________________
४८४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे शेषविशेषणविनिर्मुक्तमपि न भवति' इत्येतदपि त्वयैव भावितम् , तुल्यजातीयावयवसंयोगादिभिन्नाविशेषविशिष्टवस्तुवतत्त्वप्रदर्शनादस्ति हि..... नेतर नेतरत्र ।
पुनरपि च कारणसामय्या अविशेषेण योगादबादिष्वपि तुल्यजातीयाद्यवयवसंयोगादपि द्रव्यत्वं भावितम् । एतेन पृथिव्यादिभिन्न....."द्रव्यत्वमुक्तम् । 5 तुल्यजातिभेदेऽपि च अविशेषविशेषणाविनिर्मुक्तत्वं वस्तुनः, द्वयोर्बहुषु वा [ ] इति वचनात् ।
निलयनद्वारेण च सर्वद्रव्यगुणकर्मणां नियतविषयस्वजातिगतविशेषवर्णनादविशेषोऽप्याहत्य भेरीमभ्युपगत इति द्रष्टव्यम् । तस्मात् कारणगतविशेषाविशेषकृतातिशयादेव कार्यगतविशेषाविशेषविशेषणसम्बन्धिसिद्धिः । एवं तावद् विशेषणवर्णनद्वारेणोक्तम् । 10 किश्चान्यत् , अविशेषेत्यादि । 'अविशेषविशेषणविनिर्मुक्तमपि न भवति' इत्येतदपि त्वयैव भावितम् । तद्यथा-तुल्यजातीयावयवसंयोगादिभिन्नेत्यादि । तुल्यजातीयाः तुल्यप्रकारा अवयवाः, तेषां पार्थिवादीनां गन्धादिमत्त्वप्रकाराणां संयोगैर्द्रव्यं पार्थिवं कार्य जायते, आदिग्रहणाद् गुणकर्मणोरपि
स्वकारणसान्निध्यप्रकारता प्रागुक्ता । तैः संयोगोंदिभिर्भिन्नत्वेऽप्यविशेषो द्रव्यादीनामित्यनेनाविशेषण ३३१-२ विशिष्टमितरविलक्षणं वस्तुनः स्वतत्त्वं प्रदर्शितं त्वया । तस्मात् तत्प्रदर्शनादस्ति हीत्याद्युपसंहारग्रन्थो 15 गतार्थो यावद् नेतरद् नेतरत्रेति ।
किञ्चान्यत् , पुनरपि चेत्यादि । रूपरसगन्धस्पर्शवत्सु पृथिव्यवयवेषु संयुक्तेष्वविशेषो दर्शितः । न केवलमेष एवाविशेषः सजातीयगतः स्फुटीकृतस्त्वया, किं तर्हि ? तद्विजातीयेष्वपि द्रव्यत्वं तथा कारणसामय्या अँविशेषेण योगादेबादिष्वपि आप्येष्वपि कारणसामग्र्यास्तुल्यत्वात् तुल्यजातीयाद्यवयवसंयोगादपि द्रव्यत्वं भावितम् , तुल्यजात्यवयवसंयोगाविशेषात् । आदिग्रहणात् तेजोवाय्ववयवसंयोगाद20पीति, अतुल्यजातीयानामपि तुल्यजातीयसंयोगारम्भाविशेषात्[ ] इत्युक्तत्वात् स्फुटीकृतमविशेषविशेषणमिति । अतोऽतिदिशति - एतेन पृथिव्यादिभिन्नेत्यादि गतार्थं यावद् द्रव्यत्वमुक्तमिति ।
किश्चान्यत् , तुल्यजातिभेदेऽपि चेत्यादि यावद् द्वयोर्बहुषु वेति वचनादिति । यापीयमवान्तरजातिर्घटत्वपटत्वाद्याख्या पृथिवीत्वजातिभेदः तस्मिन्नपि च सति अविशेषविशेषणेनाविनिर्मुक्तत्वं वस्तुनः । कस्मात् ? 'द्वित्रिचतुरादिसंयोगात् कार्यद्रव्यमुत्पद्यते' इत्युक्तत्वात् । एवं तावत् सम्बन्ध्यन्तर25 निरपेक्षे वस्तुमात्रे एव "विशेषाविशेषविशेषणसम्बन्धः अतिप्राप्त इत्युक्तम् ।
- १"दस्ति हि परस्परातिशयो द्रव्यादीनाम् , ततो नेतरद् नेतरत्र' इत्याशयो भाति ॥ २ 'पृथिव्यादिभिन्नद्रव्याणामपि तुल्यजातीयाद्यवयवसंयोगारम्भाविशेषाद् द्रव्यत्वमुक्तम्' इत्याशयो भाति ॥ ३ (विशेषविशेषणवर्णनद्वारेणोक्तम् ? विशेषवर्णनद्वारेणोक्तम् )॥ ४ पार्थिवकार्य प्र०॥ ५ गादिभिन्नत्वे प्र०॥ ६ नाविशेषेण विशेषेण विशिष्ट पा० विना । नाविशेषेण विशेषणविशिष्ट पा० । (नाविशेषेण विशेषणेन विशिष्ट ?)॥ ७ नेतरं नेतरेत्रेति भा० । नेतरं नेत्रेति य० ॥ ८ अविशेषण भा० ॥ ९दपादिष्वपि प्र०॥ १०नपि र सति प्र० ॥ ११ विशेषाधिशेषणसम्बन्धः प्र०॥ १२ इति भा०। अति' य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org