________________
प्रशस्तमतिमतखण्डनम्] द्वादशारं नयचक्रम् सामान्यविशेषसम्बन्धो द्रष्टव्यः।
___ अनेन यत्तदुत्पन्नं वस्तुमात्रं तत् स्वत एव परस्परतो विशिष्टमिति स्फुटीकृतम् । विशेषसद्भावस्तावदाहत्य भेरीमभ्युपगतः, तदुपवर्णनद्वारेण चाविशेषोऽपि । 'अविगंमनत्वादिष्वप्यनया युक्त्या सामान्यविशेषेषु कारणसामग्र्यस्य नियामकस्यातिशैयिनः सद्भावात् प्रतिनियत एव सम्बन्धो द्रष्टव्यः ।
इति परिहारे कृते प्रस्तुतनय आह - अनेनेत्यादि । त्वदीयेनैवैतेन परिहारवचनेन यत् तदुत्पन्नं कार्यं वस्तुमात्राभिमतं तत् स्वत एव कारणसामग्र्यातिशयादेव परस्परतो विशिष्टं न सत्ताद्रव्यत्वादि-३३१.१ सम्बन्धनमपेक्ष्येति स्फुटीकृतम् , तेनैव वस्तुभावनेन विशिष्टेन सत्तादिविशेषणसम्बन्धकृत्यस्यांविशेषविशेषाभिधानप्रत्ययहेतोः प्रतिप्रापितत्वात् । ___तत्र विशेषसद्भावस्तावदाहत्य भेरीमभ्युपगतः 'सर्वत्र कारणसामग्र्यनियामकसद्भावात् 10 प्रतिनियतः सामान्यविशेषसम्बन्धो द्रष्टव्यः' इत्युपसंहारवचनात् । तदुपवर्णनद्वारेण चौविशेषोऽपि 'अभ्युपगतः' इति वर्तते । तुल्यजातीयसंयोगारभ्यकार्यत्वाविशेषस्य द्रव्यत्वनिलयनविषयविशेषणवर्णनद्वारेण गुणारब्धगुणान्तरविषयनिलयनगुणत्ववर्णनद्वारेण गुरुत्वाद्यारब्धतदाश्रयाश्रयान्तरसमवेतकर्मविषयकर्मत्वपेक्षमाणो यः संयोगविशेषो नोदनादविभागहेतोः कर्मणः कारणं तद्] नोदनम् , तथाहि-प(पा)दादिभिर्नुद्यमानायां पङ्काख्यायां पृथिव्यां कर्म जायते । वेगापेक्षोऽभिघातादभिहन्यमानस्य विभागहेतोः कर्मणः कारणं संयोगोऽभिघातः, तथाहि-रथादिमिरभिघातात् पृथिव्येकदेशेषु दृश्यते कर्म । संयुक्तसंयोगाच्च, नुद्यमानाभिहन्यमानाभ्यां च संयुक्तेषु भवन्ति कमोणि । तद विशे. षेणादृष्टकारितम् [वै० सू० ५।२।२], यत् खलु विरुद्धक्रियवायुसंयोगात् सर्वस्यां पृथिव्यां कम्पादि कर्म प्रजानां शुभाशुभसूचनायोत्पद्यते तत् सर्वेषामेव शुभाशुभसूचनादू विशेषेणादृष्टकारितम् । अपां संयोगाभावे गुरुत्वात् पतनम् [वै० सू० ५।२।३ ], विधारकवाय्वभ्रसंयोगाभावेऽपा गुरुत्वात् पतनकर्म भवति । तद् विशेषेणादृष्टकारितम् [वै० सू० ५।२।४ ], सस्यानां समृद्धये विनाशाय वा सर्वजनानामदृष्टेन जनितं पतनकर्म अदृष्टकारितमुच्यते । द्रवत्वात् स्यन्दनम् [वै० सू० ५।२।५], विधारकाभावादपां स्यन्दनकर्म द्रवत्वाद् भवति । नाड्या वायुस ५।२।६ ], नाडीति रश्मिः, सवितुर्की रश्मी-शुन्धिश्च शुक्रश्च । शुचिरप आदत्ते शुक्रेण वृद्धिं करोति । शुच्याख्यया नाड्या वायुसंयुक्तया आदित्यप्रयत्नापेक्षयारोहणम् । नोदनात् पीडनात् संयुक्तसंयोगाच्च [वै० सू० ५।२।७ ], नोदनाचित्रदण्डादिभिरारोहणम् , पीडनाद् वस्त्रादिभिः, पीड्यमाननुद्यमानाभ्यां च संयुक्ते । वृक्षाभिसर्पणमित्यदृष्टकारितम् [वै० सू० ५।२।८], वृक्षमूले निषिक्तानामपां वृक्षोपरि गमनमदृष्टेन क्रियते इति । अपां सङ्गातो विलयनं च तेजसः संयोगात् [वै० सू० ५।२।९ ], अपां सङ्घातः काठिन्यं दिव्येन तेजसा संयोगात् , दिव्यभौमाभ्यां तु विलयनम् । तत्रावस्फूर्जथुर्लिङ्गम् [ वै० सू० ५।२।१० ], 'अस्ति दिव्यासु अप्सु तेजः' इत्यत्र तेजसः अवस्फूर्जथुरभ्रान्निःसरणं लिङ्गमिति । वैदिकं च [वै० सू० ५।२।११ ], 'ता अमिं गर्भ दधिरे वभूषा' इति च वैदिकं वाक्यं दिव्यास्वप्सु तेजसो लिङ्गम् । अपां संयोगाद् विभागाच्च स्तनयिनुः [वै० सू० ५।२।१२ ], मेघाशनिशब्दः स्तनयित्नुः । विरुद्धदिक्रियाभ्यां वायुभ्यामा प्रेयमाणानां तरङ्गा(ङ्गी)भूतानां परस्परा भिघाताख्यात् संयोगाच्छब्दः । एकेनापि प्रकुपितेन वायुना व्यवच्छिद्यमानानामपां विभागाच्छन्दः । पृथिवीकर्मणा तेजःकर्म वायकर्म च व्याख्यातम [वै० सू० ५।२।१३ ], यथा नोदनाभिघात. संयक्तसंयोगादृष्टेभ्यः पृथिव्यां कर्म तथा तेजसो वायोश्च । एतदनियतं कर्म।" इति चन्द्रानन्दविरचिताया घशेषिकसूत्रवृत्ती P. पृ. १९-२१॥
१गमकत्वादि प्र०॥ २°शायिनः वि. । शयेनः डे० । शयेन २० ॥ ३ (°भवनेन ?) ।। ४°षेणस' य० ॥ ५ °स्याविशेष्यविशेषाभिधान भा० ॥ ६ दृश्यतां पृ० ४८२ पं० २॥ ७ वाऽवि य० । बावि भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org