________________
प्रशस्तमतिमतखण्डनम्] द्वादशारं नयचक्रम्
૪૮૨ यदपि च कर्नादिकारकव्यापारफलमुत्पन्नं वस्तुमात्रमशेषविशेषणविनिर्मुक्तं कारणसमवेतमित्यात्मावधारणं कृत्वा चोदितं 'वस्तुमात्रस्य निरतिशयत्वात् सत्त्वादिविशेषणसम्बन्धनियमानुपपत्तिः' इति तत् तथैव, सत्ताद्यसम्बन्धात् कारणसमवेतसर्वकार्यातिशयाभावात् सत्तादिविशेषणसम्बन्धनियमानुपपत्तिरेव ।
यत्तु प्रत्युच्यते-न, कारणसामग्र्ये विशेषसद्भावात् । यत्तुल्यजातीयावयवा-5 रब्धं वस्तुमानं कार्य तद् द्रव्यत्वेन सम्बध्यते । यत्तु कारणगुणारब्धं वस्तुमात्रं कार्य तदू गुणत्वेन सम्बध्यते। यत् पुनर्गुरुत्वादिभिः खाश्रये स्वाश्रयसंयोगसहितैर्वा
- यदपि च कर्नादीत्यादि । कादीनां कारकाणां समवायिनामसमवायिनां च मृदादीनां देवदत्तदण्डादीनां च यो व्यापारः समेत्य खकार्यारम्भः, तस्य फलं घटादि कार्यमुत्पन्नं वस्तुमात्रम् , तस्यास्मावधारणं कार्यमित्यतः प्रागुवाहितार्थनिराकाङ्क्षीकरणार्थमाह - अशेषविशेषणविनिर्मुक्तं सत्त्व-द्रव्यत्व-10 गुणत्व-कर्मत्वादिभिः सर्वैविशेषणैर्विनिर्मुक्तं सम्बन्धिसद्भावशून्यं स्वभावसद्भावमात्रं यत् तदुच्यते कारणसमवेतं तदात्मा इतीत्थमात्मावधारणं कृत्वा स्वयमेव यच्चोदितम् - वस्तुमात्रस्य निरतिशयत्वात् संत्त्वादिद्रव्यत्वादिविशेषणसम्बन्धनियमानुपपत्तिः, ने हि तस्यामवस्थायामिदं द्रव्यम् , 'मया द्रव्यत्वेनात्रैव निलयनीयं न गुणकर्मत्वाभ्याम्' इति द्रव्यत्वस्य निलयननियमारणं नास्ति, अतिशयाभावादेव । तथा गुणत्वकर्मत्वयोरपि गुणकर्मणोरिति । तत् तथैवेत्यादि त्वदुक्तमेव कारणमिति तदेवोच्चारयति यावद-15 नुपपत्तिरेवेति । सत्तादिग्रहणात् सत्त्व-द्रव्यत्व-गुणत्व-कर्मत्व-घटत्व-रूपत्व-गमनत्वाद्यसम्बन्धात् कारणसमवेतसर्वद्रव्यगुणादिकार्यसत्ताद्रव्यत्वादिविशेषकृतसम्बन्धातिशयाभावादिति ।
३३०-२ ___एतस्य परिहारार्थं यत् तु प्रत्युच्यते-न, कारणसामग्र्ये विशेषसद्भावादिति । तद्वयाख्यानं-यत् तुल्यजातीयावयवेत्यादि यावद् द्रव्यत्वेन सम्बध्यत इति द्रव्यत्वनिलयननियमः । पृथिव्यप्तेजोवायुपरमाणुभिर्द्वाभ्यां बहुभिर्वा स्वसंयोगापेक्षैस्तुल्यजातीयैरारब्धेऽवयविद्रव्यकार्ये द्रव्यत्वं निलीयत 20 इत्यर्थः । यत्तु कारणगुणेत्यादि, तैरारब्धे कार्यद्रव्ये नियमत एव [गुणा] गुणान्तरं तत्रस्था आरभन्ते [ ] इति वचनात् तदारब्धे गुणान्तरे कार्य गुणत्वनियमनात् गुणत्वेन सम्बध्यते । यत् पुनर्गुरुत्वादिभिः स्वाश्रये यत्राश्रये गुरुत्वं समवेतं तत्र "संयोगाभावे पतनकारभ्यते, आदिग्रहणात् प्रयत्ननोदनाभिघातसंयोगवेगाः कारभन्ते । स्वाश्रयसंयोगसहितैर्वेति तैरेव गुरुत्वादिभिः स्वाश्रये
.. १'नासमवा प्र० ॥ २ गुणकर्म प्र०॥ ३°न्धेसद्भाप्र० ॥ ४ सत्वादि प्र० ॥ ५ 'न हि तस्यामवस्थायाम् 'इदं द्रव्यम् , मया द्रव्यत्वेनात्रैव निलयनीयं न गुणकर्मस्वाभ्याम्' इति द्रव्यत्वस्य निलयननियमकारणमस्ति' इत्यपि पाठः स्यात् ॥ ६ वि० विना कारणनास्ति य० । दृश्यतां टि० ५ ॥ ७ (कार्ये?) ॥ ८ यस्तु प्र०॥ ९ख्याने यत्तुल्यजातीयावयावेत्यादि भा० ॥ १० संगाभावे प्र०॥ ११ रभते प्र० । अत्र 'गुरुत्वम्' इत्यस्य कर्तृत्वविवक्षायाम् 'आरभते' इति यथाश्रुतपाठोऽपि साधुरेवेति ध्येयम् ॥ १२ दृश्यतां प्रशस्तपादभाष्ये क्रर्मनिरूपणम् । “एवमुक्तेषु द्रव्येषु गुणानुल्लङ्घय अल्पवक्तव्यत्वात् कर्माण्यभिधत्ते । तत्र आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म [वै० सू० ५।१।१], खाश्रयसंयोगापेक्षित्वात् प्रयत्नस्य क्रियारम्भे आत्महस्तसंयोगः कर्मणः कारणम् । सापेक्ष
नय०६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org