________________
प्रशस्तमतिमतखण्डनम् द्वादशारं नयचक्रम्
४७९ प्रकाश्यः प्रकाशः अतद्रूपभावाधिगम्यत्वात् । सत्तापि च द्रव्याद्यतद्रूपप्रत्ययेन प्रकाश्यते वाक्प्रकाशावगमितार्थप्रदीपादिप्रकाशनवत् ।
प्रधानमपि चैवं स्याद् भवत्परिकल्पिता सत्ता विश्वरूपोपभोगप्रतिपादनार्थत्वात् पुरुषार्थत्वाद् गुणत्रयवत् ।।
कार्यमपि ते प्रागपि सदेव प्राप्नोति, अशक्तसदसत्त्वेनाध्यास्यमानत्वात् । सक्रियमाणत्वात् , उत्पन्नमात्रद्रव्यादिवत् । यद्वा न तत् सक्रियते न भाव्यते वा केनचिदर्थान्तरेण, सद्भूतत्वात्, सत्तादिवत् । न तत्सत्ता सत्तान्तरमपेक्षते सत्तात्म
चक्रकरूपेण । तस्मात् प्रकाश्यः प्रकाशः प्रकाशान्तरप्रकाश्यः प्रदीपप्रकाशोऽपि, अतद्रूपभावाधिगम्यत्वादित्यवस्थादृष्टान्तासत्त्वसमर्थनोपसंहारः । सत्तायामप्यनवस्थामतद्रूपप्रकाश्यसाधादापादयितुमाह प्रस्तुतायाम् – सत्तापि चेत्यादि । सत्तापि चाश्रयस्य द्रव्यादेरतद्रूपस्य प्रत्ययेनात्मानं 10 लभते, तेन प्रकाश्यते, वाक्प्रकाशावगमितस्यार्थस्य प्रदीपादिना प्रकाशनवत् , न स्वत एवेत्यनवस्थादोषोऽत्रापि तदवस्थः ।
किश्चान्यत्, प्रधानमपि चैवमित्यादि । सायपरिकल्पितं सकलजगत्कारणं प्रधानादिपर्यायं स्याद् भवता वैशेषिकेण परिकल्पिता सत्ता विश्वरूपोपभोगप्रतिपादनार्थत्वात् पुरुषार्थत्वाद् गुणत्रयः वत् , यथा सत्त्वरजस्तमोनामकं पुरुषार्थ प्रवर्तमानं पुरुषस्य विश्वरूपमुपभोगं प्रतिपादयितुं प्रवर्तमानं 15 प्रधानमेव न ततोऽन्यद् व्यतिरिक्तं किञ्चित् तद्विकारत्वादेवं सत्तापि प्रधानमेव स्यात् । अनिष्टं चैतत् ।
किश्चान्यत्, कार्यमपि त इत्यादि यावद् द्रव्यादिवदिति । कार्यमपि तव द्रव्यादि जन्मकालात् प्रागपि सदेव प्राप्नोतीत्येतदप्यनिष्टापादनम् । कथं तन्त्वादिकारणानि प्रागप्युत्तरकालभाव्यभिमतात्मसम्बन्धीनि ? अँशक्तसदसत्त्वेनाध्यास्यमानत्वादित्यादिहेतवो गतार्था यावत् सक्रियमाणत्वादिति । ३२९-२ उत्पन्नमात्रद्रव्यादिवदिति दृष्टान्तः ।
20 यद्वेत्यादि । अथैवं नेष्यते न तत् सक्रियते द्रव्याद्युत्पन्नमात्रं न भाव्यते वा केनचिदर्थान्तरेण, सद्भूतत्वात, सत्तादिवदिति, आदिग्रहणाद् द्रव्यत्वादिसामान्यविशेष-विशेष-समवायवत ।
जानाति, न तु पर्यायरहितमित्यत आह - अपजवे जाणणा नत्थित्ति । अपर्याये पर्यायरहिते यतो जाणणा परिज्ञा केवल्यादीना. मपि नास्ति ततस्ते उत्प्रेक्षामात्रेण व्यवह्रियन्ते, न तु परमार्थतः सन्ति, ततो द्रव्यमेव तात्त्विकम् ।" इति मलय गिरिविरचितायाम् आवश्यकनियुक्तिव्याख्यायाम् । विस्तरेण त्वस्या आवश्यकनियुक्तिगाथाया अर्थो निम्निलिखिताभ्यो जिनभद्रगणिक्षमाश्रणविरचितविशेषावश्यकभाष्यगाथाभ्योऽवसेयः - "जं जाहे जं भावं परिणमइ तयं तया तओऽणन्नं । परिणइमेत्तविसिटुं दव्वं चिय जाणइ जिणिंदो ॥ २६६८ ॥ न सुवष्ण.दन्नं कुंडलाइ तं चेय तं तमागारं । पत्तं तव्ववएसं लभइ सरुवाद भिन्नं ति ॥ २६६९ ॥ जइ वा दन्वादन्ने गुणादओ नूण सप्पएसत्तं । होज व स्वाईणं विभिन्न देसोवलंभो वि ॥ २६७० ॥ जइ पजवोवयारो लयप्पयासपरिणाममेत्तस्स । कीरइ तन्नाम न सो दवादत्थंतरभूओ॥ २६७१ ॥ दवपरिणाममेतं पजाओसो य न खरसिंगस्स। तदपजवं न नजइ जनाणं नेयविसयंति ॥ २६ २॥" विशेषाव०भा०। आना गाथानां व्याख्यानं तु कोट्याचार्यमलधारिहेमचन्द्राचार्यादिविरचितवृत्तिभ्योऽवसेयम् ॥
१ स्थानअतद्रू प्र० ॥ २षार्थ प्र० । (°षाय ?)॥ ३त्वादेवसत्वाविधानमेव प्र० ॥ ४ दृश्यतां पृ० ४७३ पं० ७॥ ५ सदसत्वेसत्वेना रे० डे० । (अशक्तसदसत्त्वे सत्त्वेनाध्यास्यमानत्वात् ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org