४८२ पं०३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org