________________
समवाये दोषप्रदर्शनम् ]
द्वादशारं नयचक्रम्
वायाविशेषे कुत एवायं नियमो द्रव्यत्वस्य पृथिव्यादिष्वेव समवायो गुणत्वस्य रूपादिष्वेव कर्मत्वस्योत्क्षेपणादिष्वेव नान्यत्रेत्यत आह – यथेति । संयोगस्यैकत्वेऽपि कुण्डदनोराश्रयाश्रयिभावस्य नियमो दृष्टः शक्तिंनियमात् कुण्डमेवाश्रयो दध्येवाधेयं न तु कुण्डमाधेयं दधि वाधारः तथा समवायैकत्वेऽपि द्रव्यत्वादीनामाधाराधेयनियमो व्यङ्ग्यव्यञ्जकशक्तिभेदात् । किमुक्तं स्यात् ? द्रव्यत्वाभिव्यञ्जिका शक्तिर्द्रव्याणामेव, तेन द्रव्येष्वेव द्रव्यत्वं समवैति नान्यत्रेति । एवं गुणकर्मस्वपि व्याख्येयम् ।" इति न्यायकन्दल्याम् ।
अथ तत्त्वसङ्ग्रहपञ्जिकास्था चर्चा उद्भियते - “इहबुद्ध्यविशेषाच्च योगवन्न विभिद्यते । सर्वस्मिन् भाववत्त्वेष एक एव प्रतीयते ॥ ८२५॥ एवं तावद् वैशेषिकाणां मतेन इहबुद्धिलिङ्गानुमेयः समवायः । नैयायिकमतेन तु इहबुद्धिप्रत्यक्षगम्य एव, तथाहि - ते अक्षव्यापारे सति 'इह तन्तुषु पटः' इत्यादिप्रत्ययोत्पत्तेः प्रत्यक्षत्वमाचक्षते । स चायं समवायो यथा संयोगः सम्बन्धिषु भिन्नः तथा नायं भिद्यते, किं तर्हि ? भाववत् सत्तावत् तलिङ्गा विशेषाद् विशेषलिङ्गाभावात् सर्वत्रैक एव समवायः । योगवदिति वैधर्म्यदृष्टान्तः
"1
यच्चोक्तम् 'इहबुद्ध्यविशेषात्' इत्यादि तत्राह - यद्येकः समवायः स्यात् सर्वेष्वेव च वस्तुषु । कपालादिष्वपि ज्ञानं पटादीति प्रसज्यते ॥ ८३५ ॥ गजादिष्वपि गोत्वादि समस्तीत्यनुषज्यते । ततो गवादिरूपत्वममीषां शाबलेयवत् ॥ ८३६ ॥ पटस्तन्तुषु योऽस्तीति समवायात् प्रतीयते । अस्ति चासौ कपालेषु तस्येति न तथेति किम् ॥ ८३७ ॥ नाश्रितः स कपाले चेन्ननु तन्तुष्वपीष्यते । आश्रितः समवायेन स कपालेऽपि नास्ति किम् ॥ ८३८ ॥ तन्तौ यः समवायो हि पटस्येत्यभिधीयते । स घटस्य कपालेषु तद्धीरनवधिर्भवेत् ॥ ८३९ ॥ एवं यश्च गजत्वादिसमवायो गजादिषु । गोत्वादिजातिभेदानां स एव स्वाश्रयेष्वपि ॥ ८४० ॥ यद्येक इत्यादि । यद्येकस्त्रैलोक्ये समवायः स्यात् तदा कपालेषु [ पट ] इत्यादयोऽपि धियः प्रसूयेरन् अश्वादिषु च गोत्वादिर्विद्यत इत्येवं स्यात् । ततश्च सावलेयादिभेदवद् गजादिष्वपि गवादिप्रत्ययो भवेत् । तथाहि - तन्तुषु पट इति यत्समवायबलात् प्रतीतिरुपवर्णिता स समवायस्तस्य पटस्य कपालादिष्वप्यस्तीति किमिति तथा प्रतीतिर्न भवेत् । स्यादेतत्-न कपाले पट आश्रितः, तेन तथा प्रत्ययो न भवतीति । एतदपि मिथ्या । यतस्तन्तुष्वपि पट आश्रित इति यत्समवायबलादुपवर्ण्य समवायः कपालेषु किं नास्ति, येन तत्र तन्तुष्विव पटोऽस्तीति तद्बुद्धिर्न भवेत् ? । किन्तु य एव तन्तुषु पटस्य समवाय इति निर्दिश्यते स एव पटस्य समवायः कपालेषु, तत् कथं सङ्करो न स्यात् ? तत् तस्मात् धीरनवधिः अवधिरहिता भवेत्, ततश्च द्रव्यगुणकर्मणां द्रव्यत्वगुणत्व कर्मत्वादिविशेषणैः सम्बन्धस्यैकत्वात् पञ्चपदार्थविभागो न स्यात् । एवमित्यादिना गजादिषु गवादिबुद्धिप्रसङ्गं समर्थयते ।
