________________
૪૮૨
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे आश्रयान्तरे कर्म आरभ्यते तद् वस्तुमानं कार्य कर्मत्वेन सम्बध्यते इत्यस्त्यतिशयः। एतद् निदर्शनमात्रम् , सर्वत्र कारणसामग्र्यनियामकसद्भावात् प्रतिनियत एव
कपित्थफलवृन्तादौ गुरुत्वेन कर्मण्यारब्धे तत्संयुक्ते कीटे पतनमारभ्यते आश्रयान्तरे । तच्चारब्धं वस्तुमात्रं कर्म कार्यमितराभ्यां विशिष्टं कर्मत्वेन सम्बध्यते । इत्यस्त्यतिशय इति दर्शयन् निरतिशयत्वस्या5 सिद्धतामापादयति । एतद् निदर्शनमात्रमित्यादि यावद् द्रष्टव्य इति । सर्वत्र घटत्व-गोत्वादि रूपत्वादि
कारणत्वात् संयोगस्य प्रयत्नोऽपि कारणम् । अतो द्वाभ्या हस्ते कर्म । तथा मसलकर्म हस्तसंयोगाच वै. सू० ५।१।२], तथेति सङ्ख्यामात्रातिदेशः, तेन हस्तमुसलसंयोगो मुसलकर्मणः कारणं पूर्वाधिकृतश्च प्रयत्नः । न तु आत्महस्तसंयोगोऽसमवायिकारणं मुसलकर्मणि, आत्मसंयुक्तहस्तसंयोगादेव] तत्सिद्धेः । अभिघातजे मुसलकर्मणि व्यतिरेकादकारणं हस्तसंयोगः [वै० सू० ५।१।३ ], वेगवद्व्यसंयोगोऽभिघातः, उलूखलाभिघातादुत्पन्ने मुसलस्योत्पतनकर्मणि अकारणं हस्तमुसलसंयोगः पूर्वप्रयत्नस्याभिघाताद् विनष्टत्वात् , 'उत्पततु मुसलद्रव्यम्' इतीच्छाया अभावात् प्रयत्नान्तरस्याभावः, संयोगस्य च कर्मारम्भे सापेक्षकारणत्वात् प्रयत्नरहितो हस्तमुसलसंयोगो न कारणमुत्पतनस्य । तथात्मसंयोगो हस्तमुसलकर्मणि [वै. सू० ५।१।४], यथैव हस्तमुसलसंयोगो मुसलोत्पतनकर्मणि न कारणं तथात्महस्तसंयोगोऽपि हस्तोत्पतनकर्मणि न कारणं संयोगस्य सापेक्षकारणत्वात् 'मुसलेन सहोत्पततु हस्तः' इति [अभिसन्धेरभावेन प्रयत्नस्य चाभावात् । कुतस्तयोरुत्पतनमिति चेत्, मुसलाभिघातात्तु मुसलसंयोगाद्धस्ते कर्म [वै. सू. ५।१।५], उलूखलाभिघातो मुसलस्योत्पतनकर्मणः कारणम् । हस्तमुसलसंयोगस्तु मुसलगतवेगापेक्षो हस्तकर्मणः कारणम् , नाभिघातोऽसमवेतत्वात् । तथात्मकर्म हस्तसंयोगाच्च [वै० सू० ५।१।६], आत्मेति शरीरैकदेशः, यथा चैतदप्रत्ययं हस्ते मुसले च कर्म तथैव हस्तावयवसंयोगाद् हस्तगतवेगापेक्षाद् हस्तोत्पतनकालेऽवयवे तस्मिन्नप्रत्ययं कर्म जायते । संयोगाभावे गुरुत्वात पतनम [ वै० सू० ५।११७], विभागान्निवृत्ते हस्तमुसलसंयोगे गुरुत्वात् पतनं भवति । नोदनविशेषाभावाद नोज़ न तिर्यग् गमनम् [वै० सू० ५।११८ ], नुद्यतेऽनेनेति नोदनं वेगप्रयत्नापेक्षः संयोगविशेषः, प्रेरकप्रयत्नाभावे नोदनाभावाद् नोवं तिर्यग् वा केवलाद् गुरुत्वाद् मुसलादेर्गमनकर्म भवति । कुतो नोदनविशेषः ? प्रयत्नविशेषानोदनविशेषः [वै० सू० ५।