________________
४८०
न्यायागमानुसारिणीवृत्त्यलकृतम् [सप्तम उभयोमयारे कत्वादत्यन्तानुप्रवृत्तसत्तावत् । अनर्थसत्ता चान्यत्रानाधेया, तत एव, स्वसत्तावत् ।
यदि तत् कारणसमवेतं खत एव सन्न भवति असदेव तर्हि तत्, स्वतो निरुपा. ख्यत्वात् अव्यपदेश्यत्वात् तथाऽविशिष्टत्वात् खपुष्पवत् असत् स्यात् । कार्यमपि वा प्राक् सदुत्पत्तेः, एभ्य एव, उत्पन्नमात्रद्रव्यादिवत् । इन तत्सत्ता सत्तान्तरमपेक्षते, द्रव्यादीनामुत्पन्नानां स्वभावसत्ता सम्बन्धिसत्ता नापेक्षते सत्तासम्बन्धरहितत्वेऽपि सत्तात्मकत्वात् , अत्यन्तानुप्रवृत्तसत्तावत् महासामान्यवदित्यर्थः । अनर्थसत्ता, 'अर्थः' इति द्रव्यगुणकर्मसु संज्ञानियमादनाः सामान्य-विशेष-समवायाः, तेषामनर्थानां या सत्ता सापि चान्यत्रानाघेया अनाश्रितेत्यर्थः । तत एव हेतोः, स्वसत्तावदित्येतान्यनिष्टापादनसाधनानि ।।
पुनस्तत्रैव दोषः प्रकारान्तरेणोच्यते - यदि तत् कारणसमवेतमित्यादि । यदि कारणेषु समवेत10 मात्रं कार्यं स्वत एव सन्न भवति, सत्तासम्बन्धात् सद् भवेति, सदेवेति सदेव न भवति, अँगुणगुणत्वादिवदसदपीति, यद्यवमिष्यते तत एवमापन्नम् - असदेव तर्हि तत् । कुतः ? स्वतो निरुपाख्यत्वात् , 'निरुपाख्यत्वात्' इति सिद्धे 'स्वतः' इति विशेषणं वेदनादीनां स्वसंवेद्यानां निरुपाख्यानां सत्त्वात् तद्वदनै
कान्तिकता मा भूदिति । तद्धि वेदनाद्यसाधारणरूपेण निरुपाख्यमपि स्वत एव वस्त्वात्मनैव सामान्यात्मना ११० अंशान्तरेण पररूपेण च व्यावृत्तेन सोपाख्यमिति । तथा विविधं विशिष्टं वा अपदेश्यो व्यपदेश्यः, न 15 व्यपदेश्यः प्रकारान्तरेण वेदनादिवद् व्यपदेश्यो न भवतीत्यर्थः, खपुष्पवैलक्षण्येन तथाऽविशिष्टत्वादिति विशेषणेन हि सदादिना वस्त्वेव सामान्यांशादिना वेदनादि सम्बध्यते नावस्त्विति एवं साधर्म्यात् खपुष्पवदसत् स्यादिति गतार्थम् । एतदनभ्युपगमे कार्यमपि वा प्राक् सदुत्पत्तेः, एभ्य एव हेतुभ्यः 'स्वतो निरुपाख्यत्वात्' इत्यादिभ्यः, उत्पन्नमात्रद्रव्यादिवत् ।।
१ "बुद्धीनामर्थेन्द्रियापेक्षत्वे[s]प्यर्थस्तावदुच्यते-अर्थ इति द्रव्यगुणकर्मसु [वै०. सू० ८।१४ ], विनाप्यर्थत्वेन सामान्येन त्रिष्वेव द्रव्यादिषु तत्र प्रसिद्ध्यर्थशब्दः (प्रसिद्ध्यार्थशब्दः ? प्रसिद्धोऽर्थशब्दः ? प्रसिद्ध्यर्थमर्थशब्दः?) परिभाष्यते । क्वेव ? यथा सामान्य विशेषेषु. विना सामान्यान्तरेण यथा सत्तादिषु सामान्येषु 'सामान्यं सामान्यम्' इति ज्ञानं तथा विशेषेषु विशेषान्तराभावेऽपि 'विशेषो विशेषः' इति तद्दर्शिनां विज्ञानमेवं द्रव्यादिषु विनाप्यर्थत्वेन पारिभाषिकोऽर्थशब्दः । इन्द्रियाण्युच्यन्ते, तानि च न पश्चात्मकानि, यतः द्रव्येषु पञ्चात्मकं प्रत्युक्तम् [वै० सू० ८1१५], यतो द्रव्येष्वारब्धव्येषु पञ्च भूतानि आरम्भकानि न विद्यन्ते अपि तु यानि आरभन्ते च वारि तानि खां खां जातिमारभन्ते । एवमिन्द्रियाण्यपि प्रतिनियतभूत कार्याणि, तथाहि-भूयस्त्वाद् गन्धवस्वाच्च पृथिवी गन्धज्ञाने [वै० सू० ८।१६], गन्धज्ञानं घ्राणम् , तस्मिन्नारब्धव्ये पृथिवी कारणं भूयस्वात् , शरीरापेक्षया तु भूयस्त्वम् । भूयस्त्वं च घ्राणे पृथिव्याः, पादादिना गन्धोपलब्ध्यभावात् । गन्धवत्त्वाच्च, यतश्च स्वसमवायिना गन्धेन घ्राणेन्द्रियं गन्धमभिव्यनक्ति अतस्तस्य गन्धवती पृथिव्येव कारणम् , भूतान्तराणि तु संयोगीनि खल्पान्येव । तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु (रसरूपस्पर्शेषु T) रसरूपस्पर्श विशेषात् [वै० सू० ८1१७] इति, खसमवायिना मधुरापाकजेन रसेन रूपेण शुक्लभास्वरेण स्पर्शन अपाकजानुष्णाशीतेन यतो रसन-नयन-स्पर्शनानि रसरूपस्पर्शान भिव्यजन्ति अतो रसवत्त्वाद् रूपतत्त्वात् स्पर्शवत्त्वाच्च भूतान्तरैर्निमित्तैरनभिभूतत्वेन भूयस्त्वाच्च त्रिष्विन्द्रियेषु यथास्वयमापस्तेजो वायुश्च समवायिकारणानि द्रष्टव्यानि । आकाश तु खत एव श्रोत्रं कर्णशष्कुल्यावच्छिन्नं, न प्रकृतिरनारम्भकत्वात् । एवं प्रत्यक्षं व्याख्यातम् । अष्टमोऽध्यायः।" इति चन्द्रानन्दविरचितायां वैशेषिकसूत्रवृत्तौ P.पृ. ३०॥ २°ति सदेवेति सदेव इति कथञ्चिद् द्विर्भूतश्चेत् पाठस्तर्हि 'सत्तासम्बन्धात् सद् भवति, सदेव न भवति, अगुणगुणत्वादिवदसदपीति' इति पाठः समीचीन इति प्रतिभाति ॥ ३ अगणत्वादि भा० ही० ॥ ४ सतोप्र.॥ ५ वखात्मनैव य० । अत्र च खात्मनैव इत्यपि पाठः स्यात् ॥ ६ तथा विधं प्र० ॥ ७ तथाविशि° भा० ॥ ८ वि. विना प्राक् बवुत्पत्तेः य० । प्राक् वदुत्पत्तेः वि० । प्राक् दुत्पत्तेः भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org