५२५
navan
आधाराधेय नियमस्तदेकत्वेऽपि विद्यते । द्रव्येष्वेव हि तज्जातिः कर्मस्वेव च कर्मता ॥ ८४१ ॥ आधारेत्यादिना अत्र प्रशस्तमतेरुतरमाशङ्कते । स ह्याह - यद्यप्येकः समवायस्तथापि पञ्चपदार्थसङ्करो न भवति, आधाराधेयनियमात् । तथाहिद्रव्येष्वेव द्रव्यत्वम् गुणेष्वेव गुणत्वम्, कर्मस्वेव कर्मत्वमिति । एवं द्रव्यत्वादीनां प्रतिनियताधारावच्छेदेन प्रतिपत्तिरुपजायते । यद्येवं तर्हि समवायः प्रतिपदार्थं भिन्नः प्राप्नोतीत्यत आह- इहेति समवायोत्थविज्ञानान्वयदर्शनात् । सर्वत्र समवायोऽयमेक एवेति गम्यते ॥ ८४२ ॥ द्रव्यत्वादिनिमित्तानां व्यतिरेकस्य दर्शनात् । धियां द्रव्यादिजातीनां नियमस्त्ववसीयते ॥ ८४३ ॥ इहेत्यादि । इहेति समवायनिमित्तस्य प्रत्ययस्य सर्वत्राभिन्नाकारतया अन्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । सत्यपि चैकत्वे द्रव्यत्वादिनिमित्तानां धियां प्रतिनियताधारावच्छेदेनोत्पत्तेः व्यतिरेकस्यानन्वयलक्षणस्य दर्शनादू द्रव्यत्वा दिजातीनां व्यतिरेको विज्ञायते तेन पञ्चपदार्थसङ्करो न भवति । कथं पुनः सम्बन्धाविशेषेऽप्यमीषामाधाराधेयप्रतिनियमो युज्यत इत्याहतद्यथा कुण्डदध्नोश्च संयोगैक्येऽपि दृश्यते । आधाराधेयनियमस्तथेह नियमो मतः ॥ ८४४ ॥ व्यङ्ग्यव्यञ्जक सामर्थ्यभेदाद द्रव्यादिजातिषु । समवायैकभावेऽपि नैव चेत् स विरुध्यते ॥ ८४५ ॥ तद्यथेत्यादि । यथाहि कुण्डदनोः संयोगैकत्वेऽपि भवत्याश्रयाश्रयिप्रतिनियमः तथा द्रव्यत्वादीनां समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयप्रतिनियम इति । स इत्याधाराधेयनियमः । आधाराधेय इत्यादिना प्रतिविधत्ते - आधाराधेयनियमो नन्वेकत्वेऽस्य दुर्घटः । द्रव्यत्वं द्रव्य एवेष्टं कथं तत्समवायतः ॥ ८४६ ॥ तस्यासौ समवायश्च गुणादिष्वपि विद्यते । गुणजात्यादिसम्बन्धादेक एव ह्ययं तयोः ॥ ८४७ ॥ न ह्यस्माकं रूपत्वादीनां रूपादिष्वाधेयनियमः सिद्धः, किन्तु भवतामेव । स च सर्वत्र समवायमेकमेव अभ्युपगच्छतां दुर्घट इत्यादिप्रसङ्गापादनं क्रियते । तथाहि - 'द्रव्ये एव द्रव्यत्वम्' इत्येवं यो नियम इष्यते स समवायबलादेव, तस्य च द्रव्यत्वादेर्यः समवायः स एव गुणादिप्यस्ति गुणत्वादिजात्या तेषां सम्बन्धत्वात् । यदि नाम सम्बन्धस्तथापि स एव तत्र समवायोऽस्तीति कथमवसीयते इत्याह – एक एवेत्यादि । तयोरिति द्रव्यत्वगुणत्वादिजात्योः । ततश्चाभिन्ननिमित्तत्वात् तत्सङ्करप्रसङ्गो दुर्निवार इति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org