१।९], 'अत्र इदं क्षिपामि' इति इच्छाविशेषजः प्रयत्न उत्पन्नो हस्तादेव्यस्य द्रव्यान्तरेण संयोग नोदमाख्यं जनयति। नोदनविशेषाद्दसनविशेषः [वै० सू० ५।१।१०], दूरदेशप्रेरणेच्छाविशिष्टात् प्रयत्नाजातो नोदनविशेषो दूरदेशक्षेपणं करोति । हस्तकर्मणा दारककर्म व्याख्यातम् [वै० सू० ५।१।११], यद् गर्भस्य स्पन्दनादिकर्म तदात्मशरीरैकदेशसंयोगाजीवनपूर्वकप्रयत्नापेक्षाद् भवतीति सप्रत्ययम् , मातुः कार्यावस्करोपसर्पणकर्म गर्भस्याप्रत्ययमात्मसंयोगाददृष्टापेक्षाद् भवतीति । तथा दग्धस्य विस्फोटनम् [वै० सू० ५।१।१२], व्यासक्ते मनसि यद् दग्धस्य हस्तादेर्विक्षेपणं तदपि जीवनपूर्वकप्रयत्नापेक्षादात्महस्तसंयोगाद् भवतीति नाप्रत्ययम्। प्रयत्नाभावे गुरुत्वात् सुप्तस्य पतनम् [वै० सू०५।१।१३], शरीरविधारकप्रयत्नाभावे सुप्तस्याङ्गानां पतनं गुरुत्वाद् भवति तदाभिसन्धेरभावात् । तृणकर्म वायुसंयोगात् [वै० सू० ५।१।१४ ], वेगापेक्षाद् वायुतृणसंयोगात् तृणादीनां कर्म, तेषां प्रयत्नाभावात् । मणिगमनं सूच्यभिसर्पणमित्यदृष्टकारितानि [वै० सू० ५।१।१५], मणीनां तस्करं प्रति गमनं सूचीनां वा अयस्कान्तं प्रति धर्माधर्मकृतमित्यर्थः । इषावयुगपत् संयोगविशेषात्क(षाः क)र्मान्यत्वे हेतुः [वै० सू० ५।१।१६ ], नोदनादाद्यं कर्म, संस्काराद् बहूनि कर्माणि इषावुत्पद्यन्ते । एकस्मिस्तु कर्मणि प्रथमेणैवाकाशसंयोगेन विनष्टत्वात् कर्मण उत्तरसंयोगविभागा नोत्पद्येरन् , तस्मादिषावनेकं कर्म । नोदनादाद्यमिषोः कर्म कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च [वै० सू० ५।१।१७ ] ज्याशरसंयोगः प्रयत्नापेक्षो ज्यागतवेगापेक्षो वा नोदनम् , तत आद्यमिषोः कर्म नोदनापेक्षं संस्कारं करोति, निरपेक्षं तु संयोगविभागौ। ततः संयोगाद् विनष्ट कर्मणि नोदने विभागाद् विनिवृत्ते आद्यकर्मजसंस्कार उत्तरमिषौ कर्म करोति, तथोत्तरमुत्तरं पौनःपुन्येनेत्यर्थः । संस्काराभावे गुरुत्वात् पतनम् [वै० सू० ५।१।१८ ], स्पर्शवद्र्व्यसंयोगेन संस्कारविनाशाद् गुरुत्वं तत्पतनकर्म करोति । पञ्चमस्याद्यमाह्निकम् । आध्यात्मिकेषु तत्सम्बन्धे(द्धे)षु च कर्माण्युक्त्वा महाभूतकर्माणि व्याचष्टे - नोदनायभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म [वै० सू० ५।२।१], समस्तान् व्यस्तांश्च गुरुत्वद्रवत्ववेगप्रयत्नान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org